You are on page 1of 1

​षोडशसंस्कारा-

संस्कारशब्दस्य अनेके समानार्थाः सन्ति । यथा - संस्करणं, परिष्करणं,


विमलीकरणं, विशुद्धीकरणम् इति । 'सम्' उपसर्गपूर्वकं , 'कृ ञ् करणे' इति धातुना
सह 'घञ्' इत्यस्य प्रत्ययस्य योजनोत्तरं 'सुट्'  योजिते संस्कारशब्दः निष्पद्यते ।
यथा मलिनवस्तु प्रक्षाल्य शुद्धं, पवित्रं च क्रियते, तथा च सुवर्णः अग्नौ तापयित्वा
शुद्धः क्रियते, तथैव संस्कारैः जन्मजन्मान्तरेभ्यः सञ्चिताः मलरूपिणः
निकृ ष्टकर्मसंस्काराः दूरीभवन्ति । अत एव हिन्दुमान्यतायां बालकस्य गर्भप्राप्तेः
प्राग्तः जन्मपर्यन्तं, ततः वृद्धे सति मृत्युपर्यन्तं संस्काराः आचर्यन्ते । उक्तं चास्ति
यत्,

ब्रह्मक्षत्रियविट्शुद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।

निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ।। (याज्ञवल्क्यस्मृतिः १.१०)अर्थात्,


गर्भाधानात् अन्त्येष्टिपर्यन्तं द्विजमात्राणां सर्वे संस्काराः वैदिकमन्त्रैः भवन्ति ।
संस्कारेभ्यः एव मनुष्यः द्विजत्वं प्राप्नोति इति ।

You might also like