You are on page 1of 10

shrI rudrANI stotram

श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

Document Information

Text title : rudrANIstotram

File name : rudrANIstotram.itx

Category : devii, ShaTchakrashakti, devI, yoginI

Location : doc_devii

Transliterated by : Muktabodha.org

Proofread by : Muktabodha.org, PSA Easwaran

Description-comments : Rudrayamalatantra paTala 46

Acknowledge-Permission: Muktabodha.org

Latest update : January 7, 2017

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

November 22, 2022

sanskritdocuments.org
shrI rudrANI stotram

श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

आनन्दभैरवी उवाच
श‍ृणु भैरव वक्ष्यामि रुद्राणीस्तोत्रमुत्तमम्।
श्रुत्त्वा पठित्त्वा देवेश धारयित्त्वा स्वदेहके ॥ १॥
महासिद्धो भवेदेव महाकालवशो भवेत्।
त्रैलोक्यरक्षणार्थाय ब्रह्मणा विष्णुना तथा ॥ २॥
रुद्रयुक्तां महारौद्रीं स्तुत्त्वा सर्वजयो भवेत्।
तच्छ्रुत्त्वा मुनयः सर्वे योगिनो योगदर्शकाः ॥ ३॥
सर्वे देवाः सर्वलोकाधिपाः स्युः प्राणरक्षकाः ।
एतत्स्तवनमात्रेण ब्रह्मा ब्रह्मत्वमाप्नुयात्॥ ४॥
विष्णुर्विष्णुत्वमाप्नोति देवत्वं सर्वदेवताः ।
इदानीं श‍ृणु तत्स्तोत्रमष्टाङ्गयोगसाधनम्॥ ५॥
एतत्स्तवनपाठेन चाष्टाङ्गकुलदेवताः ।
वशीभूताः प्रभवन्ति सप्तस्वर्गस्थदेवताः ॥ ६॥
अस्य महारुद्रशक्तिस्तोत्रस्य महाकालभैरवऋषिरनुष्टुप्छन्दः ।
श्रीमछ्रीरूपिणी देवता । वां बीजं द्रां शक्तिः समौं स्फें कीलकम्।
महोग्रादि देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
महारौद्री रुद्रारुणारवरवक्रोधनिकरा
विकारा धर्माणां हरतु विषयं देहि परमम्।
विवेकं सत्पुत्रं त्वमपि जगतामादिपुरुषं
विभाकोटिग्रामस्खलननिचला लोचनचला ॥ ७॥
त्वमेका त्रैलोक्यं व्यवसि सततं मे शुभभवा
अनन्ता सा चातीन्द्रियगणकला नागवसना ।
श्रियं दातुं नित्यं समुदयति रश्मिस्तव शिवे

1
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

शिवाह्लादानन्दा जडितमनमन्दा कुरु मुदा ॥ ८॥


महालोभं पापं हर हर हरे हीरकनिभे
विषानन्दोद्घाता मम तनु विषं वेशवशिनि ।
सुधानन्दं देहि क्षयमपि हर क्रोधमतुलं
मदं कामं मोहं कुलजननि दिव्यं वितर तत्॥ ९॥
तपस्यासद्भावं त्वमपि च ददासीह यदि वा
प्रदीप्ता सद्व्याप्ता भवति तव दाने मम मनः ।
प्रफुल्लातिश्रीदे जय मम न भक्तिं निजशुभां
समीडे त्वामेकां भुवनजनरक्षां कुरु सदा ॥ १०॥
विचार्य स्वे तन्त्रे रचयसि सुखं नित्यमिलितं
महाखड्गप्रख्या त्रिभुवनकरा रुद्रदयिता ।
सुराणां संरक्षां यदि कुरु मुदा पीठनिकरे
मणिद्वीपे तेजोमयि हि मणिपूरेऽमलपदम्॥ ११॥
महाक्षेत्रे युद्धोत्सवभयहरा त्वं कुलकला
किराती सर्वाणी मम कुलगतं पालय लये ।
लयज्ञानानन्दं रचय हृदये योगजननि
यतीनां रक्षायै कुलयुवति विद्ये उदयति ॥ १२॥
प्रतिष्ठा कीर्तिस्ते त्वमवतरसि त्रासि तिमिरा-
न्न जाने त्वत्तत्त्वं तरुणि महिमानं सुखमयम्।
महापारावारांनिधिभवजलेशं कुरु जयं
हिरण्याह्लादस्था त्वमपि करुणासागरमयी ॥ १३॥
विधातारं विष्णुं सुरवरणवन्दीन्परजनान्
प्रपासि त्वं सिद्धा सुखभुवनभङ्गक्षयकरा ।
किरन्ती सानन्दा किरणशतकोटिं त्रिभुवने
त्वमेका कल्याणि गिरिशरमणिं पाहि सततम्॥ १४॥
त्वदीयं सुखान्तं समीच्छामि सत्यं
विसर्गेन्दुवर्णात्मकं कामनाऽऽख्यम्।
कृपादृष्टिपाता मनः पाहि शुद्धा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १५॥

2 sanskritdocuments.org
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

जगत्तारिणी त्वं जगद्व्यापिनी त्वं


जगज्ज्वालरूपा जगद्धर्मरूपा ।
अनैकान्तिकत्त्वात्त्वमानन्दरूपा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १६॥
विधानं जनानां कुरु त्वं त्वमीशा
क्षपाक्षामचित्ता प्रियानन्ददात्री ।
त्वमाज्ञाम्बुजस्था त्वमार्या गुरूणां
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १७॥
प्रभामण्डलस्था स्थितित्यागसंस्था
स्थलाम्भोजमाला त्वमालग्नकण्ठा ।
शिवश्यामवर्णा महापिङ्गलार्णा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १८॥
चतुर्थश्रुतिस्था चलच्चन्द्रसंस्था
महावेदभाषा त्वमेका जगत्याम्।
महाभक्तिभावाश्रितं मां प्रसिद्धे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १९॥
जगद्धामचेष्टे जगद्बुद्धिनिष्ठे
जगद्यौवनस्था जगद्भावसंस्था ।
समावर्त्तमध्ये महाघूर्णितं मां
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २०॥
महा सृष्टिसंहारकालक्रमस्था
महामांसभक्षा सदानन्दरूपा ।
महाशाक्यमौनीन्द्रपूज्ये सुरेज्ये
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २१॥
चतुःषष्टितन्त्रार्णवाह्लादकत्वा-
न्महाभौतिकत्वान्महासिद्धिविद्या ।
छलच्छिन्नदेहा छलानन्नसंज्ञा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २२॥
शिवत्वं महत्त्वं समत्वामलत्वा-
दनैकान्तिकत्वं ददासि त्वमाद्या ।

rudrANIstotram.pdf 3
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

सुधासागरस्था महामोहनस्था ।
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २३॥
महासिंहपृष्ठे पदाम्भोजलक्ष्मी-
र्मम श्रीशिरोमण्डलस्थं प्रपातु ।
भवानन्दसन्तानकल्पेऽव देहं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २४॥
स्थिरा सा महाविद्युदाकारहारा
महाचञ्चला चाचला ज्ञानजन्या ।
सदा भावनत्वात्सदा ज्ञापनस्था
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २५॥
कुलानन्दमोहा महाकौलकन्या
कुलक्षेत्ररक्षा कुलच्छत्रकारा ।
महाचञ्चलत्वान्महावायुघूर्णा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २६॥
चिरञ्जीविनी भामिनी भूमिबीजा
भयाभावहन्त्री शरत्कोटिचन्द्रा ।
विभूतिर्भयाहारकर्त्री प्रकृष्टा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २७॥
महावीरभावाश्रया भावरूपा
विशेषाविशेषे महाशैववीरा ।
विसर्गापवर्गाश्रयार्णोज्ज्वलत्त्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २८॥
महापञ्चमत्वान्महामोदकत्वात्
महाकौलिकात्वादसञ्चारणत्वात्।
कुलप्रेमभावक्रियानिश्चलत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २९॥
वसोः सिद्धिदात्री शिवानन्दकर्त्री
महामैथुनानन्दसम्भेदनत्वात्।
सुखाश्वासतत्त्वात्तपः प्राणरक्षा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३०॥

4 sanskritdocuments.org
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

गलत्प्रेमभावा कुलज्ञानतत्त्वात्
प्रिया श्रीकृपात्वं भवाधारमूर्तिः ।
महैश्वर्यहेतोर्महाराजकन्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३१॥
महामोक्षविद्या महानिर्मलत्वात्
प्रभापञ्चचूडस्य सिद्धिप्रिया च ।
महानादबिन्दुप्रयासाभिरामा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३२॥
महाविद्रुमाकारवर्णाभिरामा
कुलाह्लादसूत्रादिसंसाधनत्वात्।
महद्राज्यविद्याधना सङ्घटत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३३॥
तवाङ्घ्रिद्वयाम्भोजपूजासुखत्वा-
न्महाकालरूपा स्वयं सर्वविद्या ।
विकारादि सम्बन्धविशेषणत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३४॥
शिवत्वं शुभत्वं महाशैलकन्ये
प्रियत्वं परत्वं महापावनत्वम्।
समाधेहि तत्त्वादनैकान्तिकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३५॥
महाचेतनादेवनादोन नत्वाद-
सङ्ख्यामतीनां मनोयोगमुख्या ।
विरोधापहन्त्री रिपुप्राणहन्त्री
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३६॥
चतुर्विंशतिक्रोधतत्त्वानुकूले
वियत्खण्डचन्द्रोज्ज्वले कीलकस्थे ।
सदा मां प्रपातु प्रचण्डार्कवर्णा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३७॥
शुभं कामधेनुस्वरूपं स्वदेहं

rudrANIstotram.pdf 5
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

सदा दर्शने श्रद्धया चारुवर्णा ।


हिमांशुप्रभाकोटिवर्णेऽत्वपूर्णे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३८॥
महाकामबीजान्विता खण्डयन्ती
महादोषजालं शनैरावहन्ती ।
शिवा भद्रकाली स्थिरानन्दमाला
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३९॥
महाकालकूटाशिनं तीक्ष्णनेत्रं
सदा पाहि शम्भुं भयार्द्रातिवेलम्।
भवापालनत्वादसङ्ख्यानिवासा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४०॥
हरन्ती विषाढ्यं वहन्ती कलाद्यम्
रटन्ती नटन्ती विशाला भ्रमन्ती ।
श्रियः पालनी पालिका बालिकात्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४१॥
भवानन्दहेतोः सदा श्रद्धया वा
पदाम्भोजमध्ये मनोयोगकाले ।
परासङ्ख्यते कामसङ्क्षालनत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४२॥
क्षितिक्षोभनाशाय सिद्धादिविद्या
कुलाढ्याखिलाढ्यानना सूक्ष्ममध्या ।
प्रयत्नं करोषि क्षयानन्ददाना
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४३॥
महाधैर्यमाहृत्यजं जप्यते यै-
स्तवाद्याभिधानानि कालिप्रभाते ।
तदैवापि काले ददासीह सिद्धिं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४४॥
चिरं स्थापयन्ती चिरं भासयन्ती
त्वमाख्या गुरूणां कुलानन्दविद्ये ।
स्वधाकारतुष्टा कलावह्निजाया

6 sanskritdocuments.org
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४५॥


सुरानन्दकाले फलोद्भूतचिन्हा
चितामध्यदेशे महासिद्धिदात्री ।
त्रिभिन्ना विभिन्ना महारुद्रविद्ये
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४६॥
महापूर्वि कात्यायनि क्रोधमूले
विवेकादिकं धर्ममादौ ददासि ।
त्रयाणां सुराणां मुदा रक्षणाय
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४७॥
विशुद्धस्फुटत्त्वान्महाकौतुकत्वा-
त्तनुध्यानमोहादनन्ते कृतत्त्वात्।
कुलारक्षणात्मा महालक्षणात्मा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४८॥
दहन्ती रिपूणां कुलञ्चात्मदेशं
क्षणादेव सूक्ष्मासुसूक्ष्मा सती सा ।
ममानन्ददेशं सदा पालय श्री
त्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४९॥
चतुर्थाश्रमस्थाश्रमं पाहि रुद्रे
महोग्रप्रतापे महारौद्रि भद्रे ।
महापातकादिक्षयत्वामृतत्त्वा-
त्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५०॥
महावायुरम्ये महाज्ञानगम्ये
महामन्त्रजाप्यादिसिद्धिप्रसिद्धे ।
लयं देहि बाह्यानिलाघातनत्वा-
त्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५१॥
न जानामि किं वामरो वापि विष्णु-
र्महाकौलिको वा न जानाति पूजाम्।
कुलाद्यासनन्ते सुरेन्द्रादिपाठे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५२॥

rudrANIstotram.pdf 7
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

मदीयं प्रलोभ्यं महाभद्रकालि


प्रकाशेन कर्त्तुं समर्था भव त्वम्।
पदाब्जे च हन्तुं महापापसर्गे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५३॥
वहन्ती कपालं स्खलन्तीमपार्थं
महाहेममाला महाकाशयन्ती ।
शिवो मङ्गलं मे तु वैश्वानरीशे
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५४॥
प्रचण्डा प्रसन्ना भवक्षोभहेतो-
र्विवादादिघाताय शान्तिः प्रतुष्टिः ।
कियत्कालसंस्था प्रसन्नान्तरात्मा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५५॥
महावायुपाना क्रियामोक्षकाले
कुलज्ञानदाना दिवारूपिणी त्वम्।
प्रभुत्वं विधेहि क्षमे कामकर्त्री
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५६॥
यदि श्रीवराद्ये ममाख्या ससिद्धिं
विदेहीति चित्ते समाधाय भक्तः ।
समाप्नोति शीघ्रं सदा प्रार्थ्यते यैः
सदा पठ्यते वा मुदा वारमेकम्॥ ५७॥
महाकालशम्भो महाज्ञानसिद्धः
सदा कालवश्ये पठेदेकचित्तः ।
महाभक्तिभावं लभेद् वेद मुक्तिं
महादेवभक्तिं त्रिकालेन योगम्॥ ५८॥
मणेः पीठमध्ये महारुद्रकान्तां
महालाकिनीं कुण्डलीं भावयन्ती ।
महापुण्यलाभं स्तवं ब्रह्मसारं
महाकान्तलाभाय पुण्याय सिद्ध्यै ॥ ५९॥
महाकालि रुद्राणि भद्राणि कृष्णे
भवानन्दमूर्तिप्रकाशाय कुर्यात्।

8 sanskritdocuments.org
श्रीरुद्राणीस्तोत्रम्अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम्

किलानन्दमाकृत्य सम्पूज्यते यै-


र्महादेवि चण्डे तव ध्याननिष्ठा ॥ ६०॥
महामोक्षभावं समाप्नोति शीघ्रं
महाशुद्धता कामहा कालरूपी ॥ ६१॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे
षट्चक्रप्रकाशे मणिपूरभेदनक्रमे भैरवीभैरवसंवादे
रुद्रशक्तिलाकिनीस्तोत्रं नाम षट्चत्त्वारिंशः पटलः ॥ ४६॥

Muktabodha Library
Proofread by PSA Easwaran

shrI rudrANI stotram


pdf was typeset on November 22, 2022

Please send corrections to sanskrit@cheerful.com

rudrANIstotram.pdf 9

You might also like