You are on page 1of 3

संस्कारशब्दार्थः-बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण–भूषण-

प्रशिक्षण-संस्कृ ति-स्वशुद्धिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्रयुक्तोऽयं


संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतया वर्णितम् । वेदान्तिनां मते
"देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य
व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु
मानवस्य कायिक–वाचिकपरिशुद्ध्यर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो
धर्मविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे
संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे । दोषापनोदनपूर्वकं गुणाधानमेव
संस्कार इति फलितम् ।

संस्कारभेदः-गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना


प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म,
नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, कर्णवेधनम्, चूडाकर्म, उपनयनम्
के शान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु के शान्तसंस्कारं विहायावशिष्टाः
द्वादशसंस्काराः स्वीकृ ताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण
के शान्तसंस्कारस्यान्तर्भावः कृ तः । बोधायनाचार्यैरपि सीमन्तोन्नयनानन्तरं
गर्भिण्याः सप्तमे मासि विष्णुबलिः इति कश्चन चतुर्थः संस्कारः कथ्यते । अपि च
ब्रह्मचारिणां वेदाध्ययनानन्तरं विवाहात् पूर्वं होतृ, शुक्रियं. उपनिषदं,गोदानं, सम्मितं
चेति पञ्च वेदव्रतानि संस्कारत्वेन निर्दिष्टानि वर्तन्ते । के शान्तः इति संस्कारस्तु
बोधायनाचार्यैः नोक्तः । तथा च उपनयनानन्तरं श्रवण्यां पौर्णमास्यां वेदोपाकरणं
अथवा वेदारम्भः इति संस्कारोऽपि विहितः । एवं च षोडशसंस्कारा भवन्ति ।

षोडशसंस्काराःसंस्कारशब्दः- सम् उपसर्गपूर्वकं 'कृ ञ्'धातुना घञ् प्रत्ययपूर्वकम्


स्म्स्कृ तभाषायां व्याकरणशास्त्रदृष्ट्या व्युत्पत्तिर्भवति । सम + कृ ञ् + घञ्, इति
संस्कारः । संस्कारशब्दस्य प्रयोगः बहुधा भवति । मीमांसादर्शने अस्य
संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना
भवति । अद्वैतवेदान्तिमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति ।
नैय्यायिकभावना अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते ।
मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति । संस्कारैः मनुष्यत्वं मानवता एवं
व्यक्तित्वविकासश्च भवति । भिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना दर्शिता वर्तते
। जन्मना मानवः अपूर्णः भवति । संस्कारैश्च तत्र पूर्णता आगच्छति ।
भारतीयग्रन्थपरम्परया प्रायः षोडशसंस्काराः करणीयाः इति अस्माकं भगवान्
बादरायणः अपि सूचयति । ते च इत्थं सन्ति

गर्भाधानसंस्कारः-सृष्ट्यां मानवः सर्वोत्कृ ष्टो मन्यते । तस्य जीवनस्य उद्देश्यम्


आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृ तो मानवो दिव्यज्ञानमर्जित्वा
आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते ।
संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । एते संस्कारा वस्तुतः
गर्भस्याधानादेव प्रारभन्ते । अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं
निर्दिशन्ति । प्रजननमपि मानवजीवनस्य् अङ्गभूतम् । धर्मशास्त्रानुसारम् अत्र
काऽप्यशुचिता नास्ति । अस्मिन् विषये मनुराह –

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।


कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः


द्विजातीनां गर्भाधानादिः शरीरसंस्कारः कर्तव्यः । यतोहि एष शरीरसंस्कारो न
के वलम् इहलोके परलोके चापि पुनाति । एवम् उक्तप्रकारेण गर्भाधानादिभिः
संस्कारकर्मभिः पापं शमं याति । गर्भाधानं परिभाषमाणो जैमिनिराह –

गर्भः सन्धार्यते येन कर्मणा तद् गर्भाधानमित्यनुगतार्थं कर्मनामधेयम् ।

शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते
तत् गर्भालम्भनं गर्भाधानं वेत्युच्यते –निषिक्तो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया ।

तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥

मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म निषेक् इत्यभ्यदधुः ।

पुंसवनसंस्कारः-गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वं सम्पादनहेतोः पुंसवननाम्नः


संस्कारः भवति । अत्र विभिन्नदेवानां प्रार्थना भवति । यया प्रार्थनया गर्भस्थशिशुः
पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत । अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं,
भगवतः विष्णोः पूजनं च कर्तव्यम् । येन कर्मणा पुमान् सूयते तत् पुंसवनम् ।
गर्भाधानस्य द्वितीये तृतीये वा मासि पुष्यानक्षत्रयुक्तायां तिथौ पुंसवनकर्म क्रियते ।
पुत्रजनननिमित्तं संस्कारः क्रियते । होमः औषधिसेवनञ्च परिपाल्यते

You might also like