You are on page 1of 57

सर्वदुर्गतिपरिशोधन

तन्त्र
I

ॐ नमः श्रीवज्रसत्त्वाय।
एवं मया श्रुतम्
एकस्मिन् समये भगवान् सर्वदे वोत्तमनन्दवने विहरति स्म।
मणिसुवर्णशाखालताबद्धवनस्पति-
गुल्मौषधिकमलोत्पलकर्णिकारबकुलतिलकाशोकमान्दारवमहामान्दारवादिभिर्
नानाविधैः पुष्पैर् उपशोभिते। कल्पवृक्षसमलंकृते। नानालंकारविभूषिते।
नानापक्षिगणकूजिते।
तूर्यमुकुन्दवेणभु ेरीप्रभृतिप्रणदिते। शक्रब्रह्मादिदे वाप्सरोभिर् नानाविधाभिर्
विक्रीडिते।
सर्वबुद्धबोधिसत्त्वाधिष्ठिते।
सर्वशक्रब्रह्मादिदे वविद्यधरदे वाप्सरःपर्षत्कोटिनियुतशतसहस्रैर्
अनेकयक्षराक्षसासुरगरुडगन्धर्वकिन्नरमहोरगनागादिपर्षद्भिर् नानाविधाभिर्
महाबोधिसत्त्वकोटीशतसहस्रैर्
अष्टाभिः।
तद्यथा।
प्रतिभानमतिना च
बोधिसत्त्वेन महासत्त्वेन। अचलमतिना च। विपुलमतिना च। समन्तमतिना च।
अनन्तमतिना च।
असमन्तमतिना च। कमलमतिना च। महामतिना च। दिवामतिता च।
विविधमतिना च। अशेषमतिना च। समन्तभद्रे ण
च। एवं प्रमुखैर् अवैवर्तिकबोधिसत्त्वमहासत्त्वसङ् घैर् अनन्तपर्यन्तैः सत्कृतः।
 
गुरुकृतोऽर्चितः
पूजितः सुप्रकृष्टो महापर्षद्गणमध्ये महाब्रह्मा पद्मासने निसण्णः
सर्वदुर्गतिपरिशोधननामसमाधिं
समापन्नः समनन्तरं
एवापायत्रयसन्ततिविमोक्षकनाममहाबोधिसत्त्वरश्मिस्फरणसंहरणानेकमाला
स्वोर्णाकोशान्निश्चचार।
तेन त्रिसहस्रमहासहस्रलोकधातुर् अवभासितः। तेनावभासेन सर्वसत्त्वाश्
चित्तक्लेशबन्धनान्
मोचयित्वा पृथक् पृथक् सम्प्रापितो नन्दवनं च समन्तादवभ-
(१)

सयित्वा। नानापुजामेघैः
पूजयित्वा शतसहस्रर्ं प्रदक्षिणीकृत्य
शिरसा वन्दित्वा
भगवतः पुरस्ताद् विमलासनेर् उपरि निषद्यैवम् आहुः अहो बुद्ध अहो बुद्धस्य
धर्मशोभनम्॥

तत् कस्य हेतोः॥


अस्माकं दुर्गतिपरिशोधनम्॥
बोधिसत्त्वचर्यप्रतिष्ठापनञ्
च॥
 
अथ दे वेन्द्रो भगवन्तं
शतसहस्रं प्रदक्षिणीकृत्य वन्दित्वा भगवन्तम् एतद् अवोचत् ई भगवन् केन
कारणेन बुद्धरश्मिसमन्तावभासेन
दुर्गतिसमन्तान् मोचयित्वा विमुक्तिमार्गे प्रतिष्ठापिता आश्चर्यं सुगत। भगवान्
आह।
नेदं दे वेन्द्राश्चर्यं बुद्धानां भगवतां सूपचिताप्रमाणपुण्यसम्भाराणम्।
 
दे वेन्द्र सम्यक्सम्बुद्धा
अपरिमितगुणरत्नाकरभूतः। दे वेन्द्र सम्यक्सम्बुद्धानाम् अप्रमाणोपायाः
परिनिष्पन्नाः।
दे वेन्द्र बुद्धानां भगवताम् अपरिमिता प्रज्ञोपचिता। दे वेन्द्र बुद्धानां अप्रमाणा
विल्र्या। बुद्धेन भगवताप्रमाणा विनेयजना भाजनीभूताः कृतः।
असमसमज्ञानाभि बुद्धा भगवन्तोऽसमसमर्द्धिसमन्वागतः।
 
भगवन्तोऽसमसमप्रणिधानसमन्वागताः।
तस्माद् दे वेन्द्र बुद्धानां भगवतां यथा भाजनं तथा सत्त्वार्थकरणञ् च। यथा
विनेयं तथा
सत्त्वानाम् अर्थकरणञ् च। यथाभिप्रायं तथा सत्त्वार्थकरणं भवतीति। ज्ञातव्यम्
इत्य्
अत्र संशयशङ् काविमतिर् न कर्तव्या। तथागतवैनेयं न
भवतीति नेदं स्थानं
विद्यते।
 
अथ दे वेन्द्रः स्वकीयाद्
आसनाद् उत्थाय पुनर् अपि भगवतो विपुलां महतीं पूजां कृत्वा भगवन्तम् एतद्
अवोचत्। सर्वसत्त्वानां
हितकरणायानुकम्पाकरणाय शरणकरणाय समहाकृपाकरणाय
सर्वाशपरिपूरणकरणाय भगवन् मम प्रतिभानम्
उत्पादय सुगत मम
प्रतिभानम् उत्पादय। भगवन्
 
(२)

इतस् त्रयस्त्रिंशद्दे वनिकायाद्


विमलमणिप्रभनाम्नो दे वपुत्रस्य च्युतस्य कालगतस्य सप्तदिवसा अभूवन्।
भगवन् स कुत्रोपपन्नः
सुखं दुःखं वानुभवति। इदम् भगवन् व्याकुरु सुगत व्याकुरु। भगवान् आह।
दे वेन्द्र प्राप्तकालसमयं
ज्ञत्वा श्रोष्यसि। दे वेन्द्र आह। भगवन् अयं कालः। अयं
समयः सुगत। भगवान्
आह। दे वेन्द्र विमलमणीप्रभनामदे व पुत्र इतश् च्युत्वावीचौ महानरक उत्पन्नस्
तत्र द्वादशवर्षसहस्राणि
तीव्रं कटु कं दुःखम् अनुभवति।
पुनर् अल्पनरके
दशवर्षसहस्राणि दुःखम् अनुभवति। पुनर् अपि तिर्यक्प्रेतेषूत्पन्नो
दशवर्षसहस्राणि दुःखम्
अनुभवति।
 
पुनर् अपि प्रत्यन्तजनपदे षूत्पन्नो
बधिरमूकाव्यक्तस्वभावताम् अनुभवति षष्टिवर्षसहस्राणि। पुनर् अपि
चतुरशीतिवर्षसहस्राणि
व्याधिरक्तातिसारकुष्ठविघातपीडितश् च बहुजननिन्दितोऽशेषपरित्यक्तो
हीनकुलो भवति। दुःखदुःखपरम्परां
न विच्छे दयति। अन्येषां अप्य् अहितं करोति। नानाकर्माव रणानि चाविच्छे देन
करोति। पुनर्
अप्य् अन्योन्यदुःखपरंपराम् अनुभवति।
 
अथ खलु शक्रादयः
सर्वदे वपुत्राः श्रुत्वा भ्रान्तास् त्रस्ताः खिन्ना अधोमुखं पतिताः। पुनर् उत्थायैवम्
आहुः। कथम् भगवन् तस्माद् दुःखपरम्परातो मुच्यते। कथं सुगत मुच्यते।
केनोपायेन भगवन्
दुःखराशेः तस्मान् मुच्यत इति। परित्राणं कुरु भगवन्। परित्राणं कुरु सुगत।
भगवान्
आह। दे वेन्द्र चतुरशीतिबुद्धकोटिभिर् भाषितम् इदम्
अहम् अपि भाषे शृणु।
अथ खलु दे वेन्द्रः पुनर् अपि भगवन्तं मान्दारवमहामान्दारवपुष्पैर् नानाविधैर्
रत्नमुकुटके
यूर कर्णलंअकारहारार्धहारद्यनेकालंकारविशेषैर् अभ्यर्च्यानेकशतसहस्रवारं
प्रदक्षिणीकृत्य
प्रणम्य साधु भगवन्
साधु सुगतेति। साधुकारेण
हर्षयित्वा सदे वकस्य लोकस्य हितसुखकरणायानागतानां सत्त्वानाम्
अपायसन्ततिविमोक्षणाय
सुभाषितार्थं विज्ञापयामि। अथ पुनर् अपि ब्रह्मादयो दे वगणा
 
(३)

एवम् आहुः। साधु


भगवन् साधु सुगत येनानागतानं सत्त्वानां नाममात्रम् अपि श्रुतवताम्
अपायत्रयमार्गविमोक्षो
भवति।
स्वर्गदे वलोके वा
मनुष्यलोके चोत्पन्नानाम् अनुत्तरसम्यक्सम्बोधिप्राप्त्यर्थं
भासतु।
अथ खलु भगवान् शक्रब्रह्मादिदे वपुत्राणां
सर्वतथागतहृदयेनाधिष्ठानार्थम् अमोघवज्राधिष्ठाननामसमाधिं समापन्नः।
ॐ वज्राधिष्ठानसमये
हुं।
एवञ् च समाधिं समापन्नोऽनभिभवनीयवज्राधिष्ठनेनाधिष्ठायेदं
सर्वदुर्गतिपरिशोधनराजनामतथागतहृदयं
निश्चारयाम् आस।
 
ॐ शोधने शोधने सर्वपापविशोधनि
शुद्धे विशुद्धे सर्वकर्मवरणविशुद्धे स्वाहा।
अस्या विद्याया
भाषणनन्तरम् एव सर्वसत्त्वानां दुर्गतिर् विनिपातिता
सर्वनरकतिर्यक्प्रेतगतिः
शोधिता।
तीव्रदुःखानि प्रशान्तानि
बहवश् च जाताः सुखीमुखीभूताः।
पुनर् अपरं गुह्यहृदयम्
अभाषत।
ॐ शोधने शोधने।शोधय
सर्वापायान् सर्वसत्त्वेभ्यो हुं।
पुनर् अपरं दे वेन्द्रे दं
सर्वतथागतहृदयम्।
ॐ सर्वापायविशोधनि
हुं फट् ।
पुनर् अपरं दे वेन्द्रे दं
सर्वतथागतहृदयोपहृदयम्।
ॐ त्राट् ।
पुनर् अपरं दे वेन्द्र
सर्वदुर्गतिपरिशोधनहृदयम्। हुं।
पुनर् अपरं दे वेन्द्र
संक्षेपतः स्मरणमात्रेणाप्य् अल्पपुण्यसत्त्वानां
सर्वदुर्गतिशान्तिकरणायानायाशतो
विमोक्षणकरम् इदं भवति।
ॐ नमो भगवते सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते
सम्यक्सम्बुद्धाय।
तद्यथा।
ॐ शोधने शोधने सर्वपापविशोधनि
शुद्धे विशुद्धे सर्वकर्मावरण विशोधनि स्वाहा। मूलविद्या।
 
(४)

ॐ सर्ववित् सर्वावरणानि
विशोधय हन हुं फट् ।
ॐ सर्वविद् हुं।

ॐ सर्वविद् हॄः
फट् ।
ॐ सर्वविद् अः।
ॐ सर्ववित् त्रां त्राट् । ॐ सर्वविद् ॐ।
ॐ सर्वविद् धीं।
ॐ सर्वविद् हुं। ॐ सर्ववित् क्रीं त्रट् ।
 
ॐ सर्वविद् महावज्रोद्भवदानपारमितापूजे
हुं।
ईस्याया मत्रः।
ॐ सर्वविद् महावज्रोद्भवशीलपारमितापूजे
त्रां।
मालाया मन्त्रः।
ॐ सर्वविद् महावज्रोद्भवक्षान्तिपरमितापूजे
ह्रीः।
गीताया मन्त्रः।
ॐ सर्वविद् महावज्रोद्भववीर्यपारमितापूजे
अः।
नृत्याया मन्त्रः।
ॐ सर्ववित् सर्वापायविशोधनि
धम धम ध्यानपारमित
पूजे हुं हुं फट् ।
धूपाया मन्त्रः।
 
ॐ सर्ववित् सर्व
दुर्गतिपरिशोधने क्लेशोपक्लेशच्छे दनि पुष्पालोकिनि प्रज्ञापरमितापूजे त्रां हुं
फट् ।
पुष्पाया मन्त्रः।
ॐ सर्ववित् सर्वपायविशोधनि
ज्ञनालोककरि प्रणिधिपार मितापूजे ह्रीः हुं फट् । दीपाया मन्त्रः। 
ॐ सर्ववित् सर्वपायगन्धनाशनि
वज्रगन्धोपायपारमिता पूजे अः हुं फट् । गन्धाया मन्त्रः।
ॐ सर्वविद् नरकगत्याकर्षणि
हुं जः फट् ।
वज्राङ् कुशस्य मन्त्रः।
ॐ सर्वविद् नरकोद्धरणि
हुं हुं फट्
वज्रपाशस्य मन्त्रः।
ॐ सर्ववित् सर्वापायबन्धनमोचनि
हुं वं फट् ।
वज्रस्फोटस्य मन्त्रः।
ॐ सर्ववित् सर्वापायगतिगहनविशोधनि
हुं होः पट् ।
वज्रावेशस्य मन्त्रः।
ॐ मैत्रीयहरणाय
स्वाहा। मैत्रेयस्य मन्त्रः।
ॐ अमोघे अमोघदर्शिनि
हुं। अमोघदर्शिनः।
 
(५)

ॐ सर्वापायजहे सर्वापायविशोधनि
हुं। सर्वापायजहस्य।
ॐ सर्वशोकतमोनिर्घातनमति
हुं।
सर्वशोकतमोनिर्घातनमतेः।
ॐ गन्धहस्तिनि हुं।
गन्धहस्तिनः।
ॐ शुरंगमे हुं।
शुरंगमस्य।
ॐ गगने गगनलोचने
हुं। गगनगञ्जस्य।
ॐ ज्ञानकेतो ज्ञानवति
हुं। ज्ञानकेतोः।
ॐ अमृतप्रभे अमृतवति
हुं। अमृतप्रभस्य।
ॐ चन्द्रस्थे चन्द्रव्यवलोकिनि
स्वाहा। चन्द्रप्रभस्य।
ॐ भद्रवति भद्रपाले
भद्रपालस्य।
ॐ जालिनि महाजालिनि
हुं। जालिनीप्रभस्य।
ॐ वज्रगर्भे हुं।
वज्रगर्भस्य।
ॐ अक्षये हुं हुं
अक्षयकर्मावरणविशोधनि स्वाहा।
अक्षयमतेः।
ॐ प्रतिभाने प्रतिभानकूटे
स्वाहा।
प्रतिभानकूतस्य।
ॐ समन्तभद्रे हुं।
समन्तभद्रस्य।
 
एते भद्रकल्पिकस्य
बोधिसत्त्वस्य। मन्त्रान् यथाक्रमम् उच्चारयेत्।
 
अनेन यथोक्ततन्त्रानुसारानुक्रमेण
विधानेन प्रत्यहं प्रभातकाल उत्पत्तिक्रमेण भावयमानो भावयेत्। दे वतायोगं
समाधित्रयम्
उत्तमं यत्नतो दुर्गतिपरिशोधनसिद्धिर् भवति। पुनर् अपरं दे वेन्द्र
सर्वदुर्गतिपरिशोधनतेजोराजस्य
तथागतस्य गुह्यहृदयम् इदम्।  कुलपुत्रो वा कुलदुहिता
यः कश्चिद् नाममात्रं शृणोति धारयति वाचयति ईखित्वा च शिरसि शिखायां वा
बाहौ ग्रीवायां
वा बद्ध्वा धारयति तस्येहैव
जन्मन्य् अष्टव्
अकाल मरणानि मरणसंबन्धस्वप्नप्रकारा
 
(६)

वा दुर्गतिनिमित्तानि
वा तानि सर्वाणि स्वप्नमात्रते नोपसर्पन्ति मण्डलञ् च यथावत् प्रवेश्याभिषिक्तो
हृदयञ्
च जप्त्वा मन्त्रार्थं ये केचिद् भावयन्ति कः पुनर् वादस् तेषां यानि कानिचित्
पापानि
न निकटीभवन्तीति न दुर्गतिं गच्छन्तीति।
 
पुरुषस्त्रीदे वनागयक्षराक्षसप्रेततिर्यग्नरकादीनां
येषां केषाञ्चित् मृतकायेषु मण्डलं प्रवेश्याभिशिक्तेषु ते नरके सूत्पन्नाः
समनङ् तरम्
एवं विमुच्यन्ते दे वनिकायेषूत्पद्यन्ते।
तत्रोत्पन्नाः सन्तः
सर्वतथागतानां धर्मताम् अभिमुखीकुर्वन्त्य् अवैवर्तिकाश् च भवन्ति। सन्ततिश्
च नियता
भवति। सर्वतथागतकुले
प्रजाताश् च भवन्ति।
प्रहीणावरणाश् च। सर्वतथागतकुलेषु दे वकुलेषु वान्यस्मिन् वा सुखम्
अनुभवन्ति। दे वेन्द्र
संक्षेपतो लौकिकलोकोत्तरसर्वहितसुखम् अनुभवन्ति।
 
अथ दे वेन्द्रो भगवन्तं
पूर्ववत् प्रदक्षिणीकृत्य वन्दित्वैवम् आह। भगवन् सर्वदुर्गतिवशीभूतानां
हितसुखकरणाय्य
यथासत्त्वैः सर्वदुर्गति पृष्ठीकरणायानायासतोऽनुत्तरसम्यक्सम्बोध्यधिगमार्थं धर्मं
दे शयतु।
 
अथ खलु भगवान् शाक्यमुनिः
सर्वदुर्गतिपरिशोधनज्ञानवज्रनामसमाधिं
समापद्य सर्वतथागतसर्वदुर्गतिपरिशोधनतेजोराजनाममण्डलम्
अभाषत।
तत्साधनं शाक्यनाथेन
भाषितम्।
 
प्रथमं तावद् योगी
विजने मनोऽनुकूलप्रदे शे मृदुसुकुमारासने निषण्णः सुगन्धेन मण्डलं कृत्वा
पञ्चोपहारपूजा
करणीया। ततः सर्वधर्मनैरात्म्यं भावयित्वा। आत्मानं हुंकारेण वज्रज्वालानलार्कं
भावयेत।्
तस्य कण्ठे ह्रीःकारेण पद्मं तस्योपरि दलाग्र आकारेण चन्द्रमण्डलं तस्योपरि
हुंकारेण पञ्चसूचिकवज्रम्।
तद् वज्रं जिह्वायां रिणं भवति। वज्रजिह्वे ति। तेन वज्रजिह्वा भवति।
मन्त्रजापक्षमो
भवेत्।
हस्तद्वयस्य मध्ये
सिताकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रं। तद् वज्रं करमध्ये
निलीयते
वज्रहस्तो भवति।
सर्वमुद्राबन्धक्षमो
भवेत्।
 
(७)

ततो रक्षाचक्रभावना
कर्तव्या।
ॐ गृह्ण वज्रसमये
हुं वं। इति ब्रुवन् क्रोधतेरिन्तिरीं बध्नीयत्।
वज्रबन्धं तले कृत्वा
च्छादयेत् क्रुद्धमानसः॥
गाढम् अङ्गु ष्ठवज्रेण
क्रोधतेरिन्तिर् स्मृता॥
ततो वज्रार्धासननिषण्णो
वज्रतेरिन्तिरीं बद्ध्वा
वज्रमालाभिषेकं
गृह्णीयात्।
 
ॐ वज्रज्वालानलार्क
हुं अभिषिञ्च माम् इति।
वज्रबन्धेऽङ्गु ष्ठद्वयं
सहितोत्थितं वज्रबन्धस्योपरि श्लिष्ठं धारयेत्। वज्रतेरिन्तिरी।
ॐ टुं इति। अनेन
द्व्यक्षरकवचेन कवचयित्वा।
ॐ वज्रज्वालानलार्क
हुं इत्य् उदीरयेत्।
वामवज्रमुष्टिं
हृदये कृत्वा दक्षिणवज्रमुष्टिम् उल्लालयन् सर्वविघ्नान् हन्यात्।
ततो वज्रानलेन मुद्रासहितेन
विघ्नदहनादिकं कुर्यात्।
ॐ वज्रानल हन दह
पच मथ भञ्ज रण हुं फट् इत्य् उदीरयेत्।
अभ्यन्तरवज्रबन्धेऽङ्गु लिज्वालागर्भेऽङ्गु ष्ठवज्रम्
उत्थितम् इयं वज्रानलमुद्रा।
 
तद् अनु। वज्रनेत्रि
बन्ध सर्वविघ्नान् इति। मुद्रायुक्त्या सर्वविघ्नबन्धं कुर्यात्।
वज्रबन्धं बद्ध्वाङ्गु ष्ठद्वयं
प्रसार्य समं धारयेत्। वज्रनेत्रिमुद्रा।
प्रसारितवज्रबन्धं
भूम्यां प्रतिष्ठाप्याधोबन्धं कुर्यात्।
ॐ वज्र दृढो मे
भव रक्ष सर्वान् स्वाहा।
वज्रभैरवनेत्रेण
मुद्रासहितेनोर्ध्वबन्धं कुर्यात्।
ॐ हुलु हुलु हुं
फट् । इति।
वज्रमुष्टिद्वयं
बद्ध्वालातचक्रं भ्रामयित्वा शिरसोपरि
तर्जन्यङ् कुशाकारेण
धारयेत्। वज्रभैरवनेत्रमुद्रा। तस्याधस्ताद्
वज्रयक्षेण मुद्रासहितेन
पुनर् बन्धं कुर्यात्
 
(८)

ॐ वज्रयक्ष हुं
इति। वज्राञ्जलेर् अङ्गु ष्ठद्वयम् प्रसारितं तर्जनीद्वयं दं ष्ट्रा। वज्रयक्षमुद्रा।
वज्रोष्णीषेण मुद्रायुक्तेन
पूर्वां दिशं बन्धयेत्।
ॐ द्रुं बन्ध हं
इति। द्रुं इति वा।
वज्रमुष्टिद्वयं
कन्यसाशृङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवर्तोष्णीषे स्थापयेत्।
वज्रोष्णिषमुद्रा।
पुनर् वज्रपाशेन
ताम् एव बन्धयेत्।
हुं वज्रपाशे ह्रीः
इति। वज्रमुष्टिद्वयेन बाहुग्रन्थिं
कुर्यात्। वज्रपाशमुद्रा।
वज्रपताकया पश्चिमां
दिशं बन्धेत्।
ॐ वज्रपताके पतंगिनि
रटे ति। वज्रबन्धेऽङ्गु ष्ठसत्त्वपर्यङ् कसूचीं
कृत्वाग्रासमानामविदारितान्त्यपटाग्री।
वज्रपताकायाः।
दिग्विदिक्ष्व्
अध ऊर्ध्वञ् च विघ्ननिकृन्तनं कुर्यात्।
वज्रकाल्योत्तरां
दिशं बन्धेत्।
 
ॐ वज्रशिखरे रुट्
मट् । इति। वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयाकारं
वज्रशिखरायाः।
वज्रकर्मणा मण्डलबन्धं
कृत्वा प्राकारं दद्यात्। हुं वज्रकर्मेति। पुनर् अभ्यन्तरप्राकारं वज्रहुंकारेण हुं
इति। वज्रमुष्टिद्वयं बद्ध्वा बाहुवज्रं समाधाय कनिष्ठाङ् कुशबन्धिता
त्रिलोकविजयनामतर्जनीद्वयं
तर्जनी। वज्रहुंकारस्य। इयम् एव मध्याग्रद्वयं वज्रं वज्रकर्मणः।
 
(९)

 
ततो वज्रचक्रमुद्रया
सर्वदुर्गतिप रिशोधनमण्डलं पुरतो निष्पादयेत्।
ॐ वज्रचक्र हुं।
इति।
वज्रमुष्टिद्वयं
बद्ध्वा द्व्यग्रान्त्यावज्रबन्धनात्॥
वज्रचक्रेति विख्याता
सर्वमण्डलसाधिका॥
अनया सर्वदिक्षु
प्रदक्षिणतया भ्रामयित्वा सर्वमण्डलनिर्माणं भवति। इमाम् एव मुखे न्यस्य
निरीक्षमाणोऽष्टौ
वारान् वज्रचक्रं जपेत्।
ततः प्रत्यक्षम्
इव मण्डलं बुद्ध्यालग्य पुष्पादिभिः सम्पूज्य सर्वदिक्षु पञ्चमण्डलकेन प्रणमेद ्
अनेन।
ॐ सर्ववित् कायवाक्चित्तप्रणामेन
वज्रबन्धनं करोमीति। ततश् चतुःप्रणामं कुर्यात्। तद्यथा।
 
सर्वशरीरेण वज्रञ्जलिप्रसारितेन
पूर्वस्यां दिशि प्रणमेद ् अनेन।
ॐ सर्ववित् पूजोपस्थानायात्मानं
निर्यातयामि।
सर्वतथागतवज्रसत्त्वाधितिष्ठस्व
माम्। इति।
ततस् तथैवोत्थाय
वज्राञ्जलिं हृदि कृत्वा दक्षिणस्यां दिशि ललातेण भूमिं स्पृशन् प्रणमेद ् अनेन।
ॐ सर्ववित् पूजभिषेकायात्मानं
निर्यातयामि।
सर्वतथागतवज्ररत्नाभिषिञ्च
माम्। इति।
ततस् तथैवोत्थाय
वज्रञ्जलिबन्धेन शिरसा पश्चिमायां दिशि मुखेन भूमिं स्पृशन् प्रणमेद ् अनेन।
ॐ सर्ववित् पूजाप्रवर्तनायात्मानं
निर्यातयामि।
सर्वतथागतवज्रधर्म
प्रवर्तय माम्। इति।
ततस् तथैवोत्थितो
वज्राञ्जललिं शिरसोऽवतार्य हृदि कृत्वोत्तरस्यां दिशि मूर्ध्ना भूमिं स्पृशन् प्रणमेद ्
अनेन।
ॐ सर्ववित् पूजाकर्मणा
आत्मानं निर्यातयामि।
सर्वतथागतवज्रकर्म
कुरुष्व माम्। इति।
जानुमण्डलद्वयं
पृथिव्यां प्रतिष्ठाप्य वज्राञ्जलिं हृदि कृत्वा सर्वपापं प्रतिदे शयेत।्
 
(१०)
समन्वाहरन्तु मां
दशसु दिक्षु सर्वबुद्धबोधिसत्त्वाः सर्व तथागतवज्रमणिपद्मकर्मकुलावस्थिताश् च
सर्वमुद्रामन्त्रविद्यादे वता
अहम् अमुकवज्रो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः
सर्वतथागतवज्रमाणिपद्मकर्मकुलावस्थितानां
सर्वमुद्रामन्त्रविद्यादे वतानां च पुरतः सर्वपापं प्रतिदे शयामि।
 
विस्तरेण दशसु दिक्ष्व्
अतीतानागतप्रत्युत्पन्नानां
सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकसम्यग्गतसम्यक्प्रतिपन्नानां
सर्वसत्त्वनिकायानां च सर्वपुण्यम् अनुमोदयामि। दशसु दिक्षु सर्वबुद्धान्
भगवतः। अप्रवर्तितधर्मचक्रान्
अध्येषे धर्मचक्रप्रवर्तनाय। दशसु दिक्षु सर्वबुद्धान् भगवतः परिनिर्वातुकामान्
याचेऽपरिनिर्वाणाय।
ततः पुष्पमुद्रां
बद्ध्वैवं वदे त्।
 
ॐ सर्ववित् पुष्पपूजामेघसमुद्रस्फरणसमये
हुं। इति।
धूपमुद्रां बद्ध्वैवं
वदे त्।
ॐ सर्वविद् धूपपूजामेघसमुद्रस्फरणसमये
हुं।
दीपमुद्रां बद्ध्वैवं
वदे त्।
ॐ सर्वविद् आलोकपूजामेघसमुद्रस्फरणसमये
हुं।
गन्धमुद्रां बद्ध्वैवं
वदे त्।
ॐ सर्वविद् गन्धपूजामेघसमुद्रस्फरणसमये
हुं।
सम्पुटाञ्जलिं बद्ध्वैवं
वदे त्।
ॐ सर्वविद् बोध्यङ्गरत्नालंकारपूजामेघसमुद्रस्फरणसमये
हुं। इति।
ॐ सर्वव्ल्द् हास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये
हुं। इति।
ॐ सर्वविद् अनुत्तरवस्त्रपूजामेघसमुद्रस्फरणषमये
हुं। इति।
 
(११)

ततः सर्वसत्त्वसंसारदुःखम्
अनुस्मृत्य भगवतो वज्रसत्त्वस्य
कर्ममुद्रां बद्ध्वा
करुणावशेन सर्वसत्त्वोत्तारणाय बोधिचित्तम्म्
उत्पादयेत्।
अतीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनायापरिनिर्वृतपरिनिर्वातनाय
सकलसत्त्वधातोः संसारसमुद्राद् उत्तारणाय च।
 
ॐ सर्वविद् वज्रपूजामेघसमुद्रस्फरणसमये
हुं। इति। ततो लास्यामुद्रं बद्ध्वैवं वदे त्।
सर्वसत्त्वाः सर्वोपकरणसमन्वागता
भवन्तु। इच्छामात्रप्रतिबद्धसर्वसम्पत्तयः।
ॐ सर्वविद् महावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति। (वज्र-)मालामुद्रां बद्ध्वैवं वदे त्।
सर्वसत्त्वाः सर्वाकुशलकायवाग्मनस्कर्मान्तविगता
भवन्तु।
सर्वकुशलकायवाग्मनस्कर्मान्तसमन्वागता
भवन्तु।
 
ॐ सर्वविद् अनुत्तरमहाबोध्याहारशीलपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।
गीतामुद्रां बद्ध्वैवं
वदे त्।
सर्वसत्त्वाः सर्वलक्षणनुव्यञ्जनेन
समलंकृतगात्रा भवन्तु।
परस्परतो नित्यम्
अभयावैरप्रतिपन्ना हृदयनयनाभिरामा
गम्भीरधर्मक्षान्तिकाश्
च।
ॐ सर्वविद् अनुत्तरमहाधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।
नृत्यामुद्रां बद्ध्वैवं
वदे त्।
सर्वसत्त्वा बोधिसत्त्वचर्याभियुक्ता
भवन्तु ई बुद्धतत्त्वपरायनाः संसारापरित्यागवीर्ययुक्ताः।
ॐ सर्ववित् संसारापरित्यागवीर्यपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।
पुष्पामुद्रां बद्ध्वैवं
वदे त्।
सर्वसत्त्वाः सर्वक्लेशोपक्लेशविगता
भवन्तु। सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्यावशितासंपन्नाः।
ॐ सर्वविद् अनुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।
 
(१२)

धूपामुद्रां बद्ध्वैवं
वदे त्।
सर्वसत्त्वाः सर्वलौकिकलोकोत्तरप्रज्ञाज्ञनसमन्विता
भवन्तु। चतुःप्रतिसंवित्प्राप्ताः सर्वशास्त्रशिल्पज्ञानकलायोगगुणगुह्यविधिज्ञास्
तत्त्वदर्शिनः
सर्वक्लेशज्ञेयावरणसमुछेदज्ञानप्राप्ताः।
ॐ सर्वविद् अनुत्तरक्लेशछे दमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।
दीपामुद्रं बद्ध्वैवं
वदे त्।
सर्वसत्त्वाः सर्वापायविगता
भवन्तु।
ॐ सर्ववित् सर्वापायविशोधनि
ज्ञानालोकप्रणिधानपारमितापूजामेघसमुद्रस्फरणसमये हुं। इति।
गन्धामुद्रां बद्ध्वैवं
वदे त्।
सर्वसत्त्वः सर्वाज्ञानविगता
भवन्तु।
ॐ सर्ववित् सर्वापायगन्धनाशनि
वज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हुं। इति।
दशसु दिक्ष्व् अशेषसर्वतथागतपादमूलगतम्
आत्मानम् अधिमुच्य कायपरिचर्यार्थम्।
ॐ सर्ववित्  कायनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं। इति।
 
असमाचलेत्यादि।
सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य।
ॐ सर्वविद् वाग्निर्यातनपूजामेघसमुद्रस्फरणसमये
हुं। इति।
सर्वबोधिसत्त्वक
ै ाशयप्रयोगतया
धर्मसमताम् अधिमुच्य।
ॐ सर्ववित् चित्तनिर्यातनपूजामेघसमुद्रस्फरणसमये
हुं। इति।
अभावस्वभावाः सर्वधर्माः
शून्यतानिमित्ताप्रणिहिताकारा इह्य्
अधिमुच्य।
ॐ सर्वविद् गुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये
हुं। इति।
एवं विंशतिप्रकारपूजया
सर्वतथगतान् संपूज्यात्मानं निर्यातयेत्।
आत्मानं सर्वबुद्धबोधिसत्त्वेभ्यो
निर्यातयामि। सर्वदा सर्वकालं प्रतिगृह्णन्तु मां महाकरुणिका नाथा
महासमयसिद्धिञ् च
प्रयच्छन्तु। तच् च कुशलमूलं सर्वसत्त्वसाधरणं कर्तव्यं। अनेन कुशलमूलेन
सर्वसत्त्वाः
सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु।
(१३)

सर्वलौकिकलोकोत्तरसम्पत्तिसमन्वागताश्
च भवन्तु।
सहैव सुखेन सहैव
सौमनस्येन बुद्धा भवन्तु नरोत्तमा इति।
अनेन चाहं कुशलकर्मणा
भवेय बुद्धो॥
न चिरेण लोके दे शये
धर्मं जगतो हिताय॥
मोचये सत्त्वान्
बहुदुःखपीडितान् इति॥
अनुत्तरायां सम्यक्सम्बोधौ
परिणामाय संवरं गृणीयात्।
उत्पादयामि परमं
बोधिचित्तम् अनुत्तरम्॥
यथा त्रैयध्विकनाथाः
सम्बोधौ कृतनिश्चयाः॥
त्रिविधां शीलशिक्षां
च कुशलधर्मसंग्रहम्॥
सत्त्वार्थक्रियाशीलं
च प्रतिगृह्णाम्य् अहं दृधम्॥
बुद्धं धर्मं च
सङ् घं च त्रिरत्नाग्रम् अनुत्तरम्॥
अद्याग्रेण ग्रहीष्यामि
संवरं बुद्धयोगजम्॥
वज्रघण्टां च मुद्रां
च प्रतिगृह्णामि तत्त्वतः॥
आचार्यं च ग्रहीष्यामि
महावज्रकुलोच्चये॥
चतुर्दानं प्रदास्यामि
षट् कृत्वा तु दिने दिने॥
महारत्नकुले योगे
समये च मनोरमे॥
सद्धर्मं प्रतिगृह्णामि
बाह्यं गुह्यं त्रियानिकम्॥
महापद्मकुले शुद्धे
महाबोधिसमुद्भवे॥
संवरं सर्वसंयुक्तं
प्रतिगृह्णामि तत्त्वतः॥
पूजाकर्म यथाशक्त्या
महाकर्मकुलोच्चये॥
उत्पादयित्वा परमं
बोधिचित्तम् अनुत्तरम्॥
गृहीतं संवरं कृत्स्नं
सर्वसत्त्वार्थकारणात्॥
अतीर्णान् तारयिष्याम्य्
अमुक्तान् मोचयिष्याम्य् अहम्॥
अनाश्वस्तान् आश्वासयिष्यामि
सत्त्वान् स्थापयामि निर्वृत्ताव् इति।
तत आकाशस्थं मण्डलं
दे वादिभिः पूज्यमानं विचिन्तयेत्।
पञ्चोपहारादिना
पूजयेत।् सम्यक् प्रपूज्य बुद्धानां गुणवर्णानां
स्तुतिं कुर्यात्।
अहो बुद्ध अहो बुद्ध
सस्धु बुद्ध कृतोत्तम॥
सर्वदुर्गतिं संशोध्य
सत्त्वानां बोधिः प्राप्यते॥
(१४)

 
तत ॐ वज्रञ्जलीति।
वज्रबन्धनं हृदये स्फोटयेत्।
ॐ सर्वविद् वज्रबन्ध
त्राट् ब्रुवन्।
वज्रावेशमुद्रां
बद्ध्वा।
ॐ तिष्ठ वज्र दृढो
मे भव शाश्वतो मे भव हृदयं
मेऽधितिष्ठ सर्वसिद्धिं
च मे प्रयच्छ हुं ह ह ह ह होः। इति।
ॐ वज्रमुष्टि वं।

सत्त्ववज्रीं बद्ध्वा।
ॐ सर्ववित् शोधने
शोधने सर्वपापान् अपनय हुं।
पापाकर्षणमन्त्रः।
वज्रबन्धं दृधं
बद्ध्वा वज्रमुद्राधिष्ठान्तरात्।
समुत्क्षिपेत् क्षणाड्
ऊर्ध्वं पतितोत्क्षेपणं परम्। इति।
ॐ सर्ववित् सर्वापायविशोधनि
हुं फट् ।
पापविशोधनमन्त्रः।
वज्रबन्धं दृधीकृत्य
मध्यमा मुखसहिता॥
चतुरन्त्यमुखासक्ता
पापं स्फोटयति क्षणात्॥
ॐ सर्ववित् त्राट्
हुं।
सत्त्ववज्रीं बद्ध्वा।
ॐ सर्ववित् सर्वावरणविशोधने
मुः हुं फट् ।
उद्धरणलक्षणं।
ततः पश्चाद् योगिनो
हृदयमध्येऽकारेण चन्द्रमण्डलं तस्योपरि।
ॐ मुने मुने महामुनये
स्वाहा।
ॐ नमः सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।
ॐ शोधने शोधने सर्वपापविशोधनि
शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा।
एतेन मन्त्रेण दुर्गतिपरिशोधनमण्डलं
परिनिष्पन्नं भवति। ततो वज्राङ् कुशद्यैर् आकृष्य प्रवेश्य बद्ध्वा
वशीकृत्याकाशमण्डलपूजां
कृत्वा हृदयमण्डले निवेषयेत्। द्वयमण्डले नैकमण्डलं भवतीति। निष्पन्नयोगो
भूत्वा समयमण्डलं
दे वतापरिपूर्णं भवति। तत्र मण्डलमध्ये चक्रवर्तिरूपं
आत्मभावं शाक्यसिंहं
विभावयेत।् ततः शाक्यमुनेर् हृद्यकारेण चन्द्रमण्डलं भावयेत।् चन्द्रमण्डलमध्ये।
 
(१५)

ॐ मुने मुने महामुनये


स्वाहा।
ततो वज्रहेतुकर्ममुद्रया
मण्डलं निर्माय।
ॐ सर्वविद् वज्रचक्र
हुं। इति।
सत्त्ववज्रीं बद्ध्वैव
मध्याङ्गु लिद्वयेन मालाम् आदाय मनसा प्रविशेत्। समये हुं इत्य् अनेन तां च
मालां स्वशिरसि
क्षिपेत्। अनेन प्रतिच्छ वज्र होः। इति। ततः स्वशिरसि बन्धेद ् अनेन।
ॐ प्रतिगृह्ण त्वम्
इमां सत्त्व महाबलेति॥
मुखबन्धं चानेन
मुञ्चेत्।
ॐ वज्रसत्त्वः स्वयं
तेऽद्य चक्षूद्घाटनतत्परः॥
उद्घाटयति सर्वाक्षो
वज्रचक्षुर् अनुत्तरम्॥ इति।
हे वज्र पश्य। इति।
ततो महामण्डले तावत्
पश्येद ् यावद् भगवन्तं शाक्यमुनिम्।
पुनः सत्त्ववज्रीं
बद्ध्वा हृदये मुङ्चेत्। वज्राधिष्टितकलशाद् उदकाभिषेकं वज्रमुष्ट्या दद्यात्।
ॐ सर्वविद् वज्राभिषिञ्च
माम्। इति।
पुनर् वज्रधात्वीश्वर्यादिमुद्रयाभिमुद्रयेत्।
ॐ सर्वविद् वज्रधात्वीश्वरि
हुं अभिषिञ्च माम्।
ॐ सर्वविद् वज्रवज्रिणि
हुं अभिषिञ्च माम्।
ॐ सर्वविद् रत्नवज्रिणि
हुं अभिषिञ्च माम्।
ॐ सर्वविद् धर्मवज्रिणि
हुं अभिषिञ्च माम्।
ॐ सर्ववित् कर्मवज्रिणि
हुं अभिषिञ्च माम्।
ॐ टूं टूं टूं वज्र
तुष्य होः।
द्व्यक्षरकवचेन
कवचयित्वा। ततः स्ववज्राभिषेक्ं गृह्णियात्।
अद्याभिषिक्तस्
त्वम् असि बुद्धैर् वज्राभिषेकतः॥
इदम् तत् सर्वबुद्धत्वं
गृह्ण वज्रसुसिद्धये॥
ॐ वज्राधिपति त्वाम्
अभिषिञ्चामि तिष्ठ वज्रसमयस् त्वं
वज्रनामाभिषेकतः।
ॐ वज्रसत्त्व त्वाम्
अभिषिञ्चामि।
इदं तत् सर्वबुद्धत्वं
वज्रसत्त्वकरे स्थितम्॥
त्वयापि हि सदा
धार्यं वज्रपाणिदृढव्रतम्॥
ॐ सर्वतथागतसिद्धिवज्रसमय
तिष्ठैष त्वां धारयामि वज्रसत्त्व हि हि हि हि हुं। इति।
ॐ सर्वविद् वज्राधिष्ठानसमये
हुं।
आत्माधिष्ठानमन्त्रः।
 
(१६)

वज्रर्नुष्टिद्वयं
बद्ध्वाङ्गु ष्ठमध्यमाकनिष्ठोर्ध्वं स्थित्वा मुखे श्लिष्येत् तर्जन्यनामिकासत्त्वपर्यङ् कं
कृत्वा। वज्रमुद्रा। हृत्कण्ठललाट ऊर्णभ्रूमध्ये नासिकाकर्णकटिजानुपादद्ववे
जंघायां
चक्षुर्द्व ये गुह्येऽधिष्ठाणं तु कारयेत्।
ततः स्वकायसमय अकारेण
चन्द्रमण्डलम्। सर्वबीजसमुत्पन्नचिह्नाहंकारं मन्त्रम् उद्वहन्।
ॐ सर्वविद् जः हुं
वं होः समयस् त्वं समय होः।
ॐ मुने मुने महामुनये
स्वाहा। त्रिर् उच्चारयेत् सामान्यम् अपि।
 
ततः स्वकाये वज्रसमाजमुद्रां
बद्ध्वा।
जः हुं वं होः प्रवर्तयेत्।
यथास्थानेष्व् आकृष्य
प्रवेश्य बद्ध्वा वशीकुर्यात्।
स्वहृदि हुंकारयोगेन
पञ्चसूचिकवज्रम्।
समयं तु प्रवक्ष्यामि
शाक्यसिंहस्य मुद्रया॥
समाध्यग्रस्थितो
मध्ये मुद्रासमय उच्यते॥
वज्रबन्धं दृधीकृत्य
मध्यमा मुखसंहिता॥
वज्रोष्णीषमुद्रा।
सैव मध्यमा रत्नं
तु पद्माकारं तु मध्यमा॥
सैव मध्यमा वज्रं
तु शेषा ज्वालांगुलीकृता॥
सैवांगुली ज्वालाकृता
तेज उष्णीषमुद्रया॥
सैव तु समानामिका
कनिष्ठाद्वयम् उत्सृजेत्॥
तर्जनी पद्मपत्त्रं
तु मध्यमा वज्रम् उत्थिता॥
सैव पुरतः स्थित्वा
वज्रपञ्जरकारका॥
हृदये तु समांगुष्ठा
सुप्रसारितमालिनी॥
अञ्जल्यग्रमुखोद्धान्ता
नृत्यतो मूर्ध्नि संपुटा॥
वज्रबन्धं त्व्
अधोदानात् स्वाञ्जलिस्थोर्ध्वदायिका॥
समांगुष्ठनिपीडा
च सुप्रसारितलेपना॥
वज्रमुष्टिद्वयं
बद्ध्वा तर्जन्यंगुष्ठमध्यमाः॥
प्रत्येकम् अप्य्
अन्योन्यम् अभिमुखं धारयेत्॥
एकतर्जनीं संकुच्य
द्व्यंगुष्ठौ ग्रन्थिं बन्धितौ॥
अंगुष्ठाग्रकटिबन्धा
वज्रमुष्ट्यग्रसंहिता॥ इति।
धर्ममुद्रां भावयेत्
कण्ठे पद्मेन्दुमण्डले॥
पूर्वम् उत्सर्गस्मन्त्रेण
धर्ममुद्रा विधीयते॥
कर्ममुद्रा हृदये
विश्ववज्रम्॥
 
(१७)

धर्मचक्रं यथोक्तस्य
शाक्यराजस्य मुद्रया॥
भूस्पर्शवरदध्यानम्
अभयाद्या यथाक्रमम्॥
तेजोष्णीषस्य मुद्रया
समाध्यग्रावस्थिता॥
दक्षिणबाहुदण्डा
च हृद्वामखड् गधारिणी॥
वामतर्जनीम् उत्सृज्य
दक्षिणेन प्रसारयेत्॥
द्वयहस्तेन संमील्य
चत्राकारेण धारयेत्॥
कर्ममुद्राविधिर्
येन नवसम्बुद्धतायिनाम्॥
वज्रगर्वप्रयोगेण
नमेद ् आशयकम्पितैः॥
मालाबन्धा मुखोद्धान्त
नृत्यतः परिवर्तिता॥
वज्रमुष्टिप्रयोगेण
दद्याद् धूपादयस् तथा॥
तर्जन्यंकुशबन्धेन
कनिष्ठायां महांकुशी॥
बाहुग्रन्थिकटग्राभ्यां
पृष्ठयोश् च निपीडयेत्॥
अथातः संप्रवक्षामि
बोधिसत्त्वमहात्मनाम्॥
कर्ममुद्राप्रबन्धेन
यथानुक्रमलक्षणम्॥
 
वज्रमुष्टिद्वयं
बद्ध्वान्योन्यं सहनि मीलयेत्॥
तर्जनीमध्यमाकुञ्च्य
पुष्पकारेण धारयेत्॥
मैत्रेयस्य मुद्रा।
वाममुष्टिं कटौ
न्यस्य दक्षिणं बाहुपार्श्वतः॥
तर्जनीमध्यमोत्सृज्य
नेत्राकरेण धारयेत्॥
अमोघदर्शिनः।
वज्रमुष्टिद्वयं
बद्ध्वा तर्जनीस् संप्रसारयेत्॥
सव्येनांकुशं संधार्य
सर्वापायजहस्य च॥
वाममुष्टिं कटिं
न्यस्य दक्षिणदण्डम् आकृतिः।
धारयेद ् ऊर्ध्वतश्
चैव सर्वशोकतमस्य च॥
वामे नाभस्थिता
मुष्टिर् गजपुष्करम् आकृतिः॥
धारयेद ् दक्षिणे
हस्ते गन्धहस्तिनो मुद्रया॥
वाममुष्टिं कटिं
न्यस्य दक्षिणे खड् गकारतः॥
शूरंगमस्य।
वाममुष्टिं हृदि
धार्य दक्षिणम् ऊर्ध्वं भ्रामयेत्॥
गगनगञ्जस्य।
वज्रमुष्टिद्वयं
बद्ध्वा दक्षिणेन तु धारयेत्॥
ध्वजगृहिताकारेण
ज्ञानकेतोश् च मुद्रया॥
द्वयहस्तेन संधार्य
कलशाकारेण धारयेत्॥
अमृतप्रभस्य।
 
(१८)

वाममुष्टिम् उरौ
स्थित्वा दक्षिणमुष्टिं पार्श्वतः॥
प्रसार्य कनिष्ठांगुष्ठौ
चन्द्ररेखा तु आकृतिः॥
चन्द्रप्रभस्य।
द्वयहस्तं हृदि
दे शे पद्माकारं विकासयेत्॥
अन्योन्यं मुखम्
आसज्य भद्रपालस्य मुद्रया॥
वज्रमुष्टिद्वयं
बद्ध्वा कवचाकारेण धारयेत्॥
स्तनद्वये च संधार्य
जालिनीप्रभमुद्रया॥
वाममुष्टिः कटिं
न्यस्तो दक्षीणहृदयस्थितः॥
मध्यमांगुलिम् उत्सृज्य
वज्रगर्भस्य मुद्रया॥
वाममुष्टिर् हृदि
न्यस्तो वरदाकारं दक्षिणे॥
अक्षयमतेर् मुद्रा।
वामे नाभस्थिता
मुष्टिर् दक्षिणे चोटिकां ददन्॥
प्रतिभानकूटस्य।
वाममुष्टिं कटिं
धार्य दक्षिणरत्नमुष्टिका॥
समन्तभद्रस्य।
चिह्नरहितेन विधिना
कर्ममुद्रा चोक्तिता॥
हृदये वज्रं संधार्य
पञ्चसूचिकरूपिणम्॥
उत्सर्गेषु यथाधार्य
मुद्रासायुधधारिणाम्॥
वज्रघण्टाधरो भूत्वा
हृदये वज्रं धारयेत्॥
महामुद्रेति बोद्धव्या
बोधिसत्त्वमहात्मनाम्॥
उत्सर्गेषु यथगृह्य
मुद्राप्रहरणधारिणाम्॥
यां यां मुद्रां
तु बध्नीयाद् यस्य यस्य महात्मनः॥
जपन् तु हृदयार्थेन
भावयेत् तु स्वम् आत्मानम्॥
 
चतुर्मुद्रा विधातव्या
दे वतासर्वमुद्रितुम्॥
सर्वज्ञगुणसम्पन्नाः
सर्वसत्त्वार्थकारणत्॥
सर्वदुर्गतिं संशोध्य
सत्त्वानां बोधिः प्राप्यते॥
अथ मन्त्रं प्रवक्षामि
सर्वदुर्गतिमण्डले॥
मुद्रामन्त्रप्रवोगेण
सर्वकार्यक्षमो भवेत्॥
प्रतिप्रतिवज्रनृत्यं
कृत्वा मन्त्रैश् चोदाहृतम्॥
ॐ नमः सर्वदुर्गतिपरिशोधनराजाय॥
तथागतायार्हते सम्यक्सम्बुद्धाय
तद्यथा॥
ॐ शोधने शोधने सर्वपापविशोधने
शुद्धे॥
विशुद्धे सर्वकर्मावरणविशुद्धे
स्वाहा॥
 
(१९)

वामवज्रमुष्ट्या
वज्रघण्टाम् आदाय दक्षिणहस्तेन वज्रं सगर्वम् उल्ललयन् एवं वदे त्।
वज्रवाचाटक्कि हुं
जः जः जः।
स्वहृद्य् उत्कर्षणयोगेन
धारयेत्। टक्कि जः होः इति वदे त्।
तदनु शताक्षरेणदृढीकृत्य।
एतेन दशभूमीश्वरबोधिसत्त्वसदृशो भवति। तान् दृष्ट् वा सर्वपूजाम् प्रपूजयेत्।
ततः ताभिः सर्वाभिः
स्तुतिभिः सम्पूजयेत।्
नमस् ते शाक्यसिंहाय
धर्मचक्रप्रवर्तकः॥
त्रैधातुकं जगत्सर्वं
शोधवेत् सर्वदुर्गतिम्॥
नमस् ते वज्रोष्णीषाय
धर्मधातुस्वभावतः॥
सर्वसत्त्वहितार्थाय
आत्मतत्त्वप्रदर्शकः॥
नमस् ते रत्नोष्णीषाय
समतातत्त्वभावनैः॥
त्रैधातुकं स्थितं
सर्वम् अभिषेकप्रदायकः॥
नमस् ते पद्मोष्णीषाय
स्वभावप्रत्यवेक्षकः॥
आश्वासयति सत्त्वेषु
धर्मांऋतप्रवर्षणैः॥
नमस् ते विश्वोष्णीषाय
स्वभावकृत्यानुष्ठितः॥
विश्वकर्मकरो ह्य्
एषां सत्त्वानां दुःखशान्तये॥
नमस् ते तेजोष्णीषाय
त्रैधातुकम् अवभासयेत्॥
सर्वसत्त्वेष्व्
अपायेषु सत्यदृष्ट् वा करिष्यति॥
नमस् ते ध्वजोष्णीषाय
चिन्तामणिध्वजधरः॥
दानेन सर्वसत्त्वानां
सर्वाशा परिपूरयेत्॥
नमस् ते तीक्ष्णोष्णीषाय
क्लेशोपक्लेशछे दकः॥
चतुर्मारबलभग्नं
सत्त्वानां बोधिः प्राप्यते॥
नमस् ते छत्रोष्णीषाय
सितातपत्रशोभनम्॥
त्रैधातुकं जगत्सर्वं
धर्मराजत्वम् प्राप्यते॥
 
(२० )

ईस्या माला तथा


गीता नृत्या दे व्यश् चतुष्टयाः॥
पुष्पा धूपा च दीपा
च गन्धा दे वी नमोऽस्तु ते॥
द्वारमध्ये स्थिता
आवेशोऽंकुशः पाशस् स्फोटकः॥
श्रद्धाद्यभावनिर्जाता
द्वारपाला नमोऽस्तु ते॥
वेदिकादौ स्थिता
ये च चत्वरद्वारपार्श्वतः॥
मुदितादौ दशे स्थित्वा
बोधिसत्त्व नमऽस्तु ते॥
ब्रह्मेन्द्रौ रुद्रचन्द्राद्यैर्
ईकपालचतुर्दिशम्॥
अग्निराक्षसवायुश्
च भूताधिप नमोऽस्तु ते॥
अनेन स्तोत्रराजेन
संस्तुत्य मण्डलाग्रतः॥
वज्रघण्टाधरो मन्त्री
इदं स्तोत्रम् उदाहरेत्॥
पश्चाद् आत्मदे हेषु
आत्ममण्डं कल्पयेत्॥
एवं भावयमानां वै
मण्डलम् आदियोगतः॥
आदियोगनामसमाधिः।

ततो मण्डलराजाग्रीनाम
प्रवक्ष्यामि।
ॐ अकारो मुखं सर्वधर्मानाम्
आद्यनुत्पन्नत्वात्।
तदर्थाधिमोक्षतो
दशदिक्सर्वलोकधातुषोडशशून्यतम् अधिमुच्य शून्यताहंकारम् आत्मानं पश्येत्।
ततो हुंकारेण निष्पन्नवज्रेण
वायुमण्डलं तस्योपरि रंकरेणाग्निमण्डलं तस्योपरि वंकारेण महोदधिं तस्योपरि
कंकारेण
काञ्चनमण्डलं तद्मध्ये हुं सुं हुं इति।
तेन सुमेरुं चतुरस्रं
रत्नमयं सर्वरत्नविभूषितं निष्पाद्य। ॐ वज्र दृधेत्यादिना वज्रबन्धेनाधितिष्ठेत्।
तस्योपरि
वज्रहेतुकर्ममुद्रया भूक
ं ार-
सितनिष्पन्नवज्रमणिरत्नशिखरकूटागारम्।
चतुरस्रं चतुर्द्वारं
चतुस्तोरणभूषितम्॥
चतुष्कोणेषु सर्वेषु
द्वारनिर्यूहसंधिषु॥
चन्द्रार्क वज्रचिह्नितं
हारार्धहाररचितम्॥
चतुस्सूत्रसमायुक्तं
पटस्रग्दामभूषितम्॥
अभ्यन्तरमण्डलम्
अष्टारचक्रं वज्रावलीपरिवृतम्।
तस्य नाभोपरि सिंहासनं
तस्योपरि चन्द्रमण्डलम्।
चक्राष्टारमध्येषु
चन्द्रं अण्डलं दे वतास्थानम्।
 
(२१ )

बाह्यमण्डलस्य दे वतास्थानं
पटिकायाम् अष्टाविंशतिचन्द्रमण्डलं
पश्येत्। सिंहासनोपरि
चन्द्रमण्डले। अकारादिककाराद्यक्षरप्रज्ञोपायस्वरूपं
द्रवीभूतम् आकाशस्फरणक
समाधिसमापन्नं बोधिचित्तस्वरूपेण सत्त्वार्थहेतस
ु म्पन्नमन्त्ररूपं भवति।
 ॐ मुने मुने महामुनये स्वाहा।
 अनेन मन्त्रेण श्रीशाक्यसिंहराजनिष्पन्नो भवति।
सर्वनीवारणं नाम
समाधिसमापन्नः।
ततस् समाधिसमापन्नो
बुद्धो भगवान् तस्य मुद्रामन्त्रम् उदाहरेत्।
वज्रमुष्टिद्वयं
बद्ध्वा परिपाट्या विकासयेत्॥
मुद्रेयं धर्मचक्रस्य
सर्वसंसारछे दनी॥
तद्यथेति दृष्टान्तः।
यथा पद्मेषु आसक्ता
भ्रमराद्या विबन्धिताः॥
तथा पद्मविकासेन
विबन्धा दुःखमोचिताः॥
तथैव दुःखसंसारे
विबन्धास् त्रिभवे गतौ॥
एवं विबन्धा मुच्यन्ते
शाक्यसिंहकृपात्मनः॥
ततश् शाक्यमुनेर्
हृदयेऽकारेण चन्द्रमण्डलम्।
ततश् चन्द्रमण्डले
सर्वासां मन्त्राणि निष्पाद्यन्ते। वज्रोष्णीषम्
आरभ्य यावद् वज्रावेशपर्यन्तं
भावयेत।्
ततो मन्त्राणि भवन्ति।
ॐ नमस् सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।
ॐ शोधने शोधने सर्वपापविशोधने
शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा। इदं मन्त्रम् उदाहरेत्।
 
(२२ )

अथातः संप्रवक्षामि
परिपाट्या यथाक्रमम्।
ॐ वज्र हुं फट् ।

निश्चार्य मुखद्वारेण
निर्गत्य पञ्चश्स्मिकम्॥
समन्ततो दशसु दिक्ष्व्
अवभास्य सर्वसत्त्वानाम्॥
दुःखस्यान्तं करिष्यति
पुनर् आगत्य रश्मीनाम्॥
प्रविश्य हृदये
ततः॥
मन्त्ररश्मिद्वयं
मील्य निष्पन्नरूपसम्भवम्॥
अभ्यन्तरमण्डलस्य
चक्रारे पूर्वदिशि पद्मचन्द्रस्थः॥
वज्रोष्णीषस् तथागतो
हृदयद् अवतीर्य निषीदे त॥
हितार्थतः।
शुक्लवर्णप्रभादिव्यो
मुद्राभूस्पर्ससंस्थितः॥
एवं रश्मिस्फरणसंहारपूर्वोक्तेन
सर्वशः॥
स्फरणसंहारयोगेन
मन्त्ररश्मिनिमिलनम्॥
बिम्बनिष्पत्तिसंपूर्णहृदयाद्
अवतीर्य च॥
निषीदे त यथास्थाने
दक्षिणारेषु सुस्थितः॥
ॐ रत्नोत्तम त्रं
उत्सृजेत्।
 
पद्मस्थचन्द्रमध्येषु
रत्नोष्णीषस् तथागतः॥
अवतीर्य हृदयाद्
बुद्धत्लक्षणैः समलंकृतः॥
नीलवर्णस्वभावं
तु मुद्रेयं वरदस्य तु॥
त्रैधातुकम् अशेषं
तु सर्वसत्त्वाभिषेकदः॥
पूर्ववत् स्फरणसंहारं
बिम्बोत्पत्तिक्रमेण च॥
ॐ पद्मोत्तम ह्रीः
उत्सृजेत्।
ततः पश्चिमारस्थपद्मोपरि
चन्द्रमण्डले॥
रश्मिबीजेन निष्पन्नः
पद्मोष्णीषस् तथागतः॥
हृदयाद् निर्गतो
भूत्वा निषीदे द ् अनुशासकः॥
पद्मरागप्रभादिव्यो
ध्यानमुद्राव्यवस्थितः॥
ॐ विश्वोत्तम अः
उत्सृजेत्।
उत्तरे चक्र आरस्थपद्मोपरीन्दुमण्डले॥

अवतीर्य हृदयाद्
बुद्धो विश्वोष्णीषस् तथागतः॥
हरितवर्णप्रभाज्वाल्वो
मुद्रा चास्याभयप्रदः॥
विश्वकर्मकरो बुद्धः
सत्त्वान् संसाराद् उत्तरेत्॥
 
(२३ )

ओंकारेणोत्सृजेद ्
बुद्धस् तेजोष्णीषस् तथागतः॥
आग्नेयारे स्थितः
सम्यक् पद्मस्थचन्द्रमण्डले॥
सव्येन सूर्यं संगृह्य
वामहस्ते कटिस्थितः॥
शितरक्तकवर्णाभस्
त्रैधातुकम् आभासयेत्॥
हुंकारबीजसंजातो
ध्वजोष्णीषस् तथागतः॥
उत्सृजेद ् हृदयातीर्णो
नैरत्ृ यारे निषण्णकः॥
पद्मस्थचन्द्रबिम्बे
च रक्तक्ऱ्ष्णकवर्णिकः॥
चिन्तामणिध्वजं
धार्य सत्त्वमात्सर्यशोधकः॥
धीःकारबीजनिष्पन्नस्
तीक्ष्णोष्णीषस् तथागतः॥
क्लेशोपक्लेशान्
संछेद्य वायव्यारे च उत्सृजेत्॥
पद्मचन्द्रे निषीदे श्
च मुद्रास्य खड् गदक्षिणः॥
गगनवर्णनिभकायो
वामे पुस्तकधारिणः॥
क्रींकारबीजनिर्जातश्
छत्रोष्णीषस् तथागतः॥
धर्मस्वामी च सत्त्वानाम्
ईशानारे च उत्सृजेत्॥
कुन्दे न्दुवर्णसन्निभो
मुद्रेयं छत्रधारिणः।
सर्वे ते विश्वपद्मस्था
निषण्णाश् चन्द्रमण्डले॥
हुं त्रां ह्रीः
अः।
तेन मन्त्रेण उच्चार्य
हृदयाद् उत्सृजन्ति च॥
चतुर्षु कोणस्थानेषु
पद्मस्थचन्द्रमण्डले॥
लास्यादिदे व्यश्
चतस्रः कुलवर्णकधारिण्यः॥
सितं पीतं रक्तं
विश्ववर्णकम्॥
तेषां मुद्रा विधीयते
यथोक्तितम्॥
तेनैव मन्त्रम्
उच्चार्य उत्सृजेद ् हृदयाद् अपि॥
धूपादिदे व्यश् चतस्रः
पद्मस्थचन्द्रमण्डले॥
चतुर्षु कोणसर्वेषु
वर्णकुलक्रमेण तु॥
ॐ सर्वसंस्कारपरिशुद्धे
धर्मते गगनसमुद्गते
स्वभावविशुद्धे
महानयपरिवारे स्वाहा। 
मन्त्रेण उत्सृजेत्
पूर्वद्वारपार्श्वद्वये स्थिताः॥
मैत्रेयादिचतुष्कस्य
पद्मस्थचन्द्रमण्डले॥
सत्त्वपर्यंकिनः
सर्वे मुद्रावर्णक्रमेण तु॥
पीतवर्णप्रभादिव्यो
नागपुष्पकदक्षिणे॥
वामेन कुण्डिकां
गृह्य मैत्रीचित्तविशुद्धितः॥
द्वितीयोऽमोघदर्शी
तु पीतवर्णप्रभोज्वलः॥
वामहस्तकटिन्यस्तो
दक्षिणपद्मनेत्रकः॥
 
(२४ )

तृतीयो बोधिसत्त्वश्
च नाम्नापायजहस्य च॥
श्वेतवर्णप्रभाज्वलो
मुद्रा अंकुशधारिणः॥
चतुर्थः सर्वशोकतमनिर्घातानमतिस्
तथा॥
सितपीतमिश्रवर्णाभो
मुद्रा दण्डधारिणः॥
वाममुष्टिकटिन्यस्तः
सत्त्वपर्यंकिना स्थितः॥
चत्वारो बोधिसत्त्वाश्
च दक्षिणद्वारे प्रतिष्ठिताः॥
प्रथमो गन्धहस्ती
च सितश्यामश् च वर्णकः॥
मुद्रेयं दक्षिणहस्ते
गन्धशंखं प्रपूरितम्॥
वामहस्तकटिन्यस्तः
सर्वावरणशोधनः॥
द्वितीयो शूरंगमो
नाम सर्वक्लेशप्रमोचकः॥
स्फटिकवर्णप्रभादिव्यो
मुद्रेयं खड् गधारिणः॥
वामहस्तकटिन्यस्तः
सत्त्वानां दुःखशन्तकः॥
तृतीयः गगनगञ्जः
सर्वाभरणभूषितः॥
सितपीतमिश्रवर्णभः
सर्वावरणवर्जीतः॥
मुद्रेयं दक्षिणहस्ते
पद्मस्थधर्मगञ्जतः॥
वामहस्तकटिन्यस्तः
सर्वाकाशधनधरः॥
चतुर्थो ज्ञानकेतुश्
च सर्वाशापरिपूरकः॥
नीलवर्णकसंकाशश्
चिन्तामणिध्वजधरः॥
वाममुष्टिकटिन्यस्तः
दारिद्रदुःखमोचकः॥
पश्चिमद्वार आसीनः
पद्मस्थचन्द्रमण्डले॥
प्रथमम् अमृतप्रभश्
चन्द्रवर्णविराजितः॥
अमृतकलशं संधार्य
मुकुटं रत्नपाणिना॥
वाममुष्टिकटिन्यस्तो
विस्तीर्णम् आयुर्दायकः॥
द्वितीयश् चन्द्रप्रभो
नामाज्ञानतमध्वंसकः॥
शुक्लवर्णतनुदिव्यो
मुद्रा दक्षिणपाणिना॥
पद्मस्थचन्द्रबिम्बं
तु वाममुष्टिकटिस्थितः॥
 
(२५ )

तृतीयो भद्रपालेति
सितरक्तं तु वर्णिकः॥
सर्वधर्मप्रकाशको
मुद्रा दक्षिणपाणिना॥
ज्वलितरत्नं संधार्य
वाममुष्टिकटिस्थितः॥
चतुर्थो बोधिसत्त्वश्
च जालिनीप्रभसंज्ञितः॥
रक्तवर्णप्रभादिव्यो
वज्रपञ्जरधारिणः॥
प्रथमबुद्धपुत्रस्
तु वज्रगर्भेतिनामतः॥
सितनीलवर्णसंयक्त ु ो
मुद्रा दक्षिणपाणिना॥
उत्पलं वज्रसंयक्त
ु ं
वाममुष्टिकटिस्थितः॥
द्वितीयो अक्षयो
नाम मतिर् अन्तेषु संस्थितः॥
कुन्दे न्दुवर्णसंकाशो
मुद्राहस्तद्वयेन तु॥
ज्ञानकलशं संधार्य
सर्वसत्त्वान् प्रपीनयेत्॥
तृतीयो बुद्धपुत्रश्
च प्रतिभाकूटसंज्ञिरः॥
रक्तवर्णप्रभाज्वालो
मुद्रा दक्षिणपाणिना॥
पद्मस्थरत्नकूटं
तु वाममुष्टिकटिस्थितः॥
चतुर्थो बोधिसत्त्वश्
च समन्तभद्रनामतः॥
सुवर्णवर्णसंकाशो
मुद्रा दक्षिणपाणिना॥
रत्नमञ्जरिकास्दिव्यं
वाममुष्टिकटिस्थितः॥
एवं रूपेण संयुक्ता
बोधिसत्त्वकृपात्मनः॥
मण्डलराजाग्री नामसमाधिः।

 
(२६ )

ॐ मुने मुने महामुनये


स्वाहा।
ॐ नमस् सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।
ॐ शोधने शोधने सर्वपापविशोधने
शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा।
अनेन मन्त्रेण श्रीशाक्यसिंहराजप्रमुखसप्तत्रिंशद्दे वतापरिपूर्णं
भावयेत।्
ततः पश्चाद् ज्ञानमण्डलम्
आकर्षयेत्।
द्वारोद्घाटनं कृत्वा
मन्त्रमुद्रासमायुतः॥
वज्रमुष्टिद्वयं
बद्ध्वा तर्जनी द्वे प्रसारयेत्॥

You might also like