You are on page 1of 5

Shakinisadashivarchanam

शाकिनीसदाशिवार्चनम्

Document Information

Text title : Shakinisadashivarchanam

File name : shAkinIsadAshivArchanam.itx

Category : devii, ShaTchakrashakti, shiva, devI

Location : doc_devii

Transliterated by : staff of Muktabodha.org Mark S.G. Dyczkowski

Proofread by : Aruna Narayanan narayanan.aruna at gmail.com

Description/comments : rudrayAmale uttaratantre 2 bhairava bhairavI sa.nvAde

Source : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya

Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator

muktabodha.org

Latest update : February 16, 2020

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

February 16, 2020

sanskritdocuments.org
Shakinisadashivarchanam

शाकिनीसदाशिवार्चनम्

अथ पञ्चषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि समुदायफलोदयम्।
कण्ठाम्भोजस्य वर्णानां ध्यानं मन्त्रं श‍ृणु प्रभो ॥ ६५-१॥
शाकिनीसहितं नित्यं पूजयित्वा सदाशिवम्।
मूढोऽपि योगिनां श्रेष्ठः किमन्ये ध्यानयोगिनः ॥ ६५-२॥
ध्यात्वा सम्पूजयेद्यस्तु सोऽभीष्टं फलमाप्नुयात्।
ततो ध्यानं प्रवक्ष्यामि वीरनाथ श‍ृणु प्रभो ॥ ६५-३॥
आदौ श्रीशाकिनीध्यानं पश्चाद् ध्यानं सदाशिवे ।
द्वयोरभेदबुद्ध्या च कामजेता स्वयं भवेत्॥ ६५-४॥
वन्दे नित्यां सुशीलां त्रिभुवनवरदां शाकिनीं पीतवस्त्रां
वेदाद्यां वेदमातां सुखमयललितां वेदहस्तोज्ज्वलाङ्गीम्।
ध्याये पीयूषधारामलघटसुधया स्निग्धदेहां हसन्तीं
मायां शम्भोर्ललाटे विधुकिरणकरां श्रीसदानन्दयुक्ताम्॥ ६५-५॥
अम्भोजास्त्रादिमुद्रासिवरदजटा धारयन्तीं करालं
श्यामां पीनस्तनाढ्यां त्रिनयनकमलां प्रेतलिङ्गासनस्थाम्।
सर्वाङ्गालङ्कृतां श्रीं विधुशतवदनाम्भोजशोभां वहन्तीं
शम्भोरानन्दकर्त्रीं चरमगुणपदां स्थूलसूक्ष्मस्वरूपाम्॥ ६५-६॥
एवं ध्यायेन्महायोगी स्थूलसूक्ष्मस्वरूपिणीम्।
अभेद्यभेदकरणीं शङ्कर प्रेमवल्लभ ॥ ६५-७॥
या विद्या वाग्भवाढ्या हरिवधुकमला केवले निष्फलन्ते
मायालक्ष्मीस्त्रिकूटं शशिमुखितदधः शाकिनी क्षेत्रपालम्।
वक्षद्वन्द्वं त्रिकूटं वधुमधरमिवासिद्धिमिष्टां विधेहि

1
शाकिनीसदाशिवार्चनम्

स्वाहान्तोऽयं महेशत्रिभुवनभविकाह्लादहेतोः प्रकाशः ॥ ६५-८॥


प्रणवं पूर्वमुद्धृत्य वाग्भवं तदनन्तरम्।
शाकिनी त्वं तदन्ते तु मम दोषान्विनाशय ॥ ६५-९॥
युगलं वह्निकान्तां च मन्त्रार्थाः सारदाः स्मृताः ।
कामराजं समुद्धृत्य हिरण्याक्षि सनातनि ॥ ६५-१०॥
शाकिन्यन्ते महामाये मायावह्निश्रिया युतम्।
एषा मन्त्रात्मिका विद्या कण्ठाम्भोजप्रकाशिनी ॥ ६५-११॥
शाकम्भरी महाविद्या तस्य वामे विभाति च ।
तस्य मन्त्रं प्रवक्ष्यामि ज्ञात्वैव योगवित्प्रभुः ॥ ६५-१२॥
महामन्त्रस्य माहात्म्यं कथितुं नैव शक्यते ।
भावमात्रेण सिद्धिः स्यात्किं पुनर्मोक्षसाधनम्॥ ६५-१३॥
विद्यां कामकलां विचित्रवसनां पद्मासनस्थां शिवां
कामाख्यां सकलान्स्वरान्त्रिजगतां शाकैर्महायोगिनी ।
नित्यं या परिपाल्यते भगवतीं शाकम्भरीं तां भजे
सा योगाधिप-रक्षका निशि दिशि श्रीकण्ठपद्मे प्रभा ॥ ६५-१४॥
अद्यापि प्रियकण्ठपद्मनिकरे सम्भाति शाकम्भरी
विद्यावाक्कमलायुतं स्मितमुखि प्रान्ते च शाकम्भरि ।
वह्निर्वारुणवायुबीजमनलद्वन्द्वं हि वक्षद्वयं
वह्निप्रेमकलान्वितो मनुवरः साक्षाज्जगत्क्षोभकृत्॥ ६५-१५॥
शाकम्भरीं महामायां पूजयेद् द्वारदेवताम्।
तदन्ते सर्वदेवाश्च शक्रादीन्परिपूजयेत्॥ ६५-१६॥
ध्यात्वा च शाकिनीं देवीं शाकम्भर्याश्च दक्षिणे ।
पूजयेत्परया भक्त्या पूर्वोक्तविधिना प्रभो ॥ ६५-१७॥
शाकम्भरीं त्रिनयनां सूर्येन्दुवह्नियोजिताम्।
रक्तपद्मस्थितां श्यामां वेदबाहुश्रियोज्ज्वलाम्॥ ६५-१८॥
वराभयकरां खड्गकपालकमलान्विताम्।
नानालङ्कारशोभाङ्गी मुक्तकुन्तलभूषिताम्॥ ६५-१९॥
प्रसन्नवदनाम्भोजस्मितहास्यविराजिताम्।

2 sanskritdocuments.org
शाकिनीसदाशिवार्चनम्

साधकाभीष्टदां नित्यां महाविद्यां भजाम्यहम्॥ ६५-२०॥


ततो मानसपूजाञ्च ध्यानान्ते तु समाचरेत्।
पुनर्ध्यानं ततः कृत्वा चित्तावाहनमाचरेत्॥ ६५-२१॥
पाद्याद्यैः पूजयेन्नित्यं भक्त्या च योगसिद्धये ।
ततो जपेच्छतं वापि चाष्टोत्तरसहस्रकम्॥ ६५-२२॥
एवं लक्षसमाप्ते तु कण्ठे देवीं प्रपश्यति ।
होमादीन्क्रमशः कुर्याद् ब्राह्मणानां तु भोजनम्॥ ६५-२३॥
तदन्ते शाकिनीपूजा प्रथमे वापि कारयेत्।
तत्प्रकारं श‍ृणु प्राणवल्लभे कामसुन्दरि ॥ ६५-२४॥
आदौ जलं शोधयित्वा हस्तौ पादौ च विग्रहम्।
क्षालयित्वा द्विराचम्य मूलमन्त्रेण साधकः ॥ ६५-२५॥
शिखाबन्धनमाकृत्य चासनं परिशोधयेत्।
ततोऽर्घ्यस्थापनं कृत्वा पीठं निर्माय यत्नतः ॥ ६५-२६॥
पीठचक्रं शोधयित्वा पीठपूजां समाचरेत्।
ततो ध्यानं भूतशुद्धिं न्यासजालं समाचरेत्॥ ६५-२७॥
पुनः प्राणायामयुग्मं कृत्वा देहं दृढं नयेत्।
ततो ध्यानं मानसार्चा मुद्रादर्शनमेव च ॥ ६५-२८॥
ततः पाद्यं तथार्घ्यं तु चारुशङ्खेन कारयेत्।
आचमनीयं ततः स्नानं पुनराचमनं तथा ॥ ६५-२९॥
गन्धं पुष्पाणि सर्वाणि बिल्वपत्राणि दापयेत्।
निजावरणदेवांश्च पूजयित्वा क्रमेण तु ॥ ६५-३०॥
धूपदीपौ निवेद्याथ नैवेद्यं पानकं ततः ।
पुनराचमनं दत्वा बलिद्रव्याणि दापयेत्॥ ६५-३१॥
बलिं दत्वा जपेन्मन्त्रं सहस्रं वा शताष्टकम्।
दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत्॥ ६५-३२॥
जपं समर्पयेद् विद्वान्गुह्यातिगुह्यमन्त्रकैः ।
प्राणायामं त्रिषट्कृत्वा वन्दनं च प्रदक्षिणम्॥ ६५-३३॥

shAkinIsadAshivArchanam.pdf 3
शाकिनीसदाशिवार्चनम्

स्तोत्रञ्च कवचं नित्यं सहस्रनाममङ्गलम्।


पठेद् भक्त्या कण्ठपद्मे कायकल्पनकृन्नरः ॥ ६५-३४॥
एवं विधिविधानेन पूजयित्वा सदाशिवम्।
अस्मिञ्छास्त्रे क्रिया गुप्ता गुप्तनारी प्रपूजनम्॥ ६५-३५॥
अथवा मनसा सर्वं पूजायागजपं चरेत्।
यथा देव्यास्तथा शम्भोर्जपयागः समीरितः ॥ ६५-३६॥
एवं क्रमेण पूज्याश्च बाह्यस्था मुनयः क्रमात्।
पूज्या वर्णकला नाथ तद्बाह्यस्थानं प्रपूजयेत्॥ ६५-३७॥
एवं हि मासकार्येण वरं सिद्धिं समाप्नुयात्॥ ६५-३८॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
भैरवीभैरवसंवादे शाकिनीसदाशिवार्चनं नाम
पञ्चषष्टितमः पटलः ॥ ६५॥

The numbers correspond to paTala and verse numbers from


Rudrayamala uttaratantra.

Proofread by Aruna Narayanan

Shakinisadashivarchanam
pdf was typeset on February 16, 2020

Please send corrections to sanskrit@cheerful.com

4 sanskritdocuments.org

You might also like