Professional Documents
Culture Documents
॥ रुद्रकवचम्( स्कंदपुराण ) ॥
Document Information
This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.
August 2, 2016
sanskritdocuments.org
.. rudrakavacham ( ska.ndapurANa ) ..
॥ रुद्रकवचम्( स्कंदपुराण ) ॥
॥ अथ श्री रुद्रकवचम्॥
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋषिः अनुष्ठुप्छंदः त्र्यंबक रुद्रो देवता
ह्राम्बीजम्श्रीम्शक्तिः ह्रीम्कीलकम्
मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥
॥ ध्यानम्॥
शांतम्पद्मासनस्थम्शशिधरमकुटम्
पंचवक्त्रम्त्रिनेत्रम्शूलम्वज्रंच खड्गम्
परशुमभयदम्दक्षभागे महन्तम्।
नागम्पाशम्च घंटाम्प्रळय हुतवहम्
सांकुशम्वामभागे नानालंकारयुक्तम्
स्फटिकमणिनिभम्पार्वतीशम्नमामि ॥
॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम्स्वयंभु परमेश्वरम्।
एकम्सर्वगतम्देवम्सर्वदेवमयम्विभुम्।
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
अहोरात्रमयम्देवम्रक्षार्थम्निर्मितम्पुरा ॥
रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
शिरोमे ईश्वरः पातु ललाटम्नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम्पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायाम्सदाशिवः ।
वागीशः पातु मे जिह्वाम्ओष्ठौ पात्वंबिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवाम्बाहो चैव पिनाकधृत्।
हृदयम्मे महादेवः ईश्वरोव्यात्स्सनान्तरम्।
नाभिम्कटिम्च वक्षश्च पातु सर्वम्उमापतिः ।
बाहुमध्यान्तरम्चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्
वज्रम्च शक्तिदम्चैव पाशांकुशधरम्तथा ।
गण्डशूलधरान्नित्यम्रक्षतु त्रिदशेश्वरः ।
प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे
संध्यायाम्राजभवने विरूपाक्षस्तु पातु माम्।
rudrakavach.pdf 1
॥ रुद्रकवचम्( स्कंदपुराण ) ॥
.. rudrakavacham ( ska.ndapurANa ) ..
was typeset on August 2, 2016
2 sanskritdocuments.org