Professional Documents
Culture Documents
24 Sans Texto 06
24 Sans Texto 06
। 4 रामस्य गृहम् ग्रामस्य मध्ये अस्ति । 5 प्रतिदिनम् रामः शिवम् कु सुमैः पूजयति । 6 किन्तु अद्य गृहे कु सुमानि न
सन्ति । 7 हे सेवक ! कु सुमानि कु त्र सन्ति ? इति रामः सेवकम् पृच्छति । 8 इदानीम् कु सुमानि गृहे न सन्ति । तानि
उद्याने सन्ति इति सेवकः वदति । 9 सेवक ! उद्यानम् गच्छ कु सुमानि च हर इति रामः वदति । 10 सेवकः
कु सुमेभ्यः उद्यानम् गच्छति । 11 तत्र कु सुमानि वृक्षेषु विकसन्ति । 12 उद्याने ह्रदः अपि अस्ति । 13 ह्रदे कमलानि
विकसन्ति । 14 सेवकः वृक्षात् कु सुमानि हरति किन्तु ह्रदात् कमलानि न हरति । 15 सः कु सुमानि रामाय यच्छति ।
16 अधुना रामः कटे उपविशति । 17 रामः कु सुमैः शिवम् पूजयति । 18 तदनन्तरम् सः मन्त्रम् जपति । 19
पश्चात् रामः उत्तिष्ठति गृहात् च उद्यानम् गच्छति । 20 गृहस्य समीपे पर्वताः सन्ति । 21 रामः पर्वतान् पश्यति
चिन्तयति च । 22 पर्वतानाम् शिखरेषु देवाः वसन्ति । 23 कै लसस्य शिखरे शिवः वसति । 24 यदा प्रतिदिनम्
शिवम् पूजयामि तदा शिवः तुष्यति इति ।।