You are on page 1of 12

शास्त्रपरम्परायां वाक्तत्त्वविमर्श:

1
उपोद्घातः 3
व्याकरणशास्त्रमूलं वाक् 4
व्याकरणशास्त्रे चतुर्विधवचोवृत्तयः: 6
श्रुतौ वाक् 8
वाक्सूक्तम्‌: 8
अन्यत्रम्‌: 9
कर्मकाण्डे: 10
आगमेषु वाक् 12
शारदातिलकतन्त्रम्‌: 12
परात्रिंशिकाविवरणम्‌: 14
मौनवाक् ‌दक्षिणामूर्तिः 15

2
उपोद्घातः

अनुशासनाज्ञा च यल्लिखितात्‌ग्रन्थात्प्राप्नुमः तदेव शास्त्रम्‌। यतः शास्त्रीयपरम्परार्थतः अनुशासनोपदेशकाः ग्रन्थाः विशिष्यन्ते। यथा
पुष्पदन्तमुखात्‌"रुचीनां वैचित्र्यादृजुकु टिलनानापथजुषां" इति ज्ञातं तथा हि विविधवृत्तिवानेभ्यः मनुष्येभ्यः विविधानुशासनविशिष्टानि शास्त्राणि
प्राप्नुमः। तेष्वपि सर्वेषु तत्त्वसिद्धान्तेषु मीमांसाषु च वैचित्र्यं दृश्यते तत्त्वैके तु न। तदेव वाक्तत्त्वम्‌। अव्यक्तस्य परमतत्त्वस्य व्यक्तस्वरूपपरिग्रहहेतुं
भूत्वा वाक्तत्त्वमेकं वर्तते। तत्त्वमिदं हि वाक्यपदीयम्‌इति ग्रन्थोपक्रमे भर्तृहरिणा सुस्पष्टतया व्यक्तम्‌, यथा "अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्‌"
इति। श्रुताश्रुतभेदैः वाक्तत्त्वमेव क्रियाशीलस्य प्रपञ्चस्य सारमस्ति। प्रपञ्चार्थे सृष्ट्यादीनां पञ्चकृ त्यानां प्रकृ ष्टप्रकाशं यत्र दृश्यते तत्प्रपञ्चम्‌। यतः
प्रपञ्चार्थतः क्रियाप्राधान्यं सूचितमस्ति। वाचि तेषां क्रियाणां सारं सन्निहितो भूत्वा वर्तते। अस्मिन्‌शोधपत्रे व्याकरणादिषु शास्त्रेषु वाक्तत्त्वविमर्शः
अध्ययनान्न्तरं वाचः सर्वमयत्वं प्रतिपाद्य मौनत्वसिद्धिविषये आलोचनानन्तरं सिद्धान्तपक्षमुपस्थापयामः। एषामुपस्थापने आदौ व्याकरणदर्शने
वाक्तत्त्वस्य प्रतिपादितं महत्त्वं विवेचयामः। अतः श्रुतिशास्त्रपरम्परायां प्राप्तः वाग्विमर्शः आलोचयामः। एतदनन्तरं विविधागमेषु शास्त्रेषु (यथा
प्रपञ्चसारतन्त्रं, शारदातिलकतन्त्रं, मातृकाभेदतन्त्रम्‌इत्यादि) प्राप्तं वाचः विद्यातत्त्वाश्रयं विवेच्य वाचः सर्वमयत्वसिद्धिः इत्यस्य प्रतिष्ठाप्रयासं
कु र्मः। अतः मौनवाचः तत्त्वं प्रतिपाद्य सिद्धान्तपक्षमालोचयामरिति॥

3
व्याकरणशास्त्रमूलं वाक् ‌

देवगणेषु प्रथमः पितामहः ब्रह्मा तप्त्वा साङ्गोपाङ्गवेदं यदा ज्ञातवान्‌, तद्वेदः नित्यशब्दमयः आसीदिति मात्स्ये। अतः यदा वयं
"वेदोऽखिलधर्ममूलम्‌" इति जानीमः तस्यादि प्रकाशं वाचा ह्यासीच्च वाक्तत्त्वं हि प्रत्यक्षतया अखिलधर्ममूलमिति वक्तुं शक्नुमः। षड्वेदाङ्गानां
प्रवर्तनं वेदस्य अर्थरक्षार्थं स्वरूपरक्षार्थम्‌अनुष्ठानरक्षार्थं च कृ तानि। वेदस्य अर्थरक्षार्थं प्रतिपादित-शास्त्रद्वयं वागाश्रितमस्ति, यथा व्याकरणं
निरुक्तञ्च। एतस्मात्‌यदा वयं भर्त्तृहरिविरचितं ’वाक्यपदीयम्‌’ प्राप्नुमः वाक्तत्त्वविमर्शः व्याकरणदर्शनेन सह प्रत्यक्षतया संयुक्तमासीत्‌।
मनोगतभावप्रकाशमाध्यममेव वागिति लोके ख्यातम्‌। इत्यस्य के वलं विवेचनात्‌
स्पष्टमस्ति वाचा प्रकाशं भवति। पाणिनीयधातुपाठात्‌प्राप्नुमः
१. वच्‌इति भाषणे
२. भाष्‌इति वक्तायां वाचि इति।
अतः अव्यक्तस्य व्यक्तत्वं येन सिद्ध्यते तदेव वागिति। पुनश्च वाक्यपदीयोपक्रमे भर्तृहरिणा प्राप्तम्‌, अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्‌।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥
श्लोके ऽस्मिन्‌प्रतिपादितेन शब्देन सह वाचरभेदत्वं स्वतः सिद्धमस्ति। वागित्यस्य निर्वचने ’उच्यतेऽसौ अनया वेति’ प्राप्नुमः। उच्यतेऽर्थात्‌
प्रकाश्यते मनोगतभावः। पुनश्च "शब्दः श्रोत्रेन्द्रियविषयः" इत्यमरः। एतस्मात्‌यद्वाक्श्रुतिगम्या तदेव शब्दः इति वक्तुं शक्नुमः। "व्याकरणशास्त्रस्य
प्रकृ तिप्रत्यये विभागप्रतिपादनपरतायाः प्रसिद्धत्त्वात्‌" इति सर्वदर्शनसंग्रहे। अर्थात्‌न तु के वलेभ्यः श्रवणगोचरेभ्यः शब्देभ्यः सम्यक्तया संस्कृ तेभ्यः
शब्देभ्यः विविधशास्त्रस्वरूपेण व्याकरणं प्रसिद्धम्‌। न चान्येभ्यः। अधुना यस्मात्‌शब्दात्‌प्रपञ्चं विग्रहवान्‌तस्य विधिशास्त्रप्रवर्तनप्रयोजनं नास्ति।
यतः तस्मात्‌क्रियाशीलप्रपञ्चस्योद्भवं स्वतः भवति। किन्तु एतदपि सत्यं सकलानां स्व्तन्त्रितविषयाणां नियन्त्रणविधेर्ज्ञानं मनुष्येभ्यः
प्रयोजनमस्ति। न चेज्जीवस्य सहजातः स्वतन्त्रितः चैतन्यात्‌लक्ष्यविषयस्य वैशिष्ट्यं नोपलभ्यते। तर्हि प्राणायामवत्‌शब्दानां विस्तारतः
वाक्शक्तेः
अनुशासनविधिरपि ज्ञातव्यमस्ति। चिन्तितविषयानां प्रकाशार्थं प्रचलितेषु सङ्केतेषु उच्चारितशब्दानां प्रायोगिकश्रेष्ठत्वं प्रसिद्धमस्ति। तेष्वपि मनुष्यैः
प्रयुक्तानां शब्दानां श्रेष्ठत्वमपि प्रसिद्धम्‌। पुनश्च मानवानां चित्तवृत्तीनां बहवः विक्षेपाणि सन्ति च तदर्थं मानवानां मनोगतभावस्य प्रकाशं सरलं
नास्ति। एतदर्थं प्रधानतः वाचः अपरिमितशक्तेः सम्यक्परिचालनार्थं व्याकरणशास्त्रमेव गजाङ्कु शस्वरूपम्‌। महर्षिपतञ्जलिः तस्य
महाभाष्यस्यादौ व्याकरणस्य शास्त्रस्य अध्ययनावश्यकत्वं विस्तारतया उपस्थापितवान्‌। अधुना वयं तान्यधिकृ त्य व्याकरणशास्त्रमध्ये वाचः
प्राधान्यं प्रतिष्ठां कु र्मः। तद्यथा -
१. मुख्यप्रयोजनानि:
        १.१ रक्षा: वेदमन्त्रेषु प्रयुक्तानां वर्णानां लोपः आगमः वर्णविकारः इत्येतेषां सम्यग्‌ज्ञानं वेदाध्ययनार्थं रक्षार्थं च प्रयोजनीयम्‌,
यथा"लोपागमवर्णविकारज्ञो हि सम्यग्‌वेदान्‌परिपालयिष्यतीति" इति महाभाष्ये।
        १.२ उह:: वेदोक्तानां मन्त्राणां लिङ्गविभक्त्यादीनां यज्ञोपयुक्तं प्रयोगमिति। यथा "ते चावश्यं पुरुषेण यज्ञगतेन यथायथं
विपरिणमयितव्याः” इति महाभाष्ये।

4
        १.३ आगमः: सार्थज्ञानं वेदाध्ययनम्‌। अर्थात्‌संहितादिपाठेभ्यः पाठमात्रेण मन्त्रार्थबोधरिति। यथा, "षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति” इति
महाभाष्ये।
        १.४ लघुः: सामन्यतया सकलानां शब्दानां ज्ञानमिति। यथा, "ब्राह्मणेनावश्यं शब्दा ज्ञेया इति" इति महाभाष्ये।
        १.५. असन्देहः: वैदिकमन्त्रैः उपदिष्टविषयानां सम्यज्ज्ञानार्थमित्यर्थः।

२. गौणप्रयोजनानि: एतेभ्यरतिरिक्तं महर्षिपतञ्जलिना द्वादशानि गौणप्रयोजनानि उपदिष्टानि। अत्र तेषामर्थेन विश्लेषणेनालम्‌, यथा,
         तेऽसुरा,
         दुष्टः शब्दः,
         यदधीतम्‌
         यस्तु प्रयुंक्ते
         अविद्वांसः
         विभक्तिं कु र्वन्ति
         यो वा इमाम्‌
         चत्वारि
         उत त्वः
         सक्तु मिव
         सारस्वतीम्‌
         दशम्यां पुत्रस्य
         सुदेवो असि वरुण इति
इत्येतेभ्यः प्रयोजनेभ्यः स्पष्टमस्ति भाषायाः प्रायोगिके क्षेत्रे विशृङ्खलारोधार्थं व्याकरणशास्त्राध्ययनञ्च तस्य प्रवर्तनमभवत्‌। मनुष्यैः उच्चारितानां
शब्दानां वैखरीति संज्ञास्ति। अधुना वयं मनुष्येषु वागुद्भवशृङ्खलोपरि विचारं कु र्मः।

व्याकरणशास्त्रे चतुर्विधवचोवृत्तयः:
यथा व्याकरणशास्त्रपरम्परा प्रधानतः वाचः अपरिमितशक्तेः नियन्त्रणविधीन्‌सङ्कलयति, तथा ह्यस्य प्रकाशस्य पर्यायक्रममपि अस्मिन्‌शास्त्रे
निर्दिष्टम्‌। परादीनां येषां चतुर्विधवचोवृत्तीनाम्‌उल्लेखं
श्रुतिमुखात्प्राप्नुमः भर्तृहरिप्रणीते वाक्यपदीयम्‌इत्यस्मिन्‌ग्रन्थे तेषां विश्लेषणमस्ति। लक्षणियमत्र भर्तृहरिदृष्ट्या वचोवृत्तीनां विश्लेषण्म्‌
आगमशास्त्राश्रितं योगदर्शनाश्रितञ्च। मनुष्येषु वाचः उद्भवे तत्र षट्चक्राणां क्रियाश्च प्राणायामयोगः भर्तृहरिणा व्याख्याताः। यथा,
परा: शब्दस्य सूक्ष्मतमः अभिव्यक्तिरिदम्‌। एतेन सह प्रत्यक्षतया शब्दब्रह्मणरैक्यमपि प्रतिपादितं यथा, " विशेषरहिता चेतनामिश्रा
सृष्ट्युपयोगिनी जगदुपादानभूता कु ण्डलिनीरूपेण प्राणिनां मूलाधारे
वर्तते। कु ण्डलिन्याः प्राणवायुसंयोगे परा व्यज्यते" इति वाक्यपदीये।

5
पश्यन्ती: परोद्भूतशब्दानां विषयविशेषाश्रयं पश्यन्तीति। परोद्भूतश्ब्दान्यत्र वक्ताचेतसु विवक्षया प्रतिभातं क्रियाशीलञ्च। अस्य क्रियाक्षेत्रं
मणिपुरचक्रमस्ति।
मध्यमा: शुद्धचैतन्यस्य ऐक्यमत्र वाच्यवाचकभेदेन प्रतिष्ठितम्‌। अनाहतचक्रे अस्य विकाशमुपदिष्टम्‌।
वैखरी: वाचकः विवक्षया यदा अव्यक्तवाचः सम्यक्तया उच्चारणोपयोगिभिः श्रुतिगम्यैः ध्वनिभिः व्यक्तं करोति तद्वैखरीति नाम्ना प्रसिद्धा।
कण्ठक्रियायै वैखरी विशुद्धचक्रोद्भूतेति मन्यते।
        वाक्यपदीये परया विना अवशिष्टानां पश्यन्त्यादीनां वचोवृत्तीनां व्याकरणमूलत्वम्‌एतद्विपरीतक्रमञ्च उपदिष्टं यथा,
वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भूतम्‌।
अनेकतीर्थभेदायास्त्रय्या वाचं परं पदम्‌॥ इति।
अधुना विचार्य्यमपि वर्तते यदि वचोवृत्तीनाम्‌उद्भवार्थं मूलाधारादीनां क्रियाः संलग्नाः सन्ति, तानि चक्रान्याश्रित्य मानवचेतसुजाग्रदादिभेदानामपि
प्रत्यक्षं क्रियाक्षमत्वमपि प्रसिद्धं भवति। तदत्र
सारण्या प्रकाशितम्‌

टबिल

6
 श्रुतौ वाक् ‌
वेदानां श्रुतित्वं तेषां श्रवणगोचरत्वात्‌। प्रत्यक्षोत्तरंदृष्टतत्त्वानि ऋषिभिरुक्तानि आसन्‌। अर्थात्‌दृष्टतत्त्वानि वाचमाश्रित्य हि वेदैः
तत्प्रतिपादितमन्त्रैः प्रकाशितानि। अतः एतस्माद्वक्तुं शक्नुमः यदि "वेदोऽखिलधर्ममूलम्‌" वागेव वेदस्य मूलमस्ति, यथा पूर्वेऽस्माभिः प्रतिष्ठितम्‌।
अधुना तानि मन्त्राण्याधृत्य पाठके षु चित्तेषु मन्त्रप्रतिपादितार्थानां तत्त्वानां स्फु रणं पृथग्विषयमस्ति। तस्य विवेचनात्पूर्वं वेदे प्रत्यक्षतया उपदिष्टं
वाक्तत्त्वं विचार्य्यम्‌।

वाक्सूक्तम्‌:
        वैदिकमन्त्राणां दृष्टॄणां ताभिः दृष्टमन्त्रैः सह अङ्गाङ्गीभावमेकं वर्तते। दृष्टतत्त्वेन सह स्वात्मचैतन्यस्य तात्कालिकमैक्यं व्यतिरिक्ते चित्ते
तत्त्वस्फु रणं न भवति। पुनश्च पाश्चात्यमनोविज्ञानतः प्राप्नुमः मनुष्यचित्तेषु चिन्तित्विषयानां सम्यक्स्फु रणात्‌तद्विषयविज्ञानं प्रजायते। तस्मात्‌
तच्चिन्तितविषयानां बोधप्रावल्यं याथार्थ्यञ्च चिन्तकस्य चित्तस्य व्यापारः भवति। अथ वाक् ‌इति नामधेयया कन्यया उपलब्धतत्त्वानि वाक्सूक्तम्‌
अथवा अम्भृणर्षेः चित्ते प्रतिभातं व्याकृ तवाक्तत्त्वमात्रं वाक्सूक्तम्‌इत्यपि विचार्य्यम्‌।
        कन्या वा तत्त्वं वा वाक्सूक्तोक्तमन्त्रेषु प्रतिष्ठितानि तत्त्वानि प्रत्यक्षतया यस्य वर्णनं कु र्वन्ति तेन सह अस्माकम्‌उच्चारितशब्दाश्रितस्य
वाक्तत्त्वस्य ऐक्यं वर्तते। सुक्तोक्तमन्त्रेषु विविधैः श्रेष्ठविषयैः सह आत्मतत्त्वस्य अभेदत्वं तेषां क्रियाभिरुपदिष्टम्‌। लक्षणीयम्‌"अहमेव रुद्रादयः"
इत्यस्य स्थाने “अहं रुद्रेभिः चरामि" इत्युक्तम्‌। सामन्यतः प्रकाशद्वैविध्यतः भेदं नोपलक्ष्यते। तर्हि अत्र श्रीमद्भगवद्गीतायां विभूतियोगे
आत्मतत्त्ववर्ननस्य विवेचनं कु र्मः, यथा, "रुद्राणां शङ्करश्चास्मि…. वसूनां पावकश्चास्मि" इत्यादि। वाक्सूक्ते एतद्विषये प्राप्नुमः “अहं रुद्रेभिः
वसुभिश्चरामि" इति। अर्थात्‌प्रत्यक्षतया "अहमेव रुद्राः” इत्यस्य घोषव्यतिरेके "अहं तदेव यद्रुद्रैः चरितम्‌" इत्येतादृशं विषयमत्रोपस्थापितम्‌।
किं व तत्तत्त्वम्‌? तदेव वागित्यर्थः। रुद्रादिभिः सयत्नेन धृतञ्च तेषां सर्वेषां क्रियासामर्थ्यं वाक्तत्त्वम्‌। यद्यपि के षुचित्‌स्थानेषु "अहमिन्द्राग्नी"
इत्याद्यपि प्रप्तम्‌क्रियात्मकै क्यस्य मुख्यत्वं तथापि वर्तते, यथा,
अहं दधामि द्रविणं हविष्मते
सुप्राव्ये यजमानाय सुन्वते
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति
अहं रुद्राय धनुरातनोमि इत्यादि।
उपसंहारे "तावती महिना सम्बभूव" इत्यनेन वाक्यांशेन श्रीश्रीदेवीमाहात्म्यस्य श्रीमद्भगवद्गीतायाश्च ब्राह्मीवरवाक्यवदर्थं लभ्यते, यथा,
"तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम्‌॥”, ”धर्मसंस्थापनार्थाय सम्भवामि युगे युगे" इति। उल्लिखितानां त्रयाणां वाक्यांशानां विवक्षायारभेदत्वं
दृष्ट्या वाक्सूक्तस्य ब्राह्म्यैक्यबोधमेव प्रतिष्ठितम्‌। दार्शनिकदृष्ट्या वाक्तत्त्वस्य प्रणववदव्यक्तस्य ब्रह्मणः व्यक्तत्त्वं व्याकरणदर्शनस्य उपजीव्यमस्ति
न तु श्रुतेः। किन्तु वाक्यांशनिर्माणदृष्ट्या वाक्सूक्तोक्तमन्त्रैः वाक्तत्त्वस्य उपजीवत्वं तेन सह ब्राह्म्यैक्यबोधञ्च प्रसिद्धमिति।

अन्यत्रम्‌:
वाक्सूक्तादतिरिक्तं ऋग्वेदे स्थाने स्थाने वाक्तत्त्वमालोचितं यथा

7
१. गौरिमिमाय सलिलानि
        सरलार्थ:
        विश्लेषणम्‌:
२. चत्वारि वाक् ‌
        सरलार्थः: वाचः चतुस्स्थानानि सन्ति। विज्ञब्राह्मणैरिदं ज्ञातम्‌। तेषु त्रीणी गुप्तानि सन्ति त्वेकं तुरीयं यन्मनुष्यैरुक्तम्‌।
        विश्लेषणम्‌: मन्त्रेऽस्मिन्‌ऋषिदृष्टस्य वाचः विविधवृत्तयः वर्णितानि सन्ति। मन्त्रोक्तचत्वारिपदानि परादि चतुर्वृत्तयः सन्ति। यानि “त्रीणी
गुहा निहिता" तानि परा, पश्यन्ती, मध्यमा च तुरीयवाक् ‌वैखरीत्यर्थः। अत्र "तुरीय" पदेन चतुर्थः इति बोध्यं चेतसः तुरीयावस्था तु न।
लक्षणीयमत्र एतन्मन्त्रादनन्तरम्‌"इन्द्रं मित्रम्‌" आदि मन्त्रे हि "एकं सद्विप्रा बहुधा वदन्ति" इति प्राप्नुमः। अर्थात्‌यदा वाचः चतुर्वृत्त्युपदेशानन्तरं
प्रपञ्चस्य इन्द्रादिषु श्रेष्ठेष्वैक्यमुपदिष्टं तत्र "गुहां प्रविष्टं परमं पुराणम्‌" इति कठोपनिषदि प्राप्तस्य ब्रह्मविद्यात्मकस्य वाक्याम्शस्य प्रकाशप्रकारभेदं
प्राप्नुमः। अतः एतस्माद्वक्तुं शक्नुमः मन्त्रैके ऽस्मिन्‌वाक्सूक्तोप्दिष्टानां विषयानां हि प्रतिष्ठा भवतीति।

        कर्मकाण्डे:
        वेदाङ्गेषु प्रसिद्धमस्ति शिक्षा यत्र वेदोक्तानां मन्त्राणां सम्यगुच्चारणविधयः सन्निविष्टानि सन्ति। वेदस्य अर्थरक्षार्थं यथा व्याकरणञ्च
निरुक्तमिति विशिष्टे तथा हि स्वरूपरक्षार्थं छन्दश्च शिक्षा विशिष्टे। अर्थात्‌ऋषिभिर्दृष्टानां विषयानां सम्यगध्ययनमेव अपर्याप्तं तु पाठ्यमेव
विशेषतः। तर्हि सकलेषु यज्ञेषु मन्त्राणां तेषां विनियोगादीनाञ्च यथार्थस्य उच्चारणस्य प्राधान्यं वर्तते। एतदर्थं वैदिकमन्त्राणां पाठेषु उदात्तादि
चतुर्विधस्वरप्रयोगं प्रचलितम्‌, यथा, उदात्तः, अनुदात्तः, स्वरितः प्रचयश्च। महर्षिपाणिनिकृ ते अष्टाध्याय्याम्‌एतद्विषये विविधसूत्राणि प्राप्नुमः,
यथा,
१. उदात्तः:
        सूत्राणि: उच्चैरुदात्तः॥ (पा.अ. १.२.२९)
                   लुङ्लङ्लृङ्क्ष्वडु दात्तः॥ (पा.अ. ६.४.७१)
                   आद्युदात्तश्च॥ (पा.अ. ३.१.३)
                   वाक्यस्य टे प्लुत उदात्तः॥(पा.अ. ८.२.८२)
        मन्त्रेषु स्वराणामुदात्तसंज्ञा भवति न तु व्यञ्जनानाम्‌। येषां स्वराणामुच्चारणेषु उच्चरुपलभ्यन्ते तेषामुदात्तसंज्ञा भवति। यथा
"उच्चैरुपलभ्यमानो योऽच्‌स उदात्तसंज्ञो भवति।... यः समानस्थाने उर्ध्वभागनिष्पन्नः अच्‌स उदात्तसंज्ञो भवति" इति काशिकायाम्‌।

२. अनुदात्त:
        सूत्राणि: नीचैरनुदात्तः॥ (पा.अ. १.२.३०)
                    अनुदात्तङित आत्मनेपदम्‌॥ (पा.अ. १.३.१२)
                    अनुदात्तादेरञ्‌॥ (पा.अ. ४.२.४४)
                    अनुदात्तौ सुप्पितौ॥ (पा.अ. ३.१.४)

8
        उदात्तवद्यथा अजादिषु नीचः निष्पन्नः तथा अजादीनामनुदात्तसंज्ञा भवति। यथा, "नीचैरुपलभ्यमानो योऽच्‌सोऽनुदात्तसंज्ञो भवति।
समाने स्थाने नीचभागे निष्पन्नोऽनुदात्तः" इति काशिकायाम्‌।

३. स्वरितः:
        सूत्राणि: समाहारः स्वरितः॥ (पा.अ. १.२.३१)
                    स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ (पा.अ. १.३.७२)
                    तित्स्वरितम्‌॥ (पा.अ. ६.१.१८५)
        उदात्तानुदात्तयोः संयोगनिष्पन्नः अजादिषु प्रयुक्तः स्वरितः। यथा, "उदात्तानुदात्तसमाहारो योऽच्‌स स्वरितसंज्ञो भवति" इति
काशिकायाम्‌।

४. प्रचयः: ….

यज्ञप्रधाने वैदिककर्मकाण्डे याज्यया पुरोऽनुवाक्यया च यजनविधानं लभ्यते। तत्र ऋचापाठमुख्यं शस्त्रं, साममन्त्रमुख्यं स्तोत्रं
यजुर्मन्त्रप्रधानं ग्रहयागञ्च सन्ति। तेषु पुनः स्तोत्रशस्त्रप्रयोगे अभ्रान्तस्वरप्रयोगपूर्वकं मन्त्रपाठस्य गरिमास्ति, यथा ग्रहयागे उपांशु मन्त्रपाठं
विधीयते। एतावद्यदास्माभिः वैदिकमन्त्राणाम्‌उच्चारणवैशिष्ट्यानि विधयश्च सामान्यतया विनिर्णीतं स्पष्टतो हि कर्मकाण्डप्रधाने वैदिकमार्गे
वाक्तत्त्वस्य मुख्यत्वं विशेषतः स्वीकृ तमस्ति। अधिकतः वैदिकमन्त्राणां पाठक्रमस्य विविधभेदानि वर्तन्ते यत्र मन्त्रोक्तपदानां स्वतन्त्रविधिभिः पुनः
पुनः पाठात्‌पाठकचेतसु मन्त्रोपदिष्टविषयानां बोधप्रयासं कृ तम्‌। सामान्यतया पाठभेदाः यथा प्रकृ तिश्च विकृ तिश्च। प्रकृ तिपाठेषु संहितापाठः,
पदपाठः, क्रमपाठः प्रसिद्धानि। विकृ तिपाठेषु विलोमपाठः, जटापाठः, घनपाठः विशिष्टानि सन्ति। एतस्मात्‌वैदिककर्मकाण्डे वाचः महत्त्वं पुनः
प्रतिष्ठितमस्ति। वैदिकमन्त्रोक्तविषयानां सम्यगुपलब्ध्यर्थं तेषां सविधिपाठमेव प्रयोजनीयमित्यर्थः। तर्हि तत्र प्रकृ तिविकृ तिभेदैः विविधविधिभिः
पाठमुपदिष्टमिति।

9
आगमेषु वाक् ‌

आगतः शिववक्त्रेभ्यः गतश्च गिरिजामुखे।


मतश्च वासुदेवस्य तस्मादागम उच्यते॥
इत्यागमसंज्ञा। वेदोत्तरकाले वैदिककर्मकाण्डमाधृत्य स्वतन्त्राआगमपरम्पराजायत। ब्राह्म्यादि-सप्तमातृकावेष्टितं भैरवचक्रमाधृत्य शैवः, शाक्तः,
पाञ्चरात्ररित्यादि विविधागमपरम्पराः प्रकाशितारभवन्‌। कालक्रमे सर्वजनगम्यं वैदिककर्मकाण्डमाधृत्य दक्षिणाचारः रहस्यकाण्डमाधृत्य वाममार्गश्च
प्रचलितौ। यद्यपि मन्थानभैरवतन्त्रं, बृहद्वाडवानलतन्त्रमित्यादिषु सम्पूर्णागमस्य मूलानि दार्शनिकतत्त्वानि, तेषां विवेचनानि च सन्निविष्टानि सन्ति,
क्रान्ताभेदतः त्रिक्रान्तासु चतुःषष्टितन्त्रशास्त्रानि प्रवर्तितानि सन्ति। यथा पाणिनीयं व्याकरणशास्त्रं चतुर्दशमाहेश्वरसूत्रेभ्यः प्रवर्तितं तथा
ह्यागमपरम्परा पञ्चाशद्वर्णमालयाः प्रवर्तितेति वक्तुं शक्नुमः, यतः सर्वेष्वागमशास्त्रेषु सृष्टिप्रकरणं पञ्चाशद्वर्णमालामाधृत्य वर्णितम्‌। यद्यपि वेदवत्तन्त्रे
उच्चारितपाठस्य मुख्यत्वं नोपलभ्यते प्रायः सकलेष्वागमेषु पञ्चाशद्वर्णमालायाः प्राधान्यं दृष्टम्‌। अधुना पद्मपादाचार्यकृ तात्‌शारदातिलकतन्त्रस्य
टीकायाः काश्मीरप्रत्यभिज्ञान्तर्गतात्‌परात्रिंशिकाविवरणाच्च तन्त्रे
वाक्तत्त्वविमर्शः विश्लेषणं कु र्मः।

शारदातिलकतन्त्रम्‌:
        प्रधानतः विविधदेवानां मान्त्रीपरम्परा क्रमश्च शारदातिलकात्प्राप्नुमः। किन्त्वस्य शास्त्रस्योपक्रमे विन्दुनादकलातत्त्वात्‌प्रपञ्चसृष्टिप्रक्रिया
यत्र विस्तारतया वर्णितं तत्र स्पष्टतया वाक्तत्त्वविमर्शः प्राप्नुमः। यथा, सृष्टेरादौ वर्णविशेषराहित्यात्‌अखण्डनादः प्रकाशितं भूत्वा
चैतन्यके न्द्रितावस्थायां ब्रह्मादीनां संहृत्य अवस्थितरासीत्‌। यद्यपि वर्णाभिव्यक्तस्फोटः व्यापकशब्दो वा शब्दब्रह्मणा वर्णितौ, पद्मपादाचार्यकृ तात्‌
टीकायाः प्राप्नुमः जडत्वं ब्रह्मणः अभिव्यक्तिः कदापि न भवति। वर्णाभिव्यक्तस्फोटः व्यापकशब्दश्चात्र जडवदिति विनिर्णीतः। तर्हि नादरूपः
वर्नविशेषादिरहितः यच्छब्दः तदेव शब्दब्रह्मपदवाच्यरित्यर्थः। वैयाकरणसिद्धान्तस्य शब्दब्रह्मणा सह तस्यैक्यं शास्त्रमूले ह्युधॄतं यथा,
शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदाः।
शब्दब्रह्मेति शब्दार्थं शब्दनित्यपरे जगुः॥
न हि तेषां तयोः सिद्धिः जडत्वादुभयोरपि।
चैतन्यं सर्वभूतानां शब्दब्रह्मेति मेऽमतिः॥
        पूर्वतः भर्तृहरिदृष्ट्या वाक्यपदीये परादीनां वचोवृत्तीनामुद्भवे मूलाधारादिचक्राणां क्रियास्माभिः दृष्टा अत्र शारदातिलके वयं प्राप्नुमः,
तत्प्राप्य कु ण्डलीरूपं प्राणिनां देहमध्यगम्‌।
वर्णात्मनाऽऽविर्भवति गद्यपद्यादिभेदतः॥
मूलाधारचक्रस्य क्रियाक्षमत्वं यच्छक्त्या परिणतव्यक्तब्रह्मणः बोधं जीवचैतन्ये उत्पादयति तदेव कु ण्डलीति नाम्ना प्रसिद्धा। अर्थात्‌तत्कु ण्डलीभूतं
सामर्थ्यं चैतन्यमयञ्च तदेव प्राणादिभिः प्रेरितं भूत्वा मणिपुरादिषु संलग्नक्रियाः सम्पाद्य गद्यपद्यमयी भूत्वा वैखर्य्या प्रकाशितं भवति। एतदनन्तरं
मूले विन्दुनादबीजेभ्यः रौद्र्यादिशक्तीनाम्‌आविर्भावशृङ्खला वर्णिता। अत्र तेषाम्‌अवतारणयालम्‌। क्रमशः प्रणवादीनां बीजानाञ्च आविर्भावानन्तरमत्र
तच्छक्ते र्निर्वचनं प्राप्नुमः यस्योल्लेखं वाक्यपदीये "कालशक्तिः" इत्यनेन व्याख्यातं, यथा,
10
सा प्रसूते कु ण्डलिनी शब्दब्रह्ममयी विभुः।
शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका॥
ततोऽर्धेन्दुस्ततो विन्दुस्तस्मादासीत्परा ततः।
पश्यन्ती मध्यमा वाचि वैखरी शब्दजन्मभूः॥
परमसामर्थस्य (मूलकारणस्य इत्यर्थः) उन्मुखीकरणावस्था हि शक्तेः संज्ञा भवति। सत्त्वगुनप्रधाना चिच्छक्तिः रजोगुणेनानुबिद्धं भूत्वा
ध्वन्याश्रितेन वाचा प्रकाशितं भवति। एतद्ध्वनिः अक्षरः। पुनश्च तच्छक्तिरेव तमोगुणेनानुबिद्धं भूत्वा निरोधिका शब्दवाच्या भवति। पुनरेव आत्मना
सत्त्वगुणेनैवानुबिद्धं भूत्वा अर्धेन्दुवाच्या च तयोर्सम्योगात्‌विन्दुवाच्या भवति। विन्दुरिदं मूलाधारादिषु परादिवचोवृत्तिनामभिः क्रियाशीलं भवति,
वैखर्य्या उच्चारितं भवति च। तत्त्वमिदमेव कर्मकाण्डे मातृकान्यासेन षोढान्यासेन च प्रतिपादितमिति॥

परात्रिंशिकाविवरणम्‌:
"परात्रिंशिका" इत्येतस्य श्रीमदभिनवगुप्तपादकृ तटीका "परात्रिंशिकाविवरणम्‌" इति नाम्ना प्रसिद्धा। ग्रन्थारम्भेऽस्मिन्‌प्रचलितपरम्परावत्‌भैरवं
प्रति देवीकृ तस्य अनुत्तराम्नायविषयप्रश्नस्य व्याख्यायां टीकाकारः वचोवृत्तिविवेचनेन वाक्तत्त्वं प्रतिपादितवान्‌। तत्रोपस्थापितानि मूलविषयानि
यथा,
१. पञ्चकृ त्यपरायणः परमेश्वरः पराशक्त्या सह नित्यसंयुक्तः।
२. सा पराशक्तिः परेति वाचा अभिव्यक्ता।
३. सा निर्विकल्पतः अभिन्ना।
४. ज्ञानस्य निर्विकल्पतः अपरिच्छिन्नावस्थायाः आदिभेदः यत्र जायते तत्पश्यन्ती।
५. विवक्षितानां विषयानां लिङ्गालिङ्गीभावरत्र प्रजायते।
६. विवक्षितानां विषयानां अन्तःकरणे जातः वाच्यवाचकभेदमात्रः मध्यमेति।
७. वैखर्य्यां मध्यमा परिणीता भवति।
८. तत्पराशक्त्यै पश्यन्त्यादीषु चैतन्यः संस्थितः। तया विना
उच्चारितशब्दानि जडतां यातानि।
एतदनन्तरं "देवी" इत्यस्य पदस्य निर्वचनमारभति। तन्त्रालोके यदा वयं भैरवार्थतः मानवचैतन्यस स्वतन्त्रितस्फु रणमेव निर्दिष्टम्‌
अधुना यमाधृत्य परादि शक्तयः क्रियाशीलाः तेन सह तद्भैरवस्यैक्यं स्पष्टम्‌काश्मीरप्रत्यभिज्ञापरम्परायां सम्पुर्णसय तान्त्रिकक्रमस्य
दार्शनिकमूलमुपदिष्टम्‌। शैवसूत्रैः सह परात्रिंशिकाविवरणम्‌प्रत्यभिज्ञापरम्परायाः मूलमस्ति तत्रादौ शक्तितत्त्वनिर्वचने अनुत्तराम्नायसंज्ञायाञ्च यदा
श्रीमदभिनवगुप्तपादेन विस्तारतया वचोवृत्तयः व्याख्याताः स्वतः आगमपरम्परायाः वाङ्मूलकत्वं प्रतिष्ठितं
भवतीति॥

11
मौनवाक् ‌दक्षिणामूर्तिः

महर्षिभ्यः महेश्वरस्य दक्षिणामूर्तिस्वरूपेण अनुग्रहगाथा प्रसिद्धमस्ति।

12

You might also like