You are on page 1of 4

‌​

.. Shanti Stotram ..

॥ शान्ति स्तोत्रम् ॥

Sanskrit Document Information

Text title : shAntistotram

File name : shAntistotram.itx

Location : doc_shiva

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com

Proofread by : Gopal Upadhyay, PSA Easwaran psaeaswaran at gmail.com

Source : Mantra Maharnava 1924 part -4 baTukabhairava section

Latest update : October 9, 2016

Send corrections to : Sanskrit@cheerful.com

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

October 9, 2016

sanskritdocuments.org
.. Shanti Stotram ..

॥ शान्ति स्तोत्रम् ॥
नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दूषका नराः ।
साधकानां शिवाः सन्तु स्वाम्नायपरिपालनम् ॥ १॥
नन्दन्तु मातरः सर्वा जयन्तु योगिनीगणाः ।
जयन्तु सिद्धा डाकिन्यो जयन्तु गुरूशक्तयः ॥ २॥
नन्दन्तु ह्यणिमाद्याश्च नन्दन्तु गुह्यकादयः ।
नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः ॥ ३॥
ये चाम्नायविशुद्धाश्च मन्त्रिणः शुद्धबुद्धयः ।
सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः ॥ ४॥
इन्द्राद्यास्तर्पिताः सन्तु तृप्यन्तु वास्तुदेवताः ।
चन्द्रसूर्यादयो देवास्तृप्यन्तु गुरूभक्तितः ॥ ५॥
नक्षत्राणि ग्रहा योगाः करणाद्यास्तथापरे ।
ते सर्वे सुखिनो यान्तु मासाश्च तिथयस्तथा ॥ ६॥
तृप्यन्तु पितरः सर्वे ऋतवो संवत्सरादयः ।
खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥ ७॥
अन्तरिक्षचरा घोरा ये चान्ये देवयोनयः ।
सर्वे तु सुखिनो यान्तु सर्वा नद्यश्च पक्षिणः ॥ ८॥
पर्वताः सुखिनः सन्तु तथा तत्कन्दरा गुहाः ।
ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा ॥ ९॥
तीर्थानि पशवो गावो याश्चान्याः पुण्यभूमयः ।
वृद्धाः पतिव्रता नार्यः शिवं कुर्वन्तु मे सदा ॥ १०॥
शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु ।
राजानः सुखिनः सन्तु क्षेममार्गे तु मे सदा ॥ ११॥
शुभा मे दिवसा यान्तु शिवास्तिष्ठन्तु मे शिवाः ।
द्वेष्टारः साधकानां च सदैवाम्नायदूषकाः ॥ १२॥
डाकिनीनां मुखे यान्तु तृप्तातृप्ताश्च तेषु ताः ।
शत्रवो नाशमायान्तु मम निन्दाकराः सदा ॥ १३॥

shAntistotram.pdf 1
॥ शान्ति स्तोत्रम् ॥

ये निन्दका ते विपदं प्रयान्तु ये साधकास्ते प्रभवन्तु सिद्धाः ।


ये सर्ववीराः करुणावलोकात्पुनः पुरात्मन्मम सन्निधत्स्व ॥ १४॥
इति शान्ति स्तोत्रम् ।

From Mantra Maharnava part - 4


Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com
Proofread by Gopal Upadhyay, PSA Easwaran psaeaswaran at
gmail.com

.. Shanti Stotram ..
was typeset using XƎLATEX 0.99996
on October 9, 2016

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like