You are on page 1of 2

A Copy Of "भारतानुवर्णनम्"(A Description Of India) Page by page.

Pages 3 & 4..गुर्जरदेशॊ(Guzerat) वङ्गदेशश्च Bengal) हिन्दुस्थानस्य सामीप्यात् तत्रान्तर्भवतः॥


---------
सहजलक्षणानि.(Natural Features)
भूमेः सहजानि लक्षणानि यानि सम्भाव्यन्ते,तानि सर्वाणि भारते पश्यामः। अत्र हि तुङ्गाः पर्वताः सन्ति;भीषणानि वनानि विद्यन्ते;विस्तीर्णा
उर्वरा(Fertile soil) उपलभ्यन्ते;आजयः(Level ground) सिकतिलाः(Sandy); प्रदेशाः मरवॊ मालानि(Rising Ground)
च वर्तन्ते; नद्यॊ बहुळाः प्रवहन्ति;महान्ति च सरांसि(Lakes) समुल्लसन्ति॥
पर्वताः.
हिमालयः(Extending from East to West) पूर्वापरायतस्तिष्ठति। अयं १६००(षट्शताधिकं सहस्रम्)क्रॊशान्
दीर्घः,त्रिंशतॊत्तमांस्तदर्धावरांश्च क्रॊशान् (Consisting of at the greatest 300,& Consisting of at the least
150) विस्तीर्णः।
अस्य २३००० पदॊन्नतानि शिखराणि पञ्चचत्वारिंशत् सन्ति;विंशतिसहस्रपदॊन्नतानि शिखराणि
परश्शतानि(More than a hundred) वर्तन्ते। अस्य तुङ्गतमं शिखरं २९००० पदान्युच्छ्र्यते। ईदृक्
उन्नतम् अन्यत् गिरिशिखरं लॊके न विद्यते।
हिमालयस्य दक्षिणे पार्श्वे १३२०० पदेभ्य ऊर्ध्वे देशे हिमसंहतयः कठॊराः सन्ति;उत्तरे पार्श्वे तु
१७४०० पदेभ्य ऊर्ध्वे देशे ताः कठिनाः सन्ति। तासु काश्चित् एकादशक्रॊशदीर्घाः सार्धक्रॊशविस्तीर्णाश्च दृश्यन्ते। एता उष्णकाले
विलीनाः(Melted) सत्यॊ नदीषु वृष्टिं विना जल
मभिवर्धयनि।
यत एवम् अयं पर्वतॊ हिमस्य स्थानं भवति, तत उच्यते हिमालय इति। अस्य ’हिमवान्’
’हिमाद्रिः’इत्यपि नामान्तरम्।
एष तुङ्गतया दीर्घतया विस्तारेण वृक्षाणाम् ऒषधीनां च सम्पदा प्राण्युपकारेण च सर्वान् पर्व
तान् अतिशेते। अतॊऽस्य पर्वतराज इति प्रसिद्धिः।
कार्तस्वराकारः--(Modern name'karakora' is believed to be a currupt form of 'कार्तस्वराकार’
spoken of by the commentator of विष्णुपुराण. कार्तस्वराकार means 'A mine of gold'.कारकॊ
रनामा पर्वतः काश्मीरदेशस्यॊत्तरेण तिष्ठति। अयमेव ’कार्तस्वराकार’ इति नाम्ना व्यवहृतः सम्भाव्यते। अस्य दक्षिणत आसन्ने देशे ’बालूटि’(BolTi
or Little Tibet) इति व्यपदिश्यमाने
कार्तस्वरम् उत्पद्यते।
अस्य श्रुङ्गाणि बहूनि सन्ति। तेषु मुख्यं श्रुङ्गम् औन्नत्ये हिमालयस्य प्रधानश्रुङ्गात् किञ्चि
दवरम्। धृवदेशात् अन्यत्रास्मिन्नेव पर्वते हिमसंहतेः सम्पद् भूयिष्ठा दृश्यते।
सुमाली---"सुलिमान्" इति व्यपदिश्यमानः "सुमाली" नाम पर्वतः सिन्धुनदस्य पश्चिमतीरे ति
ष्ठति। (ध्रुवदेशः=Polar Region; "Suliman",This seems to be a modified form of सुमालिन्
treated by the commentator of विष्णुपुराण) अस्माद् उत्तरतः पञ्चनदे "रुमण्वान्" नाम गिरि
रस्ति। रुमण्वतॊ रौमक इत्यपि संज्ञा।(पञ्चनद=punjab;रुमण्वान्=Salt Range.This is identifi
ed with the Greek "Oromanos"(Alexander) and Roumaka (Hewnthsang).The words "रुम
ण्वान् and रौमक are respectively derived from the radicals लवण and रुमा (Salt mine)

You might also like