You are on page 1of 12

12/3/22, 4:32 PM

KST Search...

शिवरात्रि
zivarAtri

Shabda Sagara

शिवरात्रि
f. (-त्रिः) A celebrated festival held in honour of ŚIVA on the
fourteenth of the moon's wane or dark-fortnight in Māgha.
E. शिव, and रात्रि night.

Yates

शिव-रात्रि (त्रिः) 2.
f. See शिव-चतुर्दशी.

Wilson

शिवरात्रि
f. (-त्रिः) A celebrated festival in honour of ŚIVA on the
fourteenth of the moon's wane or dark fortnight in Māgha.
E. शिव, and रात्रि night.

Monier Williams Cologne

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 1/12
12/3/22, 4:32 PM

a form of Durgā (= महा-काली), Hcat.

शिव॑—रात्रि f. ‘Śiva's night’, N. of a popular fast and festival in


honour of Śiva (kept on the 14th of the dark half of the month
Māgha or January-February with many solemn ceremonies,
observed during the day and night cf. शिव-चतुर्दशी), Rājat.; RTL.
90; 428

Kalpadruma

शिवरात्रिः
, स्त्री, (शिवप्रिया रात्रिः ।) शिव- चतुर्द्दशी । यथा, कालमाधवीये स्कान्दे
नागर- खण्डम् । “माघमासस्य शेषे या प्रथमे फाल्गुणस्य च । कृ ष्णा
चतुर्द्दशी सा तु शिवरात्रिः प्रकीर्त्तिता ॥”
अत्रैकस्यास्तिथेर्म्माघीयत्वफाल्गुनीयत्वे मुख्य- गौणवृत्तिभ्यां अविरुद्धे ।
ततस्तु माघ्यनन्तरा चतुर्द्दशी शिवरात्रिः तस्यामुपवासः प्रधानम् । “न न
स्नानेन न वस्त्रेन न धूपेन न चार्च्चया । तुष्यामि न तथा पुष्पैर्यथा
तत्रोपवासतः ॥” इति शङ्करोक्तेः ॥ * ॥ स्कान्दे । “ततो रात्रौ प्रकर्त्तव्यं
शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥” अत्र वीप्सया
प्रहरचतुष्टयसाध्यं व्रतं प्रतीयते नरसिंहाचार्य्यधृतेश्वरसंहितायाम् । “शैवो
वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्व्वं पूजाफलं हन्ति
शिवरात्रिबहिर्म्म खः ॥ * ॥ संवत्सरप्रदीपे । “दुग्धेन प्रथमं स्नानं दध्ना
चैव द्वितीयके । तृतीये च तथाज्येन चतुर्थे मधुना तथा ॥”
ईशानसंहितायाम् । “माघे कृ ष्णचतुर्द्दश्यां रविवारो यदा भवेत् । भौमो वापि
भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥ शिवयोगस्य यौगेन तद्भवेदुत्तमोत्तमम् ।
शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् । आचाण्डालमनुष्याणां
भुक्तिमुक्तिप्रदायकम् ॥” नागरखण्डे । “उपवासप्रभावेण बलादपि च
जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान्लभते
लोकान् शिवसायुज्यमाप्नुयात् ॥” पाद्मे । “वर्षे वर्षे महादेवि नरो नारी

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 2/12
12/3/22, 4:32 PM

पतिव्रता । शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥” ईश्वानसंहितायाम्


“एवमेव व्रतं कु र्य्यात् प्रति संवत्सरं व्रती । द्वादशाब्दिकमेतद्धि
चतुर्व्विंशाब्दिकं तथा । सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥”
हेमाद्रिधृता स्मृतिः । “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥”
प्रदोषमाह वत्सः । “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥”
ऊर्द्ध्वमनन्तरम् । वायुपुराणे । “त्रयोदश्यस्तगे सूर्य्ये चतसृष्वपि नाडिषु ।
भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत् ॥” ईशानसंहितायाम् । “माघे
कृ ष्णचतुर्द्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोद्भूतः
कोटिसूर्य्यसमप्रभः ॥ तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः ।
अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्द्दशी ॥ व्याप्ता सा दृश्यते यस्यां तस्यां
कु र्य्यात् व्रतं नरः ॥” अत्र । “महानिशा द्वे घटिके रात्रर्मध्यमयामयोः ॥”
इति देवलोक्ता महानिशा ग्राह्या ॥ घटिका एकदण्डः । एवञ्च यद्दिने
प्रदोषनिशिथो- भयव्यापिनी चतुर्दशी तद्दिने व्रतं उभय- व्याप्त्यनुरोधात् ।
कालमाधवीयेऽप्येवम् । एतेन परदिने उभयव्यापित्वेऽपि
पूर्व्वदिवसीयरात्रि- द्वितीययामप्रभृतिचतुर्दशीसत्त्वे बहुप्रहरव्या- पित्वेन
पूर्व्वदिन एव व्रतमिति निरस्तम् । यदा तु पूर्व्वेद्युर्निशीथमात्रव्याप्तिः
परेद्युः प्रदोष- मात्रव्याप्तिस्तदा पूर्व्वेद्युर्व्रतम् । प्रधानकाल-
व्याप्त्यनुरोधात् । “पूर्व्वेद्युरपरेद्युर्व्वा महानिशि चतुर्दशी । व्याप्ता सा
दृश्यते यस्यां तस्यां कु र्य्याद्व्रतं नरः ॥” इतीशानसंहितावचनाच्च ॥
एतद्विषय एव भविष्यपुराणम् । “अर्द्धरात्रात् पुरस्तात्तु जयायोगो
भवेद्यदि । पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः ॥” विष्णुधर्म्मोत्तरे
। “जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते । कृ त्वोपवासं तिथ्यन्ते तदा
कु र्य्याच्च पारणम् ॥” तिथ्यन्ते पारणं जयन्तीमात्रपरं अत्र चतुर्दश्या- मेव
तत् । “ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै पूजितानि भवन्तीह
भूतायां पारणे कृ ते ॥” इति स्कान्दात् । “दिनमानप्रमाणेन या तु रात्रौ
चतुर्द्दशी । शिवरात्रिस्त सा ज्ञेया चतुर्दश्यान्तु पारणम् ॥” इति
गौतमीयाच्च । यदा तु पूर्व्वदिने न निशीथव्याप्तिः परदिने
प्रदोषमात्रव्यापिनी तदा परा ग्राह्या । प्रदोष- व्यापिनीति प्रागुक्तत्वात्
तिथेस्त्रिसन्ध्यव्यापि- त्वाच्च । एतद्विषय एव लिङ्गपुराणम्
“शिवरात्रिन्रते भूतां कामविद्धां विवर्जयेत् । एके नैवोपवासेन ब्रह्महत्यां

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 3/12
12/3/22, 4:32 PM

व्यपोहति ॥” अत्रामावास्यायामेव पारणम् । “शिवा घोरा तथा प्रेता सावित्री


च चतु- र्दशी । कु हूयुक्तैव कर्त्तव्या कु ह्वामेव हि पारणम् ॥” इति वचनात्
॥ * ॥ तदयं संक्षेपः । यद्दिने प्रदोषनिशीथोभय- व्यापिनी चतुर्दशी तद्दिने
व्रतम् । यदा तु पूव्व- द्युर्निशीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा
पूर्व्वेद्युर्व्रतम् । यदा तु न पूर्व्वेद्युर्निशीथ- व्याप्तिः परेद्युः प्रदोष
व्यापिनींतदा परदिने । पारणन्तु परदिने चतुर्दशीलाभे चतुर्दश्यां तद- लाभे
अमावस्यायाम् । तत्र प्रयोगः ॥ * ॥ प्रातरुदङ्मुखः तत् सदित्युच्चार्य्य
सूर्य्यः सोम इति पठित्वा जलादीन्यादाय सङ्कल्पयेत् । “मन्त्रेणानेन
गृह्नीयान्नियमं भक्तिमान्नरः । शिवरात्रिव्रतं ह्येतत् करिष्येऽहं
महाफलम् । निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ॥” इति
शिवरहस्यात् शिवरात्रि इत्यादिना- नियम्य । “चतुर्दश्यां निराहारो भूत्वा
शम्भो परेऽहनि भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥” इति
गरुडपुराणीयं पठे त् । रात्रौ प्रथमप्रहरे प्रतिष्ठिते लिङ्गे अप्रतिष्ठिते वा
प्रतिष्ठां विधाय पूजां कु र्य्यात् । हौँ अस्त्राय फडिति पादघातत्रयेण
विघ्नान्निःसार्य्य तेनैव तालत्रयेण करच्छोटिकया च दशदिग्बन्धनं कृ त्वा
भूतशुद्धिं विधाय हां हृदयाय नम इत्या- दिना षडङ्गानि न्यस्य हौँ इति
मन्त्रेण प्राणा- यामं विधाय पूजयेत् । पार्थिवलिङ्गे चेत्तदा
वक्ष्यमाणपूजाविधिना पूजयेत् । तत्रायं विशेषः हौँ ईशानाय नम इति
प्रथमप्रहरे दुग्धेन स्नापयित्वा पुनर्जलेन स्नापयित्वा । “शिवरात्रिव्रतं देव
पूजाजपपरायणः । करोमि विधिवद्दत्तं गृहाणार्घ्यं महेश्वर ॥” इत्यनेनार्घ्यं
दत्त्वा गन्धादिभिः संपूज्यमूलमन्त्र जपित्वा प्रणम्य गीतनृत्यादिभिस्तं
प्रहरं नयेत् ॥ “तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् ।
उपवासकृ तौ ह्येते गुणाः प्रोक्ता मनीषिभिः ॥” इति देवीपुराणे सामान्यतः
श्रवणात् अत्रापि तथा ॥ * ॥ द्वितीयप्रहरे तु विशेषः । हौँ अघोराय नम इति
दध्ना स्नानम् । अर्घ्यमन्त्रस्तु ॥ “नमः शिवाय शान्ताय सर्व्वपापहराय च
। शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमयां सह ॥” * ॥ तृतीयप्रहरे तु । हौँ
वामदेवाय नम इति घृतेन स्नानम् । अर्घ्यमन्त्रस्तु । “दुःखदारिद्य्नशोके न
दग्धोऽहं पार्व्वतीश्वर । शिवरात्रौ ददाम्यर्घ्यमुमाकान्त गृहाण मे ॥ * ॥
चतुर्थप्रहरे तु । हौँ सद्योजाताय नम इति मधुना स्नानम् । अर्घ्यमन्त्रस्तु ।
“मया कृ तान्यनेकानि पापानि हर शङ्कर । शिवरात्रौ ददाम्यर्घ्यं उमाकान्त

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 4/12
12/3/22, 4:32 PM

गृहाण मे ॥” ततो नमः शिवाय इति मूलमन्त्रं जपित्वा प्रभातेऽविघ्नेन


इत्यादिवक्ष्यमानमन्त्रान् पठे त् ॥ तथा च गरुडपुराणम् । “मूलमन्त्रं ततो
जप्त्वा प्रभाते तत् समापयेत् । अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम्
॥ क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर । यन्मयाद्य कृ तं पुण्यं तद्रुद्रस्य
निवेदितम् ॥ त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् । प्रसन्नो भव मे
श्रीमन् मद्भूतिं प्रतिपद्यताम् । त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः
॥” परदिने ब्राह्मणान् भोजयित्वा चतुर्दशीलाभे तत्र तदलाभे अमावस्यायां
पारणं कु र्य्यात् । तत्र मन्त्रः । “संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥” * ॥ तत्र
पार्थिवशिवलिङ्गपूजाविधिः । तत्र शिव- वाक्यं स्कान्दे । “विप्रस्य तु
सदैवाहं शुचेरप्यशुचेरपि । गृह्वन् वलिं प्रहृष्यामि विप्राणामिव दर्शनात् ॥
वलिं पूजाम् । तथा, “शूद्रः कर्म्माणि यो नित्यं स्वीयानि कु रुते प्रिये ।
तस्याहमर्च्चां गृह्वामि चन्द्रखण्डविभूषिते ॥” तथा, “नमोऽन्तेन शिवेनैव
स्त्रीणां पूजा विधीयते ॥” एवकारेण प्रणवनिवृत्तिः । एवं शूद्रस्यापि । तथा
नृसिंहतापनीये । “सावित्रों प्रणवं यजु- र्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं
प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् स मृतोऽधो गच्छति इति ।”
नेच्छन्ति पर्य्यन्तं पराशरभाष्येऽपि लिखितम् । गोविन्दभट्ट- धृतम् ।
“स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः । शूद्रो निरयमाप्नोति ब्राह्मणः
शूद्रतामियात् ॥” गौतमः । “रात्रावुदङ्मुखः कु र्य्यात् दैवकार्य्यं सदैव हि ।
शिवार्च्चनं सदाप्येवं शुचिः कु र्य्यादुदङ्मुखः ॥” सदा दिवारात्रौ । अत्र
हेतुमाह रुद्रयामले । “न प्राचीमग्रतः शम्भोर्नोदीचीं शक्ति- संस्थिताम् । न
प्रतीचीं यतः पृष्ठमतो दक्षं समाश्रयेत् ॥” यजमानः शम्भोः
प्राचीमवस्थितये न समा- श्रयेत् शम्भोर्जगत्संहारकस्याग्रतः सांमुख्यात्
पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्यवस्थितम् ॥ एकवक्त्रपक्षे सुतरां तथा ।
तद्रूपमाह भविष्य- पुराणम् । “सौम्यं मौलीन्दुभृत् त्र्यक्षं एकवक्त्रं
चतुर्भुजम् शिवरूपं गृहे कु र्य्यात् प्रासादे वाप्यनिन्दितम् ॥ अत्राग्रे
पुजानिषेधात् देवाग्रे स्वस्य चाप्यग्रे प्राची प्रोक्ता गुरुक्रमैः । इत्यस्य न
विषयः । किन्त्वभिधानादिप्रसिद्धा प्राची ग्राह्या । एत-
दनुसाराद्वक्ष्यमाणपूर्व्वाद्याग्नेय्यन्तपूजा । अत- एव तन्त्रान्तरम् ।
“यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति । तथा पुरः

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 5/12
12/3/22, 4:32 PM

पूजकपूज्ययोश्च सदागमज्ञाः प्रवदन्ति तान्तु ॥” एवञ्च देवतान्तरपूजा


पूर्व्वाह्वे प्राङ्मुखेन सायं पपिमाभिमुखेन रात्राबुदङ्मुखेन कार्य्या ।
“प्राक्पश्चिमोदगास्यस्तु प्रातः सायं निशासु च ॥” इति वचनात् ॥ इति
वाचस्पतिमिश्राः । मैवं पूजा रत्नाकरोक्त-
भविष्यपुराणीयसप्ताक्षरसूर्य्यमन्त्रप्रस्ताव एव
प्रागादिदिङ्नियमाभिधानात् । व्यवहारोऽपि अत्र न तथेति ॥ * ॥
लिङ्गपुराणे । “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि
महादेवो न स्यात्तस्य फलप्रदः । तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि
त्रिपुण्ड्रकम् ॥ नन्दिपुराणे । “आयुष्मान् बलवान् श्रीमान् पुत्त्रवान् धन-
वान् सुखी । वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समार्च्चयेत् । तस्मात्तु
पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥” भविष्ये । “मृद्भस्मगोशकृ त्पिण्डं
ताम्रकांस्यमयं तथा । कृ त्वा लिङ्गं सकृ त् पूज्य वसेत् कल्पायुतं दिवि ॥
वार्क्षं वित्तप्रदं लिङ्गं स्फाटिकं सर्वकामदम् । नर्म्मदागिरिजं
श्रेष्ठमन्यदपि हि लिङ्गवत् ॥” लिङ्गवत् लिङ्गाकारम् । कालकौमुद्याम्
। “अक्षादल्पपरीमाणं न लिङ्गं कु त्रचिन्नरः । कु र्व्वीताङ्गुष्ठतो ह्रस्वं न
कदाचित् समाचरेत् ॥ अक्षोऽशीतिरक्तिका । अङ्गुष्ठतः बृहत्पर्व्व-
ग्रन्थितः । “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते । तत्र तत्र
बृहत्पर्व्वग्रन्थिभिर्मिनुयात् सदा ॥” इति छन्दोगपरिशिष्टात् ॥ शिवधर्म्मे
। “सहस्रमर्च्चयेल्लिङ्गं निरयं स न गच्छति । रुद्र्लोकमवाप्नोति भुक्त्वा
भोगाननुत्तमान् ॥” तथा । “वालुकानि च लिङ्गानि सहस्राणि च कारयेत्
सहस्रमर्च्चनात् सोऽपि लभते वाञ्छितं फलम् ॥”
ततश्चामुकतिथावारभ्यामुकलाभकामः सहस्र-
मितपार्थिवशिवलिङ्गपूजनमिति यथास्थाने वाक्ये देयम् ॥ * ॥
ब्रह्मपुराणे । “यावन्न दीयते चार्घ्यं भास्कराय निवेदितम् । तावन्न
पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥” राघवभट्टधृतम् । “सर्व्वत्रैव
प्रशस्तोऽब्जः शिवसूर्य्यार्च्चनं विना ॥” अब्जः शङ्खः । अग्निपुराणे ।
“तल्लिङ्गैः पूजयेन्मन्त्रैः सर्व्वदेवान् पृथक् पृथक् । ध्यात्वा प्रणवपूर्वन्तु
तन्नाम्ना सुसमाहितः । नमस्कारेण मन्त्रेण पुष्पाणि विन्यसेत् पृथक् ॥”
देवीपुराणे । “मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च । स्नपनं पूजनञ्चैव
विसर्ज्जनमतः परम् ॥ हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् । पशुपतिः

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 6/12
12/3/22, 4:32 PM

शिवश्चैव महादेव इति क्रमात् ॥” अत्र पूर्व्वोक्तसप्तकर्म्माणि


परवचनोक्तसप्त- नामभिः क्रियानुरूपविभक्तिमद्भिर्यथायथं कार्य्याणि ।
अदृष्टार्थयोरर्थक्रमासम्भवेन पांठ- क्रमादेव आवाहनात् प्राक् प्रतिष्ठा श्राद्ध
कु शासनदानवत् ॥ * ॥ तत्रानुष्ठानम् । हराय नम इति मृदाहरणम् ।
महेश्वराय नम इति संघट्टनम् । शूलपाणे इह सुप्रतिष्ठितो भव इति
प्रतिष्ठा । ध्यायेन्नित्यमित्यादिना ध्यात्वा पिनाक घृक् इहागच्छ
इत्याद्यावाहनम् । पशुपतये नम इति स्नपनम् । एतत् पाद्यं नमः
शिवाय नम एवमर्घ्यादिना पूजयेत् । विसर्ज्जनात् पूर्व्वं भविष्यपुराणोक्तं
स्वभावसिद्धप्राच्यैशान्यादि- दिक्षु वामावर्त्तेन पूजनम् । यथा । सर्वाय
क्षितिमूर्त्तये नमः । भवाय जलमूर्त्तये नमः । रुद्राय अग्निमूर्त्तये नमः ।
उग्राय वायुमूर्त्तये नमः । भीमाय आकाशमूर्त्तये नमः । पशुपतये
यजमानमूर्त्तये नमः । महादेवाय सोममूर्त्तये नमः । ईशानाय सूर्य्यमूर्त्तये
नमः । “मूर्त्तयोऽष्ठौ शिवस्यैताः पूर्वादिक्रमयोगतः । आग्ने य्यन्ताः
प्रपूज्यास्ता वेद्यां लिङ्गे शिवं यजेत् ॥” ततो महादेव क्षमस्व इति
संहारमुद्रया विस- र्ज्जयेत् ॥ * ॥ नन्दिपुराणे ।
“गोभूतिलहिरण्यादिवलिपुष्पनिवेदने । ज्ञेयो नमः शिवायेति मन्त्रः
सर्व्वार्थसाघकः ॥ सर्व्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः ।
तन्मन्त्रजापी तत्कर्म्मरतस्तद्गतमानसः । निष्कामः पुरुषो राजन् स
रुद्रपदमश्नुते ॥” भविष्ये पञ्चाक्षरमुपक्रम्य । “अपवित्रः पवित्रो वा
सर्वावस्थां गतोऽपिवा । महापातकयुक्तो वा मन्त्रस्यास्य जपे यथा ।
अधिकारी भवेत् सर्व्व इति देवोऽब्रवीच्छिवः ॥” इति तथेत्यर्थः ॥
पूर्व्वोक्तयथापदानुरोधात् । तेन यथाधिकारी भवेत्तथाब्रवीदित्यर्थः । तथा,
“सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः । पतन्तं त्रायते यस्मादतीव
नरकार्णवात् ॥ शिवमुद्दिश्य यद्दत्तं सर्व्व कारणकारणम् । तदनन्तफलं
दातुर्भवतीह किमद्भुतम् ॥ दत्त्वा नैवेद्यवस्त्रादि नाददीत कदाचन ।
त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥” आदाने ग्रहणे । शिवधर्मे ।
“तस्मात् पुष्पैः फलैः पत्रैस्तोयैरपि च यत्फलम् तदनन्तफलं ज्ञेयं
भक्तिरेवात्र कारणम् ॥” भविष्ये । “लिङ्गानुलेपनं कार्य्यं दिव्यगन्धैः
सुगन्धिभिः । वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥” शिवधर्म्मे ।
“तस्मात् पुष्पप्रदानेन लिङ्गेषु प्रतिमासु च । अशीतिवर्षकोटीनां दुर्गतिं न

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 7/12
12/3/22, 4:32 PM

नरो व्रजेत् ॥” स्कान्दे । “शुष्काण्यपि च पत्राणि श्रीवृक्षस्य सदैव हि ॥”


दातव्यानीति शेषः । भविष्ये । “धुस्तूरकै श्च यो लिङ्गं सकृ त् पूजयते नरः
। स गोलक्षफलं प्राप्य शिवलोके महीयते ॥ विल्वपत्रैरखण्डैश्च यो लिङ्गं
पूजयेत् सकृ त् । सर्व्वपापैर्विनिर्मुक्तः शिवलोके महीयते ॥” तंथा ।
“सर्व्वकामप्रदं विल्वं दारिद्रस्य प्रणाशनम् । विल्वपत्रात् परं नास्ति येन
तुष्यति शङ्करः ॥” तथा । “के शकीटापबिद्धानि निशि पर्य्युषितानि च ।
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥” तथा । “देवदारुममेतञ्च
सर्ज्जश्रीवासकु न्दुरुम् । श्रीफलं चाज्यमिश्रन्तु दत्त्वाप्नोति परां गतिम्”
सर्ज्जः शालरसः । श्रीवासः सरलद्रवः । कु न्दुरुः शैलेयम् । “एभ्यः
सौगन्धिकं धूपं षट्सहस्रगुणोत्तरम् । अगुरुं शतसाहस्रं
द्विगुणञ्चासितागुरुम् । गुग्गुलुं घृतसंयुक्तं साक्षात् गृह्वाति शङ्करः ॥”
तथा । “तैलेनापि हि यो दद्यात् घृताभावेन मानवः । तेन दीपप्रदानेन
शिववद्राजते भुवि ॥” नन्दिके श्वरे । “अथ भक्त्या शिवं पूज्य
नैवेद्यमुपकल्पयेत् । यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ॥”
शालितण्डु लप्रस्थस्य कु र्य्यादन्नं सुसंस्कृ तम् । शिवाय तं चरुं दद्यात्
चतुर्दश्यां विशेषतः ॥” प्रस्थमानं प्रागुक्तम् । शिवसर्व्वस्वे स्कान्दम् ।
एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् । वर्षाणामयुतं भोगैः क्रीडते स
शिवे पुरे ॥ एकं मोचाफलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं तथाभोगैः
शिवलोके महीयते ॥” शिवपुराणे । “नैवेद्यं घृतसंयुक्तं मधुपर्कं निवेदयेत्
। अग्निष्टोमस्य यज्ञस्य फलमाप्नोति मानवः ॥” शिवसर्व्वस्वे स्कान्दम्
। “परिपक्वं सुसंमृष्टमाज्यसिक्तं सुसंस्कृ तम् । शिवाय मांसं दत्त्वा तुंशृणु
यत् फलमाप्नुयात् ॥ अशेषफलदानेन यत् फलं परिकीर्त्तितम् । तत् फलं
प्राप्नु यान्नित्यं सर्व्वं मांसनिवेदनात् ॥” शिवधर्म्मे । “लिङ्गवेदी भवेद्देवी
लिङ्गं साक्षात् महेश्वरः । तयोः संपूजनात् स्यातां देवी देवश्च पूजितौ ॥”
देवीपुराणे । “सव्यं व्रजेत्ततोऽसव्यं प्रणालं नैव लङ्घयेत् । एकीभूतमना
रुद्रे यः कु र्य्यात् त्रिः प्रदक्षिणम् ॥ छिन्नस्तेन भवग्रन्थिर्न तस्य पुनरुद्भवः
॥” भविष्ये । “जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृ त्वा प्रणामं
देवेशे सर्व्वान् कामानवाप्नुयात् ॥” लिङ्गपुराणे ।
“गन्धपुष्पनमस्कारैर्मुखवाद्यैश्च सर्व्वशः । यो मामर्च्चयते तत्र तदा
तुष्याम्यहं सदा ॥” महाभारते । “सर्व्वलक्षणहीनोऽपि युक्तो वा

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 8/12
12/3/22, 4:32 PM

सर्व्वपातकैः । सर्व्वं तरति तत् पापं भावयन् शिवमात्मना । राघवभट्टधृतम्


। “अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् । क्षिप्त्वाङ्गुलीरङ्गुलीभिः
संगृह्य परिवर्त्तयेत् । प्रोक्ता संहारमुद्रेयमर्पणे तु प्रशस्यते ॥” अर्पणे
आत्मनीति शेषः । स्कान्दे । “निर्म्माल्यं यो हि मद्भक्त्या शिरसा धारयि-
ष्यति । अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ॥ नरके पच्यते घोरे
तिर्य्यग्योनौ च जायते । ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत्
तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥” शुचिः स्नानादिनेति शेषः ।
एवञ्च । “स्पृष्ट्वा रुद्रस्य निर्म्माल्यं सवासा आप्लुतः शुचिः ॥” इति
कालिकापुराणीयमशुचिविषयम् ॥ अनुपनीतविषयमिति श्रीदत्तः ।
बह्वृचगृह्य- परिशिष्टम् । “अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥ कालिकापुराणे । “यो
यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः । के वलं सौरशैवे तु वैष्णवो नैव
भक्षयेत् ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ अन्यच्च । ब्रह्मोवाच ।
“शिवरात्रिव्रतं वक्ष्ये कथाञ्च सर्व्वकामदाम् । यथा च गौरी भूतेशं पृच्छति
स्म परं व्रतम् ॥ श्रीमहादेव उवाच । माघफाल्गुनयोर्म्मध्ये या च कृ ष्णा
चतुर्दशी । तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ कामयुक्तो हरः
पूज्यो द्वादश्यामेव के शवः । उपोषितैः पूजितः सन्नरकात्तारयेत्तथा ॥
निषादश्चार्व्वुदे राजा पापी सुन्दरसेनकः । स कु क्कु रैकसंयुक्तो मृगान् हन्तुं
वनं गतः ॥ मृगादिकमसंप्राप्य क्षुत्पिपामार्दितो गिरौ । रात्रौ तडागतीरे स
निकु ञ्जे जाग्रदास्थितः ॥ तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः ।
पर्णानि चापतन्मूर्द्ध्नि लिङ्गस्यैवं न जानतः ॥ तेन धूलिनिरोधाय क्षिप्तं
नीरञ्च लिङ्गके । शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥
जानुभ्यामवनीं गत्वा लिङ्गं स्पृष्ट्वा गृहीतवान् एवं स्नानं स्पर्शनञ्च
पूजनं जागरोऽभवत् ॥ प्रातर्गृहागतो भार्य्यादत्तान्नं भुक्तवान् स च । काले
मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ तदा मम गणैर्युद्धे जित्वा मुक्तीकृ तः
स च । कु क्कु रेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥ एवमज्ञानतः पुण्यं
ज्ञानात् पुण्यमथाक्षयम् । त्रयोदश्यां शिवं पूज्य कु र्य्यात्तन्नियमं व्रती ॥
प्रातर्देव चतुर्द्दश्यां जागरिष्याम्यहं निशि । पूजां दानं जपं होमं
करिष्याम्यात्मशक्तितः ॥ चतुर्द्दश्यां निराहारो भूत्वा शम्भो परेऽहनि ।
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ पञ्चगव्यामृतैः स्नात्वा

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 9/12
12/3/22, 4:32 PM

अन्तकाले गुरुं श्रितः । ॐ नमो नमः शिवाय गन्धाद्यैः पूजयेद्धरम् ॥


तिलतण्डु लव्रीहींश्च जुहुयात् स्वशृतं चरुम् । हुत्वा पूर्णाहुतिं दद्यात्
शृणुयाद्गीतसत्कथाम् ॥ अर्द्धरात्रे त्रियामे च चतुर्थे च पुनर्यजेत् । मूलमन्त्रं
तथा जप्त्वा प्रभाते च क्षमापयेत् ॥ अविघ्नेन व्रतं देव त्वत्प्रसादात्
समर्पितम् । क्षमस्व जगतां नाथ त्रैलोक्याधिपते शिव ॥ यन्मयाद्य कृ तं
पुण्यं तच्छिवस्य निवेदितम् । त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ॥
प्रसन्नो भव मे श्रीमन् मद्गृहं प्रतिगम्यताम् । तदालोकनमात्रेण
पवित्रोऽस्मि न संशयः । भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ॥
देवादिदेव भूतेश लोकानुग्रहकारक । यन्मया श्रद्धया दत्तं प्रीयतां तेन मे
प्रभुः ॥ इति क्षमाप्य च यतीन् कु र्य्यात् द्वादशवार्षिकम्
कीर्त्तिश्रीपुत्त्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ॥ द्वादशस्वपि मासेषु
प्रकु र्य्यादिह जागरम् । यतीन् द्वादश संपूज्य दीपदः स्वर्गमाप्नुयात् ॥”
इति गारुडे शिवरात्रिव्रतकथा १२४ अध्यायः ॥

Vachaspatyam

शिवरात्रि
स्त्री शिवप्रिया तदुपासनार्था रात्रिः । माघातः परस्यां कृ ष्णचतुर्दश्याम् ।
तद्रात्रौ हि शिव पूजनव्रता- दिकं क्रियते इति तस्या रात्रेस्तत्प्रियत्वम् । २
तद्दिव- सकर्त्तव्येव्रते च । तद्विधानकालादि ति० त० उक्तं यथा
कालमाधवीये स्कान्दे नागरखण्डम् “माघमासस्य शेषे या प्रथमे
फालगुनस्य च । कृ ष्णा चतुर्दशी सा तु शिवरात्रिः प्रकीर्त्तिता” ।
अत्रैकस्यास्तिथे- मांघीयत्वफाल्गुनीयत्वे मुख्यगौणवृत्तिभ्याम् अविरुद्धे ।
ततस्तु माघ्यनन्तरा चतुर्दशी शिवरात्रिः । अस्यामुप- वासः प्रधानम् “न

स्नानेन न वस्त्रेण न धूपन न चार्चया । तुष्यामि न तथा पुष्पैर्यथा
तत्रोपवासतः इति शङ्करोक्तेः । स्कान्दे “ततो रात्रौ प्रकत्तंव्यं
शिवप्रोणनतत्परैः । प्रहरे प्रहरे स्नानं पूजा चैव विशेषतः” । अत्र वीप्सया
प्रहरचतुष्टयसाध्यं प्रती- यते । नरसिंहाचार्य्यधृतेश्वरसहितायाम् “शैवो वा
वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्वं पूजाफलं हन्ति

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 10/12
12/3/22, 4:32 PM

शिवरात्रिबहिर्मुखः” । संवत्सरपदीपे “दु- ग्धेन प्रथमे स्नानं दघ्ना चैव


द्वितीयके । तृतीये च तथाज्येन चतुर्थे मधुना तथा” । ईशानसंहितायाम्
“माघे कृ ष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमो वापि भवेद् देवि! कर्त्तव्यं
व्रतमुत्तमम् । शिवयोगस्य योगेन तद्भवेदुत्तमोत्तमम् । शिवरात्रिव्रतं नाम
सर्वषाप- प्रणाशनम् । आ चाण्डालात् मनुष्याणां भुक्तिमुक्तिप्रदाय- कम ।
नागरखण्डे “उपवासप्रभावेण बलादपि च जागरात् । शिवरात्रेस्तथा तस्य
लिङ्गस्यापि प्रपूजया । अक्षयान् लभते लोकान् शिवसायुज्यमाप्नुयात्” ।
पाद्मे “वर्ष वर्षे महादेवि! नरी नारी पततिव्रता । शिव- रात्रौ महादेवं काम
भक्त्या प्रपूजयेत्” । ईशानसंहि- तायाम् “एवमेव व्रतं कु र्य्यात् प्रतिसंवत्सरं
व्रती । द्वादशाव्दिकमेतद्धि चतुर्विंशाव्दिकं तथा सर्वान् कामानवाप्नाति
प्रेत्य चेह च मानवः” । हेमा- द्रिधृता स्मृतिः “प्रदोषव्यापिनी ग्राह्या
शिवरात्रिचतु- र्दर्शी । प्रदोषमाह वत्सः “प्रदोषोऽधग्रयादूर्द्ध्वं वदि-
काद्वयसिष्यते” । ऊर्द्ध्वमनन्तरम् । वायुपुराणे “त्रयोद- श्यस्तगे सूर्य्ये
चतसृष्वपि नाडषु । भूतावद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत्—” ।
ईशानसंहितायाम् “माघे कृ ष्णचतुर्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभ । तत्कालव्यापिनी ग्राह्या शिवरात्रि
प्रते तिथिः अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्दशी । व्याप्ता सा दृश्यते
यस्यां तस्यां कु र्य्यात् व्रतं नरः” । अत्र “महानिशा द्वे घटिके
रात्रेर्मध्यमयामयोः” इति देवलोक्ता महानिशा ग्राह्या । घटिका एकदण्डः ।
एवञ्च यद्दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तद्दिने व्रतम्
उभयव्याप्त्यनुराधात् । कालमाधवीयोऽप्येवम् । एतेन परदिने
उभयव्यापित्वेऽपि पूर्वदिवसीयरात्रिद्वितीय यामप्रभृतिचतुर्दशीसत्त्व
बहुप्रहरव्यापित्वेन पूर्वदिन एव व्रतभिति निरस्तम् यदा तु
पूर्वद्युर्निशीथमात्र व्याप्तिः परेद्युः गदाषमात्रव्याप्तिस्तदा पूर्वेद्युर्व्रतं
प्रधानः कालव्याप्त्यनुरोधात् । “पूर्वेद्युरपरेद्युर्वा महानिशि च- तुर्दशी ।
व्याप्ता सा दृश्यते यस्यां तस्यां कु र्य्यात् व्रत नरः”
इतीशानसंहितावचनाच्च । एतद्विषय एव भविष्यपु० “अर्द्धरात्रात्
पुरस्तात्तु जयायोगा भवेद् यदि । पूर्वविद्धैव कर्त्तव्या शिरात्रिः शिवप्रियैः” ।
विष्णु धर्मोत्तरे “जयन्ती शिवरात्रिश्च कार्य्य भद्रजयान्विते ।- कृ त्वोपवासं
तिथ्यन्ते तदा कु र्य्याच्च पारणम्” । तिथ्यन्ते- पारण जयन्तीमात्रपरं तत्र

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 11/12
12/3/22, 4:32 PM

चतुर्दश्यामेव तत् “व्रह्मा ण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै ।


पूजितानि- भवन्तीह भूतायां पारणे कृ ते” इति स्कान्दात् । “दिन
मानप्रमाणेन या तु रात्रौ चतुर्दशी । शिवरात्रिस्तु सा ज्ञेया चतुर्दश्यान्तु
पारणम्” इति गौतमीयाच्च । यदा त पूर्वदिने न निशीथव्याप्तिः परदिने
प्रदोषमात्र व्यापिनी तदा परा ग्राह्या प्रदोषव्यापिनीति प्रागुक्तत्वात्
तिथेस्त्रिसन्ध्यव्यापित्वाच्च । एतद्विषय एव लिङ्गपुरा- णम्
“शिवरात्रिव्रते भूतां कामविद्धां विर्जयेत् । एके नैवोपवासेन ब्रह्महत्यां
व्यापोहति” । अत्रामावस्याया- मेव पारणम् “शिवाऽघारा तथा पेता सावित्री
च च- तुर्दशी । कु हूयुक्तैव कर्त्तव्या कु ह्वामेव हि पारणम्” । इति वचनात्
। तदयं संक्षेपः । यद्दिने प्रदोषनिथीथो- भयव्यापिनी चतुर्दशी तद्दिने व्रतम्
। यदा तु पूर्वेद्युर्नि- शीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्वेद्यु-
र्वतम् । यदा तु न पूर्वेद्युर्निशोघव्याप्तिः परदिने प्र- दोषव्यापिनी तदा
परदिने । पारणन्तु परदिमे चतु- र्दशीलाभे चतुर्दश्यां, तदलाभे
अमावास्यायाम्” ति० त० रघु०

https://kosha.sanskrit.today/word/sa/zivarAtri/ml 12/12

You might also like