Professional Documents
Culture Documents
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
Document Information
Location : doc_devii
This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.
Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.
sanskritdocuments.org
Shri Kamakalakali Sahasranamastotram
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
देव्युवाच ।
त्वत्तः श्रुतं मया नाथ देव देव जगत्पते ।
देव्याः कामकलाकाल्या विधानं सिद्धिदायकम्॥ १॥
त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया ।
तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २॥
इदानीं जायते नाथ शुश्रुषा मम भूयसी ।
नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३॥
श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि ।
श्रीमहाकाल उवाच ।
भाग्यवत्यसि धन्यासि सन्देहो नात्र भाविनि ॥ ४॥
सहस्रनामश्रवणे यस्मात्ते निश्चितं मनः ।
तस्या नाम्नान्तु लक्षाणि विद्यन्ते चाथ कोटयः ॥ ५॥
तान्यल्पायुर्मतित्वेन नृभिर्द्धारयितुं सदा ।
अशक्यानि वरारोहे पठितुं च दिने दिने ॥ ६॥
तेभ्यो नामसहस्राणि साराण्युद्धृत्य शम्भुना ।
अमृतानीव दुग्धाव्धेर्भूदेवेभ्यः समर्पितम्॥ ७॥
कानिचित्तत्र गौणानि गदितानि शुचिस्मिते ।
रूढाण्याकारहीनत्वाद् गौणानि गुणयोगतः ॥ ८॥
राहित्याद्रूढिगुणयोस्तानि साङ्केतकान्यपि ।
त्रिविधान्यपि नामानि पठितानि दिने दिने ॥ ९॥
1
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
राधयन्नीक्षितानर्थान्ददत्यमृतमत्ययम्।
क्षपयत्यपमृत्युं च मारयन्ति द्विपोऽखिलान्॥ १०॥
घ्नन्ति रोगानथोत्पातान्मङ्गलं कुर्वतेन्वहम्।
किमुतान्यत्सदा सन्निधापयत्यऽर्थिकामपि ॥ ११॥
त्रिपुरघ्नोऽप्यदोनामसहस्रं पठति प्रिये ।
तदाज्ञयाप्यहमपि कीर्तयामि दिनेदिने । १२॥
भवत्यपीदमस्मत्तः शिक्षित्वा तु पठिष्यति ।
भविष्यति च निर्णीतं चतुर्वर्गस्य भाजनम्॥ १३॥
मनोन्यतो निराकृत्य सावधाना निशामय ।
नाम्नां कामकलाकाल्याः सहस्रं मुक्तिदायकम्॥ १४॥
ॐ अस्य कामकलाकालीसहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्नऋषिः ।
अनुष्टुप्छन्दः । त्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली देवता ।
क्लीं बीजम्। स्फ्रों शक्तिः । हुं कीलकं । क्ष्रौं तत्त्वं ।
श्रीकामकलाकालीसहस्रनामस्तोत्रपाठे जपे विनियोगः । ॐ तत्सत्॥
ॐ क्लीं कामकलाकाली कालरात्रिः कपालिनी ।
कात्यायनी च कल्याणी कालाकारा करालिनी ॥ १५॥
उग्रमूर्तिर्महाभीमा घोररावा भयङ्करा ।
भूतिदामयहन्त्री च भवबन्धविमोचनी ॥ १६॥
भव्या भवानी भोगाढ्या भुजङ्गपतिभूषणा ।
महामाया जगद्धात्री पावनी परमेश्वरी ॥ १७॥
योगमाता योगगम्या योगिनी योगिपूजिता ।
गौरी दुर्गा कालिका च महाकल्पान्तनर्तकी ॥ १८॥
अव्यया जगदादिश्च विधात्री कालमर्द्दिनी ।
नित्या वरेण्या विमला देवाराध्यामितप्रभा ॥ १९॥
भारुण्डा कोटरी शुद्धा चञ्चला चारुहासिनी ।
अग्राह्यातीन्द्रियागोत्रा चर्चरोर्द्ध्वशिरोरुहा ॥ २०॥
कामुकी कमनीया च श्रीकण्ठमहिषी शिवा ।
मनोहरा माननीया मतिदा मणिभूषणा ॥ २१॥
2 sanskritdocuments.org
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
kAmakalAkAlIsahasranAmastotra.pdf 3
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
सहस्रवायुवेगा च सहस्रफणकुण्डला ।
सहस्रयत्रमथिनी सहस्रोदधिसुस्थिरा ॥ ३६॥
सहस्रबुद्धकरुणा महाभागा तपस्विनी ।
त्रैलोक्यमोहिनी सर्वभूतदेववशङ्करी ॥ ३७॥
सुस्निग्धहृदया घण्टाकर्णा च व्योमचारिणी ।
शङ्खिनी चित्रिणीशानी कालसंकर्पिणी जया ॥ ३८॥
अपराजिता च विजया कमला कमलाप्रदा ।
जनयित्री जगद्योनिर्हेतुरूपा चिदात्मिका ॥ ३९॥
अप्रमेया दुराधर्षा ध्येया स्वच्छन्दचारिणी ।
शातोदरी शाम्भविनी पूज्या मानोन्नताऽमला ॥ ४०॥
ओंकाररूपिणी ताम्रा बालार्कसमतारका ।
चलज्जिह्वा च भीमाक्षी महाभैरवनादिनी ॥ ४१॥
सात्विकी राजसी चैव तामसी घर्घराऽचला ।
माहेश्वरी तथा ब्राह्मी कौमारी मानिनीश्वरा ॥ ४२॥
सौपर्णी वायवी चैन्द्री सावित्री नैरृती कला ।
वारुणी शिवदूती च सौरी सौम्या प्रभावती ॥ ४३॥
वाराही नारसिंही च वैष्णवी ललिता स्वरा ।
मैत्र्यार्यम्नी च पौष्णी च त्वाष्ट्रीवासव्युमारतिः ॥ ४४॥
राक्षसी पावनी रौद्री दास्री रोदस्युदुम्बरी ।
सुभगा दुर्भगा दीना चञ्चुरीका यशस्विनी ॥ ४५॥
महानन्दा भगानन्दा पिछिला भगमालिनी ।
अरुणा रेवती रक्ता शकुनी श्येनतुण्डिका ॥ ४६॥
सुरभी नन्दिनी भद्रा वला चातिवलामला ।
उलुपी लम्बिका खेटा लेलिहानान्त्रमालिनी ॥ ४७॥
वैनायिकी च वेताली त्रिजटा भृकुटी मती ।
कुमारी युवती प्रौढा विदग्धा घस्मरा तथा ॥ ४८॥
जरती रोचना भीमा दोलमाला पिचिण्डिला ।
4 sanskritdocuments.org
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
kAmakalAkAlIsahasranAmastotra.pdf 5
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
6 sanskritdocuments.org
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
kAmakalAkAlIsahasranAmastotra.pdf 7
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
8 sanskritdocuments.org
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
kAmakalAkAlIsahasranAmastotra.pdf 9
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
10 sanskritdocuments.org
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
kAmakalAkAlIsahasranAmastotra.pdf 11
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
12 sanskritdocuments.org
श्रीकामकलाकालीसहस्रनामस्तोत्रम्
kAmakalAkAlIsahasranAmastotra.pdf 13