You are on page 1of 5

धर्मशास्त्रे गोष्ठीगतस्वास्थ्यस्य परिमलस्य च मूल्यम्

Dr. Surajit Banerjee


Assistant Professor in Sanskrit
Ramakrishna Mission Residential College (Autonomous)
Narendrapur, Kolkata.
surajitbanerjee84@gmail.com
Mob: 9830034533

विषयसारः- गोष्ठीजीवनमेव मनुष्यस्य स्वास्थ्यं परिमलञ्च बोधयति। स्वास्थ्यं सर्वथा शारीरिकीं स्थितिं सूचयति, परिमलः

परिवेशं संघटयति। गोष्ठीसदस्यरूपेण मनुष्य आत्मनः सामर्थ्यलब्धये स्वीयस्वास्थ्यं यथैव, तथैव च स्वीयपरिमलविषयिणीं

परिवेष्टनीञ्च विषयीकरोति। प्राचीनभारतीयशिक्षा एतदर्थं त्रिविधं शौचं प्रस्तौति – कायशौचं वाक् -शौचं मनःशौचञ्च। एतदर्थं

कायशौचम् आयुर्विज्ञानेन सह, वाक् -शौचं भाषाविज्ञानेन सह, एवञ्च मनःशौचं योगविज्ञानेन सह मनुष्यं योजयति।

एतत्त्रिविधशौचस्य मूल्यं भारतीयशिक्षायां यथा विद्यते, तथैव चास्योद्देश्यं परिमलव्यवस्थां सम्पृक्तां करोति। अनया शिक्षया

स्वास्थ्यविषये यथा सुबोधता आगच्छति परिमलविषये च तथा सचेतनता आगच्छति। यदा सचेतनतया सह सुबोधता

मिश्रीभवति तदानीमेकं नवीनं मूल्यमाविर्भवति। प्राचीनभारतीयशिक्षा गोष्ठीजीवननिर्माणाय एतादृशस्य मूल्यस्य लब्धये

स्वास्थ्यपरिमलयोः उपरि प्राधान्यमादधाति।

शब्दाङ्कू टाः - अभ्युदयः, संस्कारः, धर्म, शौचम्, गोष्ठीजीवनम्, मूल्यबोधः, परिमलः।

यतो हि मनुष्यो गोष्ठीं विना जीवितुं नैव शक्नोति, तर्हि गोष्ठ्यन्तरसहसम्पर्के ण गोष्ठीं निर्माय तत्रैव निवसति सः। तत

आत्मनः सामर्थ्यं कायमनोवाक्शौचैः साधयति, यत् सामर्थ्यं तस्यैव जनस्य वैयक्तिकम् अभ्युदयं सामाजिकाभ्युदयं च सृजति।

मनुष्यस्य आचरणेन या अशुद्धिर्जायते सा आभ्यन्तरभेदेन द्विविधा भवति। बाह्यशुद्धिस्तु स्नानादिभिः शरीरसंस्कारैर्भवति।

आभ्यन्तराशुद्धिस्तु मन आत्मानं च कलुषयति, तदर्थञ्च मानसिकसंस्कारै आत्मनः शुचितां सम्पादयति सनातनो मनुष्यः।

मनसः शुद्धिस्तु ज्ञानेनैव भवति, अद्भिश्च गात्रशुद्धिर्भवति1। कायशुद्धौ तु अहिंसादीनामाचरणमेव कर्तव्यम्। अन्नप्राशनात् प्राक्

1
“अद्भिः शदु ध्् यन्ति गात्राणि बद्धि
ु र्ज्ञानेन शदु ध्् यति। मनःशद्धि
ु रन्तःशौचम।् अहिसं या च भतू ात्मा मनः सत्येन शदु ध्् यतीति।”-
बौधायधर्मसत्रू म-् 1/8/1-3.
कोऽपि शिशुः अशुद्धो न भवति। यावदानुष्ठानिकतया प्रथमं भक्षणं जातं तदनन्तरमेव शिशोः अशुद्धिर्जायते। तदर्थं

दैहिकशुद्धिनिमित्तं शौचकर्मावलम्बनीयम्। कायशुद्ध्यर्थमादौ अद्भिः स्नानमेव विधेयम्। प्रत्यहं स्नात्वा शुचिर्नरो

देवर्षिपितृभ्यस्तर्पणं हरिहरादिदेवपूजनं सायं प्रातश्च समिद्धोमं कु र्यात् ब्रह्मचारी2। यद्यपि गौतमधर्मसूत्रे तु ब्रह्मचारीणां कृ ते

शुद्ध्यर्थं स्नानं तु निषिद्धं भवति। परन्तु अत्र स्नानमित्यनेन सुखस्नानविषयमेव बोध्यते। अतः शरीरशुद्धौ स्नानं करणीयं, न

दैहिकसौन्दर्यवृद्ध्यर्थमेव3। शिक्षाश्रमे तु ब्रह्मचारिधर्मम् अतिवाहयन् बालको न कदापि तैलादीना शिरःसहितदेहमर्दनं कु र्यात्,

कज्ज्वलादिभिश्च नयनद्वयं नैव रञ्जयेत्। यत एतानि निषिद्धानि कर्माणि तु मैथुनातिरिक्तविषयाभिलाषातिशयं वर्धयन्ति तर्हि

एतानि सयत्नेनैव विवर्जनीयानि। भक्ष्याभक्ष्यविचारेऽपि स सततं ब्रह्मचारिधर्ममेवानुस्मरन् कायिकशुद्धिमेव विदधेत्। अतो

मधुमदमांसानामेव शरीरोद्वेजकानामहितकराणां निषिद्धानां द्रव्याणां भोजनं नैव कदापि करणीयम्4। यस्य वागनृतादिभिरदूषिता

मनश्च रागद्वेषादिभिरदूषितञ्च भवति स सर्वज्ञत्वसर्वेशत्वादिरूपं मोक्षफलमेवाप्नोति। अतः कदापि मर्मपीडाकराणां वाक्यानां

प्रयोगो नैव करणीयः, यतः अनेन परस्य द्रोहः अपकारश्च भवतः5। तदर्थमेव वाक्दूषणमष्टादशव्यसनेषु स्थानं लभते। तीक्ष्णेन

अस्त्रेण शरीरस्य क्षतं जायते चेद् औषधादीनामवलेपनेन तस्य निरामयो भवेत्। परन्तु प्रयुक्तया तीक्ष्णया मर्मभेदीकरवाचा यः

क्षतो मनसि एवोत्पद्यते स पुनः प्रभूतस्तुत्यादिभिर्वाक्यैर्न पूर्यते। तादृशः क्षतः सार्वकालिकः। अतो न संरोहति वाक्क्षतम् 6।

अपरतः अभिवादनविषयेऽपि ब्रह्मचारिणा तथा यत्नो नेतव्यो येन ज्ञानवृद्धानाञ्च सम्मानहानिर्न स्यादिति। अभिवादनसमये

सर्वदा भो-भवत्-पूर्वके णाभिवादनेन न कस्यापि हीनत्वं भवति प्रकटितमपि च, श्रेष्ठस्य विद्यावत्ताया वयोजनिताभिज्ञतायाः चैव

कीर्तनं कीर्तितम्। अतो वृद्धाभिवादनशीलस्य वृद्धसेविनश्च जनस्य आयुप्रज्ञायशोबलानि चत्वारि सम्यक् प्रकर्षेण वर्द्ध्यन्ते7।

“ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम।्


वायःु कर्मार्क कलौ च शद्ध ु े कर्तृणि देहिनाम।् ।”-मनसु हि
ं ता-5/105.
2
मनसु ंहिता-2/176.
3
“नाप्सु श्लाघमानः स्नायात।् ”- बौधायनधर्मसत्रू म-् 1/2/38.
4
मनसु हि
ं ता-2/177, 5/6-36.
श्रीमद्भगवद्गीता-17/8-10.
5
मनसु ंहिता-2/161.
6
मनसु हिं ता-7/48.
7
तत्रैव-2/119-132.
अभिवादनसमये सर्वदा शालीनता एव रक्षणीया। अनयैव अभिवादनशैल्या योग्यतमस्योद्वर्तनमेव भवति येन सामाजिकस्थितिः

सिद्ध्यते।

मनसः वृत्त्यनुसारं शारीरिकवृत्तिर्भवति, तदनुसारञ्च फलमेव मनुष्य उपाश्नुते। अतो यथाविधेन सात्त्विके न राजसेन

तामसेन च चेतसा यत्कर्म स्नानदानयोग्यत्वमनुतिष्ठति तादृशेनैव शरीरेण सत्त्वरजतमसामाधिक्येन तत्तत्फलमेव भुङ्क्ते

मनुष्यः8। तदर्थमेव इन्द्रियसंयमः कार्यो येन मनश्च नियम्यते। धर्मसंकल्पमूलत्वात् इन्द्रियाणामेव प्रवृत्तिरुपजायते। इन्द्रियाणि तु

विषयैः साकं सततं संयुज्यते। अभ्युन्नतिकामिनो मनुष्या मनसा एव तान्येव इन्द्रियाणि सम्यक् नियम्य

मोक्षादिपुरुषार्थयोग्यतारूपां सिद्धिमेव लभन्ते9। श्रोत्रादीनि पञ्चकर्मेन्द्रियाणि एव अश्वतुल्यानि, तानि तु सदैव विषयमार्गपञ्चकं

प्रति धावन्ति। मन एव तत्र प्रग्रहस्वरूपः सन् विषयमार्गेभ्यः इन्द्रियाश्वानां स्वाभाविकगतिं निवर्तयति10। अतो जिते मनसि

उभावपि बुद्धीन्द्रियकर्मेन्द्रियगणौ जितौ भवतः। तदर्थमेव कर्मसंकल्पमूलस्य मनस एव आदौ नियमनमावश्यकं येन

कार्यसिद्धिरपि अनायासेनैव भवति। अतो मनसा कृ तं दुष्कृ तं सुकृ तं वा कर्म सुखदुःखरूपं फलं जनयित्वा इह जन्मनि

जन्मान्तरे वा मनसैव उपभुङ्क्ते । तद्वत् वाग्द्वारेण प्रयुक्तानां मधुरकर्क शभाषाणां शुभाशुभफलं वाचा एव भोक्तव्यः। शरीरद्वारेण

स्रक्चन्दनादिप्रियोपभोगव्याधित्वादिना शारीरं शुभाशुभफलमेव उपभुङ्क्ते मनुष्यः। ततो धर्मरहितानां

कायिकमानसिकवाचिकप्रयोगानामपराकरणमेव सयत्नेन कर्तव्यम्। शरीरजैः कर्मदोषैः मनुष्यः स्थावरत्वं प्राप्नोति। वाचिकैः

कर्मदौषैः स मृगत्वमेव प्राप्नोति। मानसिकैः कर्मदोषैश्च चाण्डालादित्वं लभते। अतः सदैव शरीरेण मनसा वाचा वा शौचम्

अवलम्बनीयम्। यः खलु बुद्ध्या वाङ्मनोशरीरकृ तदोषान् सयत्नेन अपाकरोति स्थिरसंकल्पः स ‘त्रिदण्डी’ इति अभिधया

8
“यादृशेन तु भावेन यद्यत्कर्म निषेवते।
तादृशेन शरीरे ण तत्तत्फलमपु ाश्नतु े।।”-मनसु हि ं ता-12/81.
9
“दृष्टिपतू ं न्यसेत् पादं वस्त्रपतू ं जलं पिबेत।्
सत्यपतू ां वदेद्वाचं मनःपतू ं समाचरे त।् ।” -6/46.
“आत्मानं रथिनं विद्धि शरीरं रथमेव तु
10

बद्धि
ु न्तु सारथिं विद्धि मनः प्रग्रहमेव च।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्
आत्मेन्द्रियमनोयक्त ु ं भोक्तेत्याहुर्मनीषिणः।।”- कठोपनिषत्-1/3/3--4.
अभिहितो भवति11। अनेनैव मनोवचनशरीरशौचनिष्ठपरिमलस्वास्थ्यविषये सदैव यथा सचेतनता तथा सुबोधता अवलम्बनीया

येन मूल्यं भवति प्रतिष्ठितम्।

सहायकग्रन्थसूची

Āpastamba. Āpastambadharmasūtram. Ed. U. Pandeya. Varanasi: Chaukhambha Sanskrit

Sansthan, 2016.

Ayer, P.S.S. Evolution of Hindu Moral Ideals. Delhi: Nag Publishers, 1976. Reprint, 1935.(1st

Ed.).

Banerjee, A. Philosophy and Principles of Education. Kolkata: B B Kundu Grand Sons, 2009

(Revised Ed.), 1988 (1st Ed.).

Banerjee, S.C. Society in Ancient India. New Delhi: Abhinav Publications, 1993.

Basham, A.L. The Wonder that was India. London: Sidgwick and Jackson, 1985 (rpt.).

1967(1st ed.).

Buch, M.A. The Principles of Hindu Ethics. Delhi: Bharatiya Kala Prakashan, 2003 (Rev.

ed.), 1921 (1st ed.).

Crowford, S.C. The Evolution of Hindu Ethical Ideals .Hawaii: University of Hawaii. 1982

(2nd Ed.).

Hiriyanna, M. Indian Conception of Value. Mysore: Kavyalaya Prakashan, 1975(Reprint).

Kane, P.V. History of Dharmaśāstra. Vol. II. Part 1. Pune: Bhandarkar Oriental Research

Institute, 1997 (3rd Ed.), 1941 (1st Ed.).

Kapani, L. The Philosophical Concept of Saṃskāra. Delhi: Motilal Banarsidass Publishers

Private Limited, 2013.

Maitra, S.K. The Ethics of the Hindus. Kolkata: University of Calcutta, 1956 (2nd Ed.).

11
मनसु ंहिता-12/8-10.
Manu. Manusamhitā. Ed. M. Banerjee. Kolkata: Sanskrit Pustak Bhandar, 2003.

Mess, G.H. Dharma and Society. Delhi: Gyan Publishing House, 1986 (e-book).

Olivelle, P. Dharmasūtra Paralles. New Delhi: Motilal Banarsidass Publishers Private

Limited, 2005.

Pandey, R. Hindu Saṃskāras- Socio Religious study of the Hindu Sacraments.Delhi: Motilal

Banarsidass Publishers Private Limited, 1969 (2nd Revised Ed.), 1949 (1st Ed.).

Speziale, A. The Ethical And Religious Values of ancient India. Calcutta: Sujan Publications,

1987.

Swain, B.K. Dharmaśāstra- A Link between Tradition and Modernity. Varanasi:

Chaukhambha Sanskrit Bhawan, 2003.

Swain, B.K. Smṛtimīmāṃsā. Delhi: Akshaya Prakashan, 2006.

You might also like