You are on page 1of 37

RAGHUBANGSA RECHERS

रसिकशेखरो हि राजशेखरः काव्यमीमांसायाम ् एवमुवाद—

एकस्य तिष्ठति कवेर्गृह एव काव्य-

मन्यस्य गच्छति सहृ


ु द्भवनानि यावत ्।

न्यस्याविदग्धवदनेषु पदानि शश्वत ्

कस्यापि सञ्चरति विश्वकुतूहलीव॥ (चतुर्थेऽध्याये)

ऋते कालिदासात्तदिदं पद्यं स्तोकमिव च्युतार्थकतां यायात ्। यतः किलेदं कालिदासं


तथा वर्णयति यथा नान्यं कमपि। अजपालस्तु बालपक्वः कश्चन मितम्पचमतिः
कालीदे व्यनग्र
ु हे ण महाकविरभदि
ू ति खलु जनश्रति
ु ः। अविदग्धा एव जनाः कथयानया
कालिदासमात्मसात्कर्तुमीषुः। कवयस्तर्हि किमकार्षुः। उच्यते सायणार्येण—

पदवीं कालिदासस्य ललितां मद


ृ ल
ु ैः पदै ः।

न शक्नव
ु न्त्यहो गन्तंु पश्यन्तोऽपि कवीश्वराः॥ (सभ
ु ाषितसध
ु ानिधौ)

एतावानस्य महिमा कविकुलतिलकस्य। तदास्ताम ्। सम्प्रति रघुवंशमहाकाव्यं


यथाप्रज्ञं विमश्ृ यते॥

रघव
ु ंशस्य वैशिष्ट्यम ्

श्रूयते हि किञ्चन प्राचीनं वचनम ् “क इह रघुकारे न रमते” इति। इदं


सदक्ति
ु कर्णामत
ृ नामनि सुभाषितसङ्ग्रहे पठ्यते। सति मेघदत
ू े, सति कुमारसम्भवे,
सत्यभिज्ञानशाकुन्तले किमिति रघुवंशनामग्राहं गह
ृ ीतः कालिदास इति प्रश्नः
समुदियात ्। अत्रेदं समाधानम ् उत्पश्यामो यद्रघुवंशं कालिदासस्य परिणतप्रज्ञायाः
फलम ्। तेन च काव्येन कविकुलगरुु ः प्रसिद्धेः परां कोटिमाटीकत। रघवु ंशस्य बहुविधं
वैशिष्ट्यं विलसति। इदमेव कालिदासवाङ्मये बंहिष्ठं काव्यम ्; अस्मिन्नेव
प्रकृतिसुभगाः सूक्ष्मपरिशीलनशीलिता उपमालङ्काराः सन्ति सङ्ख्यातिगाः, यैरेव
प्रायेण “उपमा कालिदासस्य” इति वचनं सहे तक
ु माविरभत
ू ्; इदमेव कविकुलगरु ोः
सर्वतोमुखं पाण्डित्यं परिचाययति;
अस्मिन्नेव श्रुतिपेशलानि नूतनानि च्छन्दांसि रथोद्धता-द्रत
ु विलम्बितप्रमख
ु ानि
प्राथम्येन प्रयक्
ु तानि; अस्मिन्नेव पद्यं तद्वर्तते येन कविरयं “दीपशिखा कालिदासः”
इति प्रशस्तिं भेजे; इदमेव च समग्रां भारतीयां संस्कृतिं प्रतिनिधत्ते
चेत्यलमतिविस्तरे ण॥

गुप्तराजैः पालिते स्वर्णयुगे भारतं राष्ट्रं सर्वाङ्गीणया सम्पदा शुशुभ इति


पुरातत्त्वविदो वदन्ति। तस्मिन्नेव युगे लब्धजन्मा कालिदासस्तत्रत्यां सर्वामपि
विच्छित्तिं निजकाव्येषु निचिक्षेप। तस्माद्यदि वयं कालिदासनिर्मिताः कृतीः
सश्रद्धमधीयीमहि, त्रिविक्रमोन्नतः कलशोदधिगम्भीरश्च महिमा भारतवर्षस्य
निर्विचिकित्समेव नः सम्भवेदपरोक्षः॥

रघुवंशं किञ्चन महाकाव्यमित्यवोचाम। महाकाव्ये तावत ् सामान्यत एक एव नायको


भवतीत्यालङ्कारिकाः। किन्तु रघव
ु ंशमिति नाम्नैव स्फारीभवति यदस्मिन्ननेकेषां
नायकानां कथाः कथिता इति। कथमत्र समन्वय इति पच्
ृ छायां वदति विश्वनाथः
साहित्यदर्पणे महाकाव्यलक्षणं व्याचक्षाणः—

सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः॥

सद्वंशः क्षत्त्रियो वापि धीरोदात्तगुणान्वितः।

एकवंशभवा भप
ू ाः कुलजा बहवोऽपि वा॥ (६.३१५,३१६)

तस्माद्रघुवंशव्यतिरिक्तं महाकाव्यलक्षणं नूनमसमर्पकं मन्वानाः


काव्यलक्षणविधातारस्तत ् पर्यस्कार्षुरित्यवसीयते। उदारः कल्पः॥

रघव
ु ंशमहाकाव्ये तावदे कोनविंशतिसङ्ख्याकाः सर्गाः सन्ति। दिलीपमारभ्य
अग्निवर्णपर्यन्तमनेकेषां राज्ञां वत्ृ तान्ता इह वर्णिताः। अत्रत्या कथा तु प्रधानतः
कालिदासेन श्रीमद्रामायणादद
ु धारि। अत्र दशमसर्गम ् आरभ्य पञ्चदशं सर्गं
यावद्भगवतः श्रीरामस्य चरितं चित्रितम ्। दशमसर्गात ् पर्व
ू वर्तिषु सर्गेषु रामपर्व
ू जानां
कथा उपवर्णिताः। पञ्चादशादत्ु तरे षु च सर्गेषु रामावरजानां वत्ृ तान्ताः कथिताः॥
काव्यारम्भ एव प्रतिपिपादयिषितस्य वस्तुनः प्रगल्भतां तद्वर्णने च
निजामनधिकारितां तथा पर्व
ू सरि
ू विषयां स्वाधमर्णतां वक्ति विनयधनः कविः।
तद्यथा—

क्व सर्य
ू प्रभवो वंशः क्व चाल्पविषया मतिः।

तितीर्षुर्दुस्तरं मोहादड
ु ु पेनास्मि सागरम ्॥

मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम ्।

प्रांशुलभ्ये फले लोभादद्


ु बाहुरिव वामनः॥

अथ वा कृतवाग्द्वारे वंशेऽस्मिन ् पूर्वसूरिभिः।

मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥ (१.२–४)

एतावता ह्यात्मानमवसादयति कालिदास इति न खलु चिन्तनीयम ्। यतः स


काव्यमर्मज्ञैः सहृदयैः स्वकृतिविमर्शः क्रियतामिति विना भीरुतामभ्यर्थयते।
रघुवंशमिदं काव्यं तेन जातरूपसरूपमुच्यते। यथा—

तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहे तवः।

हे म्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा॥ (१.१०)

काव्योपनिषदमौचितीं ध्यायन ् कालिदासः सुतरां भगवता वल्मीकभुवा यत्र हस्तक्षेपो


न कृतस्तत्रैव स्वप्रतिभां प्रसारयामास। तस्य कथनक्रमे कश्चन वागर्थविस्मयः
शुम्भति। समासव्यासयोरुभयोरपि मर्म जानता कविकुलगुरुणा दिलीप-रघु-अज-
प्रमख
ु ानां महीपानां कथासु व्यासत्वं, तथा वंशानुक्रमसञ्ज्ञितेऽष्टादशे सर्गे
समासत्वमुपाश्रितम ्। इत्थमेव या कथा श्रीमद्रामायणे पञ्चसु काण्डेषु वर्णिता सा
रघुवंशस्य द्वादशे सर्ग

एकस्मिन्नेव सङ्क्षिप्ता, यश्च पुष्पकविमानयानप्रसङ्गो नातिदीर्घः प्राचेतसेन


समप
ु स्थापितः स एव कालिदासेन त्रयोदशे सर्गे सविस्तरं व्यावर्णितः॥
महाकाव्यं नाम तत्तादृशमेव यदनेकवर्णनाभिः समुपत
े मिति काव्यशास्त्रसमयः। तमेनं
समयं चक्षुषी निमील्य नितरामनध
ु ावद्भिः कवभिः स्वकृतिषु वर्णनापरम्पराः
सरीसज्
ृ यन्ते। परमत्र साहित्यप्रणेतभि
ृ रौचित्यलग्नमानसैस्तथा रसैकलक्ष्यैः सर्वथा
भवितव्यमिति युक्ताभिधायी तत्र भवानानन्दवर्धनः प्राह—

सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया।

न तु केवलया शास्त्रस्थितिसम्पादनेच्छया॥ (ध्वन्यालोकः, ३.१२)

रघव
ु ंशे तावन्नैकापि वर्णना पात्रस्य वा घटनायाः समचि
ु तविभावत्वेन जातचि
ु दपि न
पर्यवस्यतीति सम्प्रतिपद्यामहे वयम ्। उक्तं चेदं कुन्तकेन वक्रोक्तिजीवितस्य
चतुर्थोन्मेषे रघुवंशगतं दशरथमग
ृ याप्रकरणं तथा कुशजलक्रीडाप्रकरणं विमश
ृ ता।
तद्यथा—

स्वल्पोऽपि वाच्यविशेषः सविशेषविस्फारितः


समुद्घाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्त्या वितन्यमानः
कमपि वक्रिमाणमासादयति। यथा रघुवंशे मग
ृ याप्रकरणे। अत्र हि
तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा
स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्यशक्यप्रतिपादनोऽप्ययमर्थः पुनः
परमार्थसरससरस्वतीसर्वस्यायमानप्रतिभाविधानकुशलेन कविना तादृश्या
प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति॥ (४.७–८)

प्रबन्धेषु जलकेलिकुसम
ु ापचयप्रभति
ृ प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं
निधानमिव कमनीयसम्पदः सम्पद्यते। यथा रघव
ु ंशे ...
जलक्रीडास्पर्शानन्तरलक्षितत्वादखिलमदविकलललना-
विलासमूलाध्यास्यमानोत्सवाकुलस्य
कुमद
ु कन्याकन्दक
ु क्रीडालक्षणमत्ु सवान्तरमत्ु तरकथोपकार्युपपद्यते
तद्विदामाह्लादमावहति च॥ (४.९)

इतिवत्ृ तनावीन्यं प्रबन्धध्वनिश्च

परु
ु षार्थचतष्ु टयप्रतिपादकं महाकाव्यं हि रघव
ु ंशम ्। अत्र किञ्चिदनितरसाधारणम ्
इतिवत्ृ तनावीन्यं दृश्यते। दिलीपवत्ृ तान्ते, कौत्सप्रसङ्गे, इन्दम
ु तीस्वयंवरवत्ृ तान्ते,
अयोध्यानगराधिदे वीविलापे, अतिथिराजनीतिप्रसङ्गे, अग्निवर्णलाम्पट्यवत्ृ तान्ते च
नावीन्यमन्यादृशं राजति। अङ्गलि
ु मेया एव संस्कृतकवयः सन्ति स्वोपज्ञतया
परमयेदृश्या संवलिताः। अतः स्थाने खलु कालिदासस्य प्रथिता प्रशस्तिः। एवमेव
रघुवंशे किञ्चिद्विलक्षणं नाट्यायमानत्वं परिलक्ष्यते यदन्येषु महाकाव्येषु दष्ु प्रापम ्।
तथा च कालिदासेन सष्ृ टानि पात्राणि सर्वाणि प्रातिस्विकवैशिष्ट्येन सहृदयानां
मनस्सु चिररात्रमवतिष्ठन्ते। दिलीपस्य त्यागशीलता सत्त्वसमद्धि
ृ श्च, रघोः
प्रकृतिमहितं शौर्यं वदान्यत्वं च, अजस्य निर्व्याजं प्रेम, दशरथस्य पुनरसमीक्ष्यकारिता
पत्र
ु प्रीतिश्च, रामस्य निसर्गवत्सलता विष्वगद
ु ात्तता च, कुशस्य चारित्र्यशद्धि
ु ः, अतिथेः
सुव्यक्तं राजनीतिनैपुण्यम ्, अग्निवर्णस्य निर्निबन्धं लाम्पट्यं चेत्येतदखिलं
वज्रलेपायते भावक
ु मनोभित्तिषु। इमानि च पात्राणि यथास्वं गुणकर्मसम्पदा यान ्
प्रसङ्गान्नितरां सजीवानिव कुर्वन्ति, तान्निखिलानपि प्रत्यग्राः प्रकरणवक्रताः
प्रसाधयन्ति। इमाश्च प्रकरणवक्रताः काव्यस्य प्रबन्धध्वनिं परिपुष्णन्तीति हे म्नः
परमामोदः॥

ननु क एष प्रबन्धध्वनी रघुवंशस्य। उच्यते। यस्मिन्नन्ववाये पवित्रोर्जस्वलचरिताः


पार्थिवा दिलीपरघुरामप्रभत
ृ यो जनिं लेभिरे तस्मिन्नेव पुनरग्निवर्णमुखाः कुनप
ृ ा अपि
शक्यसम्भवाः। एवं दर्नि
ु वारं विधिविलसितम ्। नीचैर्गच्छत्यप
ु रि च दशा
चक्रनेमिक्रमेण। कालः पचति भूतानि। तस्मात ् सर्वमिदं विचार्य सुचिरं शान्त्यै मनो
दीयताम ्। इयं शान्तिः सुखविमुखा न, प्रत्युत धर्माविरुद्धकामसमुल्लासिता। तदिदं
जीवनदर्शनं दिलीपनप
ृ सम्बद्धेन श्लोकद्वयेन सञ्जग्राह कालिदासः। तद्यथा—

जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।

अगध्
ृ नुराददे सोर्थमसक्तः सुखमन्वभूत ्॥

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः।

गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव॥ (१.२१,२२)

एवञ्च कालिदासः काव्यादावेव रघव


ु ंशनायकानां गण
ु लक्षणचर्यादिकं विशदं निरूप्य
(१.५–८) काव्यान्तं यावत्तद्यथावत ् संविधत्ते। अयं प्रतिज्ञानिर्वाह इत्युच्यते। तथैव
कमपि दीर्घं वंशं वर्णयितुकामेन कविना तद्भव
एकैकोऽपि राजा न सामस्त्येन विशदयितुं शक्यः। अत एव रघुकारः
पार्थिवजीवनगतानि कानिचिदे व चेतश्चमत्कारकाणि प्रकरणानि सञ्चित्य समच्चि
ु त्य
च प्रस्तौतीत्यहो प्रतिभाप्राभवं कविकुलगुरोः।

सम्प्रति रघव
ु ंशस्य कानिचन ध्वनिकान्तिसमिद्धानि प्रकरणानि मीमांसामहे ॥

दिलीपप्रकरणम ्

आत्मजन्मसमुत्सुको दिलीपः सपत्नीकः सन ् गुरोराश्रमपदं जगाम। भगवान ् वसिष्ठः


सन्तानावष्टम्भकं कारणं कथयामास—शक्रमप
ु स्थाय पथि
ृ वीं प्रति यास्यता दिलीपेन
सद
ु क्षिणाम ् ऋतस्
ु नातां स्मरता मध्येमार्गं दिव्यधेनुः सुरभिर्न प्रदक्षिणीकृत्य वन्दिता।
अवज्ञयानया च कुपिता सुरभिस्तं शशापेति। प्रजननक्रियानिमित्तेन यः
पज्
ू यपज
ू ाव्यतिक्रमः कृतः स एव सन्तानविरोधी पर्यणंसीत ्। दिलीपस्य तावदाशयः
समुदार एव। अतः स न वाच्यः। परमद
ु ाराशयचोदितकर्मनिरतैरपि न
कदाचिदस्माभिः पज्
ू यपूजाव्यतिक्रमः कार्यः। तथा विहिते सति कर्मविपाकफलमवश्यं
भवत्यनभ
ु ोक्तव्यम ्। एवञ्च वियद्गङ्गामज्जनपरायणे नदति दिग्गजे न
सुरभिशापवाक्यानि दिलीपेन तत्सारथिना वा श्रुतानि। यद्यश्रोष्यत्तर्हि दिलीपः सर्वथा
शापप्रतियातनाय प्रायतिष्यत। लीलादर्ल
ु लिताद्भत
ु व्यसनिना विधिना परम ्
असाम्प्रतमाचरितम ्॥

नन्दिनीप्रकरणम ्

नन्दिनी तु सत्त्वपरीचिक्षिषया दिलीपं गौरीगुरोर्गह्वरं प्रति निनाय। तत्र च


मायाकल्पितपञ्चवक्त्रनखरै र्व्यापाद्यमानां तनंु स्वीयां नेत्रगतां नप
ृ स्य कृतवत्यह्नाय
मढ
ू ात्मनः। सिंहकृतं प्रलोभनशतं बधिरवदाकर्ण्य स्वात्मसमर्पणपुरःसरं मक्
ु तां धेनुं
प्रार्थयमानस्य दिलीपस्य निरुपमः स्थेमा। अनेन हि स्वार्थत्यागेन विना दःु सम्भवा
परमार्थसिद्धिरिति सच्
ू यते। अथ च गह
ु ान्तःसम्पन्नः सर्वोऽपि वत्ृ तान्तः प्रायेण
दिलीपान्तरङ्गघटितं चित्तवत्ति
ृ विपर्ययं पिशुनयति॥

कौत्सप्रकरणम ्

नातिदीर्घादनेहसः पर्वं
ू यः खल्वियाज विश्वजिता तं मत्ृ स्नापात्रमात्रावशिष्टविभवं रघंु
गुरुदक्षिणार्थी कौत्स उपससर्पेति रमणीयेयं प्रकरणवक्रता। राजराजेन सह योद्धुं
निश्चितवति राजनि कनकवष्ृ ट्या कोशागारः पूर्णतां गतः। निःस्पह
ृ े
साधनोपायशालिनि सति दातरि, तथा गध्
ृ नत
ु ारहिते सत्सङ्कल्पवति सति प्रतिग्रहीतरि
दे यं लीलयेव सेत्स्यतीति ध्वनितोऽर्थः। अर्थिकामादधिकप्रदातारं रघुं
गुरुप्रदे याधिकनिःस्पह
ृ ं कौत्सं च दर्शं दर्शं साकेतनिवासिनः सर्वे परमामवापर्मु
ु दमिति
कामनीयकस्य परा काष्ठा॥

अजविलापप्रकरणम ्

इन्दम
ु ती नु पतिंवरा रघोरात्मजमजं निजनाथं वव्रे। तदा च परिणयकौतुकमालिकां
तत्कण्ठे समर्पयामास। कुसम
ु सक
ु ु मारं तयोरनपायि दाम्पत्यम ्। एवं सति नभोमार्गेण
सञ्चरमाणस्य नारदस्य वीणामलम्भूष्णुः स्रक् ततः प्रच्युता सतीन्दम
ु त्यां पपात
जहार च तत्प्राणान ्। संयोगसाधनमेव दै वदर्वि
ु पाकाद्वियोगसाधनं च सम्भवेदिति
मथितोऽर्थः॥

सीतापरित्यागप्रकरणम ्

दशकण्ठनीतां सीतां पुनरानेतुं यः किल जानकीजानिः शतयोजनविस्तत


ृ मकूपारं
दस्
ु तरं ततार, यया सह सानरु ागं भाषमाणः पष्ु पकविमानस्थो गगनमार्गेण स्वनगरीं
प्रतिनिववत
ृ े, स प्रभुस्तामेव धरणीगर्भं विशन्तीं प्रतिरोद्धुं न शशाक। तथैव
निषादविद्धाण्डजदर्शनेन व्यथितो यः कविः पुलिन्दं शशाप स एव पत्या परित्यक्तां
सीतामवलोक्य भरताग्रजन्मने चुक्रोध। निजकाव्यनायकेन केनापि हे तुना कृतोऽपराधः
—अस्यामवस्थायां सीतासम्मख
ु ं तस्मिन्नीषदमर्षं प्रकटय्य, मनसा च
तस्मिन्नकम्पामनुकम्पां वहमानः, स्वयं च भूमितनयासङ्गोपनगौरवं स्वीचकार
भगवानादिकविः। वाल्मीकिवर्तनमिषेण निजान्तरङ्गभावः किमु प्रकटितः
कवितल्लजेन॥

अग्निवर्णप्रकरणम ्

“राजा प्रकृतिरञ्जनात ्” इति चिन्तयामासुः सर्वे रघुवंशभवा भूपाः। “अहमेव मतो


महीपतेः” इति सर्वाः प्रजाश्च व्यचिन्तयन ्। एवं सत्यग्निवर्णः कामलीलापरायणः
प्रकृतिकाङ्क्षितं दर्शनं मन्त्रिणां गौरवाद्गवाक्षावलम्बिना केवलेन चरणेन ददौ। न
जातु कामः कामानामुपभोग्येन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धत इति
परमार्थः॥
इत्थं रघुवंशस्य समष्टिरूपं विमर्शं परिसमाप्य सम्प्रति व्यष्टिरूपं विमर्शमारभामहे ।
अत्र पद्यानां प्रकरणानामपि चयनम ् अशोकवनिकान्यायमनध
ु ावति, तेषां स्वारस्यं तु
स्थालीपल
ु ाकन्यायमनुसरतीति बोध्यम ्॥

बहुव्रीहिसमासग्रथनम ्

कालिदासो हि साभिप्रायाणि विशेषणानि भय


ू स्तरामौचित्यसंस्कृतानि प्रयङ्
ु क्ते।
इमानि च रचयितुं स बहुव्रीहिसमासं बहुकृत्व उपयुनक्ति। बहुव्रीहिस्तु समासः
स्वयमन्यपदप्रधान इति कारणात्तस्मिन्निरपवादमिव ध्वनिप्रसक्तिः समस्ति, यतः
किल समासान्तर्गतपदे भ्यो भिन्न एवार्थस्तेन बोध्यते। तद्योगेन च लाघवं लघु
साधयितुं शक्यते।

एवं सति तेनोपनिबद्धानां पद्यानां शोभा समभिवर्धत इत्यत्र किं चित्रम ्। अस्य
तावदद
ु ाहरणानि परःसहस्रं लभ्यन्ते। दिङ्मात्रमत्र निर्दिश्यते यथा—

आफलोदयकर्मणाम ् (१.५), आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम ् (१.५८),


जायाप्रतिग्राहितगन्धमाल्याम ् (२.१), अन्तिकन्यस्तबलिप्रदीपाम ् (२.२४),
उपान्तसंमीलितलोचनः (३.२६), सरु द्विपास्फालनकर्क शाङ्गल
ु ौ (३.५५),
सुवर्णपङ्
ु खद्युतिरञ्जिताङ्गुलिम ् (३.६४), आकुमारकथोद्घातम ् (४.२०),
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम ् (४.५९), शार्ङ्गकूजितविज्ञेयप्रतियोधे (४.६२),
निःशेषविश्राणितकोशजातम ् (५.१), तीर्थप्रतिपादितर्द्धिः (५.१५),
शय्योत्तरच्छदविमर्दकृशाङ्गरागम ् (५.६५), प्रस्पन्दमानपरुषेतरतारम ् (५.६८),
पुरोपकण्ठोपवनाश्रयाणाम ् (६.९), आलोलपत्त्राभिहतद्विरे फम ् (६.१३),
प्रासादवातायनसंश्रितानाम ् (६.२४), सुराङ्गनाप्रार्थितयौवनश्रीः (६.२७),
अष्टादशद्वीपनिखातयूपः (६.३८), शरत्प्रमष्ृ टाम्बुधरोपरोधः (६.४४),
नाभिप्रविष्टाभरणप्रभेण (७.९), प्रम्लानबीजाङ्कुरकर्णपूरम ् (७.२७),
श्येननखाग्रकोटिव्यासक्तकेशानि (७.४६), केयूरकोटिक्षततालद
ु े शा (७.५०),
प्रतियोजयितव्यवल्लकीसमवस्थाम ् (८.४१), विरताभ्यन्तरषट्पदस्वनम ् (८.५५),
गतिविभ्रमसादनीरवा (८.५८), मनुदण्डधरान्वयम ् (९.३), जवतीव्रहया (९.१०),
सुरसमाजसमाक्रमणोचितः (९.२२), सुरभिगन्धपराजितकेसरम ् (९.३६),
भ्रमरसङ्क्रमितेक्षणवत्ृ तयः (९.५२), मस्
ु ताप्ररोहकवलावयवानक
ु ीर्णम ् (९.५९),
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम ् (१०.७), कुशलसंप्रश्नव्यञ्जितप्रीतये (१०.३४),
वेलासमासन्नशैलरन्ध्रानुनादिना (१०.३५), पौरदृष्टिकृतमार्गतोरणौ (११.५),
तीव्रवेगधत
ु मार्गवक्ष
ृ या (११.१३), श्रोणिलम्बिपरु
ु षान्त्रमेखलाम ् (११.१७),
शिष्यवर्गपरिकल्पितार्हणम ् (११.२३), विद्रत
ु क्रतुमग
ृ ानुसारिणम ् (११.४४),
सैन्यरे णुमुषितार्क दीधितिः (११.५१), निर्विष्टविषयस्नेहः (१२.१),
पक्षीन्द्रप्रयासक्षणविघ्नितः (१२.५३), दिग्विजम्भि
ृ तकाकुत्स्थपौलस्त्यजयघोषणः
(१२.७२), मारुतिसमानीतमहौषधिहतव्यथः (१२.८७), प्रियाशोकशल्यनिष्कर्षणौषधम ्
(१२.९७), नाभिप्ररूढाम्बुरुहासनेन (१३.६), त्रिमार्गगावीचिविमर्दशीतः (१३.२०),
विदरू ान्तरभावतन्वी (१३.४८), अनिग्रहत्रासविनीतसत्त्वम ् (१३.५०),
सेवाविचक्षणहरीश्वरदत्तहस्तः (१३.६९), रूढे न्द्रजित्प्रहरणव्रणकर्क शेन (१३.७३),
लङ्केश्वरप्रणतिभङ्गदृढव्रतम ् (१३.८७), ज्येष्ठानुवत्ति
ृ जटिलम ् (१३.८७),
सीतास्वहस्तोपहताग्र्यपज
ू ान ् (१४.१९), नितान्तरूक्षाभिनिवेशम ् (१४.४३),
अन्तर्गतबाष्पकण्ठः (१४.५३), मग
ृ ाध्यासितवेदिपार्श्वम ् (१४.८०), कविप्रथमपद्धतिम ्
(१५.३३), भर्तृप्रणिहितेक्षणाम ् (१५.८४), कालान्तरश्यामसुधेषु (१६.१८),
विन्यस्तसायन्तनमल्लिकेषु (१६.५०), ज्याघातरे खाकिणलाञ्छनेन (१६.८४),
न्यस्तप्रणिधिदीधितेः (१७.४८), नभस्तलश्यामतनुम ् (१८.६), प्रभानिर्जितपुष्परागम ्
(१८.३२), स्त्रीविधेयनवयौवनः (१९.४), लुलितस्रगाकुलम ् (१९.२५),
कण्ठसक्तमद
ृ ब
ु ाहुबन्धनम ् (१९.२९), अर्पितस्तिमितदीपदृष्टयः (१९.४२)॥

आश्रमवर्णनम ्

कालिदास एव भारतराष्ट्रस्य प्रथमो नागरककविरिति ठाकूरपदोपाह्वो रवीन्द्रनाथः


कविरभिप्रैति। नगरे कृतवास्तव्यः सन्नपि कविरयम ् आश्रमजीवनवर्णनं तथा
रुचिरया रीत्या चकार यथा स्वयं वनौकसः सन्तोऽपि

व्यासवाल्मीकिमख
ु ा महर्षयो न चक्रिरे । तदिदं प्रथमसर्ग एव साक्षात्कर्तुमलम ् (१.४९–
५३)। तत्रत्यं पद्यद्वयमुदाह्रियते यथा—

आकीर्णमषि
ृ पत्नीनामट
ु जद्वाररोधिभिः।

अपत्यैरिव नीवारभोगधेयोचितैर्मृगैः॥

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवक्ष
ृ कम ्।
विश्वासाय विहङ्गानामालवालाम्बुपायिनाम ्॥ (१.५०,५१)

ऋषीणामपत्यनिर्विशेषाः खलु मग
ृ ाः स्वभक्ति
ु ं कामयमाना उटजद्वारं तस्तम्भुरिति,
प्रकृतिवत्सलास्तापसकन्यकाः पक्षिणां भयं निवारयितुमालवालेषु सत्वरं सलिलं प्रपूर्य
ततो निववति
ृ र इति च महदिदं पौष्कल्यं प्रेयोरसस्य। इतः स्फूर्तिं प्राप्य तत्र भवान ्
कुमारदासः स्वकाव्ये जानकीहरणे तावदाश्रमवर्णनमनयैव रीत्या विदधे॥

प्रकृतिप्रीतिः

महाकविः कालिदासः सर्वथाप्यद्वैतसिद्धान्ते बद्धादरः। तस्मान्निखिलासु तद्रचनासु


सर्वात्मभावः स्फुटमवलोक्यते। अयं भावो न केवलं स्त्रीपुम्भेदमतीत्य वर्तते, अपि तु
सर्वस्मिन्नपि स्थावरजङ्गमात्मके जगति समत्वं प्रकटयति। अनेन भावेन संवलिताः
प्रायेण सर्वे रघव
ु ंशराजा दृश्यन्ते। अनया रीत्या तेषां प्रकृतिप्रीतिरपि स्फारीभवतीति
सुधियामतिरोहितम ्। अत्र द्वे उदाहरणे भवतः—

है यङ्गवीनमादाय घोषवद्ध
ृ ानुपस्थितान ्।

नामधेयानि पच्
ृ छन्तौ वन्यानां मार्गशाखिनाम ्॥ (१.४५)

सपत्नीकाय राज्ञे सद्योघत


ृ ं निवेदयितॄणां वद्ध
ृ ानां निसर्गनिर्णिक्ता हृदयसम्पत ्
सचेतसां चेतांस्यतितरां धिनोति। इत्थमेव सन्तानराहित्यान्नितरां खिन्नौ अपि
दम्पती प्रीत्या कौतूहलेन च मार्गशाखिनां वन्यानां नामानि पप्रच्छतुरिति महदिदं
पद्यस्य रामणीयकम ्॥

क्रियानिमित्तेष्वपि वत्सलत्वा-

दभग्नकामा मुनिभिः कुशेषु।

तदङ्कशय्याच्युतनाभिनाला

कच्चिन्मग
ृ ीणामनघा प्रसूतिः॥ (५.७)

स्वानष्ु ठानमवगणय्य सद्यःप्रसत


ू ान्मग
ृ शावकानङ्के दश दिनानि यावद्धरतां
मुनीनामत्युदात्तम ् अन्तःकरणं कं वा न रसिकं पूतं विदधाति। तथा च
सर्वस्वदानस्य विश्वजित आहर्ता रघुः सद्यःसमावत्ृ तं युवानं तदाश्रमगतानां
मग
ृ ीणामनघां प्रसति
ू मनय
ु न
ु क्तीति विज्ञाय रोमाञ्चकञ्चकि
ु तं कायमस्माकं भवति॥

रघुमहाराजवर्णनम ्

अमुष्मिन ् वंशे जातानां राज्ञां प्रधानलक्षणत्वेन ये गुणाः काव्यारम्भे कथितास्ते


सर्वेऽपि यथातथं रघौ सङ्गच्छन्ते। यथा दिव्यधेनप
ु रिचर्याफलत्वेन प्राप्तजनष
ु स्तस्य
आजन्मशुद्धत्वम ्, शतक्रतुना सह युद्ध्वा स्वपितुः सैन्धवमेधफलसम्पादनाद्
आफलोदयकर्मत्वम ्, दिग्विजयत्वाद् आसमुद्रक्षितीशत्वम ्,
विश्वजिन्निर्वर्तनाद्यथाविधिहुताग्नित्वम ्, कौत्समनि
ु परिचर्याहे तोर्यथाकामार्चितार्थित्वम ्
इत्यादिः। एवञ्च लघिधातोर्गमनार्थत्वं मनसिकृत्य दिलीपः स्वसुतं रघुनामानं
चकारे त्यतस्तस्य गतिशीलत्वं गम्यते (३.२१)। तथैव च सर्वे गत्यर्थकधातवो
ज्ञानार्थका इत्यनेन व्याकरणशास्त्रसमयेन तस्य ज्ञानित्वमवबध्
ु यते। इत्थं च
प्राज्ञप्राग्रहरो दिलीपः पस
ुं वन-जातकर्म-नामकरण-अक्षराभ्यास-उपनयन-पाणिग्रहणा-
दिभिः सर्वैरपि वैदिकविधानै रघुं सञ्चस्कारे ति ज्ञायते (३.१०,१८, २१,२८,२९,३३)। एवं
सर्वगण
ु ोपेतस्य महापरु
ु षस्य नाम्ना काव्यमिदं व्यपदिष्टमिति सर्वमनवद्यम ्॥

भारतवर्णनम ्

कालिदासस्तावदस्माकं राष्ट्रकविरिति गीयते। नैतन्मष


ृ ोदर्कं वचः। यस्माद्
आसेतुशीताचलं भारतवर्षस्य वर्णनं चारु चक्रे कविकुलगुरुणा। अनेन तस्य विस्पष्टं
भौगोलिकज्ञानमवगम्यते। रघुवंशे हि दिग्विजयवर्णनावसरे चतुर्थे सर्गे तथा
इन्दम
ु तीस्वयंवरावसरे षष्ठे सर्गे तथा विमानयानप्रसङ्गे त्रयोदशे सर्गे च तदिदं
विशदं निभाल्यते। एवञ्च वर्णनमत्रत्यं न याथाकथाचम ्, प्रत्युत वस्तुस्थितिबोधकम ्।
अत्र पुनरनेके सांस्कृतिकविशेषाः परिलक्ष्यन्ते। यथा पुरुहूतध्वजस्य प्रस्तावः (४.३),
महे न्द्रपर्वते नागवल्लीदलसाधनेन योधैः पीतस्य नारिकेलासवस्योल्लेखः (४.४२),
प्राचीनभारते राजानः प्रायेण धर्मविजयिनः प्रादर्ब
ु भूवुर्न तु लोभविजयिनो
वासरु विजयिन इत्यस्य भम्
ू नः सत्यस्य प्रस्तावः (४.४३), फलितक्रमक
ु मिषेण
दक्षिणदिश उल्लेखः (४.४४), मगध-अङ्ग-अवन्ती-माहिष्मती-शूरसेन-कलिङ्ग-उरग-
उत्तरकोसलमख
ु ानां प्रदे शविशेषाणां प्रस्तावः (६.२१,२७,३२,४३,४५,५३,५९,७१),
द्वीपान्तरानीतस्य लवङ्गस्य प्रस्तावः (६.५७), ताम्बल
ू वल्लीपरिणद्धपग
ू ानाम ्
एलालतालिङ्गितचन्दनानां मलयस्थलीनामुल्लेखः (६.६४), सिप्रा-रे वा-यमुना-
गङ्गाद्यानां नदीनामल्
ु लेखश्च (६.३५,४३,४८)॥

सुप्रभातवर्णनम ्

सूतात्मजाः सवयसः प्रथितप्रबोधम ् अजं वाग्भिरुदारवाचः प्राबोधयन ् (५.४५–७४)।


भगवती ब्राह्मी स्वयमिमानि पद्यानि रचितवतीति कर्णाकर्णिकया श्रय
ू ते। अनेन
तावदमीषामौत्तम्यं व्यज्यते। एभिः पद्यैः संस्कृतसाहित्यपरम्परायां
सुप्रभातसम्प्रदायः साक्षादद
ु घाटि। अत्र प्रयुक्तं वसन्ततिलकाभिधं मालिन्यभिधं
छन्दश्च परवर्तिनि काले सप्र
ु भातपद्यानामनिवार्यमभत
ू ्। यदा हि नाम
भगवांस्त्रयीतनुरुदे ति तदा हतप्रभः स्वयम ् अस्तमुपयाति चन्द्रः, शतपत्रान्तःसंलग्ना
इन्दिन्दिरास्तु बहिराजिगमिषन्ति, सूर्यांशुभिः पुण्डरीकाणि प्रबुद्धानि विधीयन्ते,
गन्धबन्धःु कुसम
ु सौरभं सर्वत्र प्रसारयति, ताम्रोदरे षु तरुपल्लवेषु विशदं हिमाम्भः
पतति, वाचालशङ्
ृ खलकर्षिणः स्तम्बेरमाः शय्यां जहति, अश्वाः पुरोनिहितं लवणं
वक्त्रोष्मणा मलिनयन्ति, अपचित्यर्थमर्पिताः कुसम
ु मालाः सुतरां विरलभक्तयः
परिम्लानाश्च भवन्ति, पञ्जरस्थश्च मञ्जव
ु ाक्कीरः सत
ू ात्मजैः प्रयक्
ु तां गिरमनव
ु दति।
अत्र प्रकृति-मानवप्रकृति-संस्कृतिसम्बद्धानि वैशिष्ट्यानि सत
ु रां मनोहराणि
कालिदासेन प्रस्तुतानि। अथ च सर्वाण्यपीमानि रघुणा सह सौन्दर्यसम्पक्ति
ृ ं भजन्ते।
सहृदयमनोविनोदाय पद्यद्वयमुल्लिख्यते—

तद्वल्गुना युगपदन्मि
ु षितेन तावत ्

सद्यः परस्परतुलामधिरोहतां द्वे।

प्रस्पन्दमानपरुषेतरतारमन्त-

श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम ्॥ (५.६८)

कमलकीलिताः षट्पदाः प्रभाते खलु बहिरागच्छन्ति। ततः पर्वं


ू कुञ्चितानि पद्मदलानि
तावदद्
ु घाटयितुं प्रयतन्ते। तस्मादे व प्रचलितभ्रमरत्वं पद्मस्य साधु सङ्गच्छते। इदं
किञ्चिदारक्तवर्णेन पुनरन्तःश्यामलेन चलत्तारकेण सह नयनेन साम्यं बिभर्ति।
अन्तश्चक्षुषः स्पन्दनशीलत्वमाधनि
ु का जङ्घालं नयनवलनमित्याचक्षते (rapid eye
movement)॥
दीर्घेष्वमी नियमिताः पटमण्डपेषु

निद्रां विहाय वनजाक्ष वनायुदेश्याः।

वक्त्रोष्मणा मलिनयन्ति पुरोगतानि

लेह्यानि सैन्धवशिलाशकलानि वाहाः॥ (५.७३)

पारसीका अश्वाः प्रशस्ततमा इति सर्वेषामश्वशास्त्रविदामभ्यप


ु गमः। “पर्वा
ू ह्णकाले
चाश्वानां प्रायशो लवणं हितम ्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम ्” इत्युक्तं
सिद्धयोगसङ्ग्रह इति मल्लिनाथः। लेह्यानि श्लेष्मनिवारणार्थमास्वाद्यानीति
वल्लभदे वः। कालिदासेन हि वाजिमर्म निपण
ु ं जानतैव पद्यमिदं व्यरचीत्यत्र न विदो
विवदन्ते॥

वीररसपरिपोषः

कालिदासः शङ्
ृ गाराभिनिवेशी कविरिति प्रायोवादः। यथा स ललितमद
ृ ल
ु ानां
वत्ृ तान्तानां निर्वाहे पटीयांस्तथा न भयङ्कराभीलानाम ् इत्येतद्दुरपह्नवमेव। अथापि
केषुचन प्रसङ्गेषु वीररसस्तेन निपुणं निरूप्यते। तादृशाः प्रसङ्गाः सन्ति
केचिद्रघव
ु ंशे। रघश
ु क्रयोः सङ्ग्रामस्तत
ृ ीयसर्गगतः, बहुभिः सह बाहुजैरजस्य संयग ु ः
सप्तमसर्गगतः, रामरावणयोः संस्फोटो द्वादशसर्गगतश्च प्रमख ु तयोल्लेखमर्हन्ति। अत्र
तु केवलमजकृतं साम्परायिकं निरूप्यते। भोजकन्यामुद्वहन्तमजं दृप्तो राजन्यगणः
पथि रुरोध। ततस्तम
ु ुलयुद्धं प्रावर्तत। तदा तावदिन्दम
ु त्याः परिरक्षणाय पित्र्यं
सचिवमादिश्य स्वयमजः पार्थिववाहिनीं प्रत्यग्रहीत ्। तल्
ु यप्रतिद्वन्द्वितया प्रवर्तमाने
प्रधने

कथङ्कारं विगतासवः पथि


ृ वीशा बभूवुः, कीदृशी च रणभमि
ू ः परिलक्ष्यते स्मेति
जुगुप्सागर्भया सकृदत्ु प्रेक्षालङ्कृतया पद्यद्वय्या वर्णयति कालिदासः—

आधोरणानां गजसन्निपाते

शिरांसि चक्रैर्निशितैः क्षुराग्रैः।

हतान्यपि श्येननखाग्रकोटि-
व्यासक्तकेशानि चिरे ण पेतुः॥ (७.४६)

शिलीमुखोत्कृत्तशिरःफलाढ्या

च्युतैः शिरस्त्रैश्चषकोत्तरे व।

रणक्षितिः शोणितमद्यकुल्या

रराज मत्ृ योरिव पानभमि


ू ः॥ (७.४९)

यौगपद्येन रघुराघवयोर्वर्णनम ्

वीराग्रणीः सन्नपि रघुः स्वतनूजविवाहकौतुकादत्ु तरं विनाशधर्मसु विषयेषु निःस्पह


ृ ः
समजनि। अजश्च भोगतष्ृ णादरू ः पितरु ाज्ञेति राज्यमग्रहीत ्। एवम ् अभ्यद
ु यमार्गेण
सूनुस्तथा निःश्रेयसमार्गेण पिता च क्रमशः क्रममाणौ पक्त्रिमां सिद्धिं भेजतुः। तौ
यतिपार्थिवलिङ्गधारिणौ भुवम ् अपवर्गमहोदयार्थयोरिव धर्मयोरं शाविव गतौ जनैः
सप्रमोदातिशयं ददृशाते। तदिदं प्रकरणं रमणीयतया न्यरूपि कालिदासेन। अत्र च
तेन रसबन्धुराणि बहूनि पद्यानि प्राणायिषत, येषु यौगपद्येन रघुराघवयोः प्रस्तावः
कृतः। किमपि लक्षणातिगं वैचित्र्यमिह विलसति, यतः खल्वनुभूतायां कस्याञ्चन
भङ्गीभणितौ कोऽलङ्कार इति निर्णयः सद
ु ःु शकः। [यद्यप्यत्र उदात्त-सहोक्तिमख
ु ा
अलङ्काराः केचन क्वचिल्लक्ष्यन्ते। अथापि दर्घ
ु ट एव निर्दुष्टो लक्षणान्वयः।] अनन्ता
हि वाग्विकल्पाः। कस्तान ्

कार्त्स्न्येन वक्ष्यति। यथा हि पुरतः शोभमानस्य कस्यचिदज्ञातमूलस्य कुसम


ु स्य
नयनासेचनकं रूपं नासिकासेचनकं सौरभं च स्फुटमनुभूयते परं तन्नाम न ज्ञायते,
तथैव प्रकरणमिदमपि सङ्गच्छते॥

अत्रत्यानि कानिचन पद्यान्युदाह्रियन्ते—

नप
ृ तिः प्रकृतीरवेक्षितुं

व्यवहारासनमाददे युवा।

परिचेतुमुपांशु धारणां
कुशपूतं प्रवयास्तु विष्टरम ्॥

अनयत ् प्रभुशक्तिसम्पदा

वशमेको नप
ृ तीननन्तरान ्।

अपरः प्रणिधानयोग्यया

मरुतः पञ्च शरीरगोचरान ्॥

अकरोदचिरे श्वरः क्षितौ

द्विषदारम्भफलानि भस्मसात ्।

इतरो दहने स्वकर्मणां

ववत
ृ े ज्ञानमयेन वह्निना॥

पणबन्धमख
ु ान ् गण
ु ानजः

षडुपायङ्
ु क्त समीक्ष्य तत्फलम ्।

रघुरप्यजयद्गुणत्रयं

प्रकृतिस्थं समलोष्टकाञ्चनः॥ (८.१८–२१)

एभी राज्यशास्त्रे योगशास्त्रे च कालिदासः समभद


ू ासेवितीति विशदं विज्ञायते। यतः
स्थाने खलु धर्मासन-धारणयोः, प्रभुशक्ति-प्रणिधानयोः, द्विषदारम्भदहन-
स्वकर्मप्लोषणयोः, गण
ु षट्क-गण
ु त्रितययोश्च प्रस्तावः कृतः। अत्र च वसिष्ठ-श्रीकृष्ण-
कौटिल्यादीनां पङ्क्तिपावनानां वचांसि निपुणमल्लि
ु खन ् महामहोपाध्यायो मल्लिनाथः
कविकुलगुरुवचनजातं प्रमाणयतीति महानयं प्रकर्षो हर्षस्य विद्वद्रसिकानाम ्॥

अजविलापप्रकरणम ्

इन्दम
ु ती करणोज्झितेन वपुषा निपतन्ती पतिमप्यपातयत ्। ननु तैलनिषेकबिन्दन
ु ा
सह दीपार्चिरपि मेदिनीमुपैति। एवं सत्यजः सहजामपि धीरतामपहाय बाष्पगद्गदं
विललाप। अत्र तावदजस्य विलापस्तथा वर्णितो यथा कुलिशकठिनचेता अपि नरः
सत
ु राम ् अश्रप
ु र्याकुलनयनः सञ्जायते। यदाह भवभति
ू ः—“अपि ग्रावा रोदित्यपि दलति
वज्रस्य हृदयम ्”। करुणरसभरां नप
ृ स्य वाचं हृदयविदारणदारुणां निशम्य।
पशुपतिरथवा पशुः स्वयं चेदविकलतामनुविन्दते कथञ्चित ्। अत्रत्यमेकैकमपि पद्यम ्
अनर्घभास्वरमिव रत्नं बाभाति। तद्यथा—

अथवा मम भाग्यविप्लवा-

दशनिः कल्पित एष वेधसा।

यदनेन तरुर्न पाटितः

क्षपिता तद्विटपाश्रिता लता॥ (८.४७)

ध्रव
ु मस्मि शठः शचि
ु स्मिते

विदितः कैतववत्सलस्तव।

परलोकमसन्निवत्ृ तये

यदनापच्
ृ छ्य गतासि मामितः॥ (८.४९)

नवपल्लवसंस्तरे ऽपि ते

मद
ृ ु दय
ू ेत यदङ्गमर्पितम ्।

तदिदं विषहिष्यते कथं

वद वामोरु चिताधिरोहणम ्॥ (८.५७)

गहि
ृ णी सचिवः सखी मिथः

प्रियशिष्या ललिते कलाविधौ।

करुणा विमख
ु ेन मत्ृ युना
हरता त्वां वद किं न मे हृतम ्॥ (८.६७)

ृ छ्य गतासि”, “वद वामोरु”, “त्वां हरता मत्ृ युना मे किं न हृतं वद”
“अनापच्
इत्यादिभिः पदै रजः सुतरां गतप्राणया साकमिन्दम
ु त्या साक्षाद्वदन्निव लक्ष्यते।
अनेन च प्रेमातिशयः समभिव्यज्यते॥

सरु समह
ू कृतः परु
ु षोत्तमस्तवः

कालिदासेन ह्यद्वैतसिद्धान्तानुसारं त्रिमूर्तिस्तुतिः स्वकृतिषु विहिता। कुमारसम्भवस्य


द्वितीयसर्गे ब्रह्मणः स्तति
ु ः षष्ठसर्गे च महे श्वरस्तति
ु ः संलक्ष्यते। नारायणस्तति
ु स्तु
रघुवंशस्य दशमसर्गे दृश्यते। अत्र सर्वत्रापि तत्तद्देवतारूपान्तर्निहितं केवलात्मतत्त्वं
सच्चिदानन्दस्वरूपं कविकुलगुरुः स्तति
ु विषयीकरोतीति निश्चप्रचम ्। सदृशं
चैतदद
ु ारसत्त्वस्य महाकवेः। सम्प्रति नारायणस्तति
ु गतानि विरोधाभासालङ्कार-
भूषितानि कानिचिदद
ु ाह्रियन्ते पद्यानि। परमात्मा हि “नेति नेति” इत्यनया रीत्या
साक्षात्कर्तव्यः। जगदिदं मनसाप्यचिन्त्यरचनारूपमिति भगवत्पादः शङ्करः प्राह
ू भाष्यम ्, १.१.२)। एवं सति तदधिष्ठानस्य ब्रह्मणः स्वरूपं किं वाचा
(ब्रह्मसत्र
वर्णयितुमलम ्। अतस्तस्य विरोधाभासत्वं सस्
ु थमेव। दे वाः पौलस्त्योपप्लुता
निदाघार्ताश्छायावक्ष
ृ मिवाध्वगाः पद्मनाभम ् अभिजग्मुः। तं च भोगिभोगासनासीनं
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं प्रबद्ध
ु पण्
ु डरीकाक्षं विलोक्य सनमस्कारमेवं
तुष्टुवुः—

अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः।

अजितो जिष्णरु त्यन्तमव्यक्तो व्यक्तकारणम ्॥

हृदयस्थमनासन्नमकामं त्वां तपस्विनम ्।

दयालुमनघस्पष्ृ टं पुराणमजरं विदःु ॥

सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः।

सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ (१०.१८–२०)

द्वादशः सर्गः
भगवता वाल्मीकिना यानि प्रकरणानि पञ्चसु काण्डेषु वर्णितानि तानि कालिदासेन
द्वादशे सर्ग एकस्मिन्नेव समग्राहिषत। सप्र
ु थिता हि रामायणी कथा।
तद्वत्ृ तान्तपौनरुक्त्यं नाम रसिकानां शिरःशूलाय कल्पते। तस्मादमुं कथनक्रमम ्
अप्रसन्नं मन्वानेन कविकुलगुरुणा क्रमान्तरमाश्रितं, येन च नीरसत्वकर्दमदरू ा
सरसत्वजीवनविपल
ु ा कथाकल्लोलिनी निरवग्रहं प्रसरति। सम्प्रति तावदयोध्यारण्य-
किष्किन्धासुन्दरयुद्धनामकेभ्यः काण्डेभ्यः पञ्च पद्यान्युद्ध्रियन्ते।

अयोध्याकाण्डाद्यथा—

तं कर्णमल
ू मागत्य रामे श्रीर्न्यस्यतामिति।

कैकेयीशङ्कयेवाह पलितच्छद्मना जरा॥ (१२.२)

अमूर्ताभिधायिना शब्दे न यत्र मूर्तमभिधीयते वस्तु तत्र ह्युपचारवक्रता राजतीति


कुन्तकः। अत्र तु दशरथस्य प्रवयसः कर्णमल
ू मागत्य जरा किञ्चिदक्
ु तवतीत्यत
उपचारवक्रता स्वयंसिद्धा। उपचारवक्रतागर्भे सर्वस्यापि ध्वनिप्रपञ्चस्यान्तर्भावादस्य
पद्यस्य वैशिष्ट्यम ् अपरिमितम ्। “कैकेयीशङ्कया” इत्यनेन पदे न भरतस्य मातुः
स्वरूपं निष्कृष्टम ् आविष्कृतम ्॥

अरण्यकाण्डाद्यथा—

पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः।

वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत ्॥ (१२.४०)

मदनातुरा रावणावरजा निदाघार्ता व्यालीव मलयद्रम


ु ं राघवमभिपेदे। यदा शूर्पणखा सा
नाम्नः सदृशं रूपं प्रत्यपद्यत, तदा लक्ष्मणः कोशोद्धृतखङ्गः सन ् तत्कर्णनासं
चिच्छे द। अत्रत्यः “वैरूप्यपौनरुक्त्येन” इत्यसौ शब्दः सर्वथा

वाक्यवक्रतापोषकः शोभते। स्वभावत एव विकृतां शूर्पणखां नासादिच्छे दे न


पन
ु रतिमात्रं विकृतामकरोल्लक्ष्मण इत्यर्थः॥

किष्किन्धाकाण्डाद्यथा—
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते।

धातोः स्थान इवादे शं सुग्रीवं संन्यवेशयत ्॥ (१२.५८)

पद्यमिदं रामकृतं वालिहननं तत्स्थाने सुग्रीवप्रतिष्ठापनं च


शब्दशास्त्रचमत्कृतिपुरःसरं प्रस्तौति। कस्यचन शब्दस्य स्थाने विधीयमानं
शब्दान्तरमादे श इत्यभिधीयते। अत्र हि धातरू
ु पो वाली तथादे शरूपः सग्र
ु ीवो ज्ञेयः।
इहस्थामौचितीं मल्लिनाथ एवं कथयति—यथा “अस्तेर्भूः” इत्यस्तिधातोः स्थान
आदे शो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः॥

सुन्दरकाण्डाद्यथा—

प्रवत्ृ तावुपलब्धायां तस्याः सम्पातिदर्शनात ्।

मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥ (१०.६०)

सम्पातिमख
ु ात ् सीतावार्तां विज्ञाय मारुतिः सागरं ततार। तच्च यथा निर्ममः संसारं
तरति तथा चकारे ति महदिदं नावीन्यमुपमायाः। अनेन हनूमतः प्रकृतिनिर्ममत्वं
सूच्यते। संसारतरणं नाम निर्ममस्य लीलामात्रम ्। एवं मारुतिना सागरोल्लङ्घनं
सलीलमनष्ठि
ु तमिति व्यज्यते॥

युद्धकाण्डाद्यथा—

कामं जीवति मे नाथ इति सा विजहौ शुचम ्।

प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ (१०.७५)

कपटोपायधुरन्धरः पङ्क्तिकण्ठः सजिह्मं रामशिरश्छे ददर्शनोद्भ्रान्तचेतनां


सीतामकरोत ्। तदनु क्रियामेनां मायां कथयन्त्या त्रिजटया सप्राणा कृता जानकी।
अस्यां स्थितौ जीवन्तं नाथं विज्ञाय विगतशोकापि रामपत्नी “पूर्वमस्यान्तं बद्
ु ध्वापि
किमिति न प्राणानत्याक्षम ्” इति मन्दाक्षमन्दहृदया बभूवेति वर्णयतः कालिदासस्य
प्रीतिज्ञानमनुत्तमम ्। यदि सत्यमेव रामावसानमभविष्यत ्, सीतापि गतप्राणाभविष्यत ्।
“दःु खादपि दःु सहो लज्जाभरः” इति मल्लिनाथः॥
पुष्पकविमानयानप्रकरणम ्

दण्डकाप्रत्यागमनाभिधे त्रयोदशसर्गे पुष्पकविमानेन स्वनगरीं यियासुः श्रीरामः सीतां


प्रति तदन्वेषणप्रापणरक्षणादिघटनाः कथयति। तदङ्गत्वेन च सति
ृ गोचराणि स्थलानि
वनगिरिनदीभाञ्जि निरूपयति। आत्मनिर्मितेन सेतन
ु ा विभक्तं
फेनिलमम्बुराशिमारभ्य तरङ्गहस्तैः स्वमालिङ्गन्तीमिव सरयूनदीं यावत ् सविस्तरं
वर्णयति। तदा हि विद्युद्वलयभूषितां सीतां निभालयन ्, भिन्नकोशान ्
कन्दलीनिवहान ् दर्शं दर्शं च तस्या विवाहधम
ू ारुणलोचनश्रियं स्मरन ्
लङ्घितमार्गविलोकनाय तां चोदयति। तद्यथा—

कुरुष्व तावत्करभोरु पश्चा-

न्मार्गे मग
ृ प्रेक्षिणि दृष्टिपातम ्।

एषा विदरू ीभवतः समद्र


ु ात ्

सकानना निष्पतितेव भूमिः॥ (१३.१८)

भूमिः समुद्राद्विदरू ीभवतः सकानना निष्पततीव भातीत्यपर्युषितबन्धुरा सेयमुत्प्रेक्षा।


असौ पन
ु रभिज्ञानशाकुन्तलगतं पद्यद्वयं स्मारयतीव। मग
ृ मनध
ु ावन ् पौरवः
समतीत्य हरितो हरींश्च वर्तमानानश्वांस्तथा रथवेगं वर्णयति “यदालोके सूक्ष्मम ्”
इत्यादिना स्वभावोक्ति-विरोधाभास-उत्प्रेक्षालङ्कृतेन पद्येन। तथैव गगनमार्गेण
भूमिमागच्छन ् “शैलानामवरोहतीव” इत्यादिकं स्वभावोक्ति-काव्यलिङ्ग-

उत्प्रेक्षालङ्कृतं पद्यं गदति।[1] वीतविमानयानानुभवेन कविना तद्वल्गु वर्ण्यत इति


चित्रीयते नश्चेतः। तदवश्यमभिवन्दनीया भगवती प्रतिभा॥

अग्रे च सीतानूपुरदर्शनं ब्रूते—

सैषा स्थली यत्र विचिन्वता त्वां

भ्रष्टं मया नूपुरमेकमुर्व्याम ्।

अदृश्यत त्वच्चरणारविन्द-
विश्लेषदःु खादिव बद्धमौनम ्॥ (१३.२३)

अपथ
ृ ग्यत्ननिर्वर्त्या हे तूत्प्रेक्षा हि पद्यमिदमलङ्कुरुते। नूपुरेण दःु खमन्वभावीति
कथयता कविनोपचारवक्रता रसपरिष्कृता कृता॥

मध्येमार्गं पञ्चवटीं वर्णयति। तद्यथा—

एषा त्वया पेशलमध्ययापि

घटाम्बस
ु ंवर्धितबालचूता।

आनन्दयत्युन्मख
ु कृष्णसारा

दृष्टा चिरात ् पञ्चवटी मनो मे॥ (१३.३४)

अत्र नैकानि सन्ति साभिप्रायविशेषणानीति कारणात ् परिकरालङ्कारे ण


पद्यमिदमलमकारि। अनेन च सीतायाः प्रकृतिप्रीतिः सम्यगभिव्यज्यते॥

अग्रे यमन
ु ातरङ्गैः समद्भि
ु न्नप्रवाहां गङ्गां प्रयागस्थितां वर्णयति—

क्वचिच्च कृष्णोरगभूषणेव

भस्माङ्गरागा तनुरीश्वरस्य।

पश्यानवद्याङ्गि विभाति गङ्गा

भिन्नप्रवाहा यमुनातरङ्गैः॥ (१३.५७)

गङ्गा हि धवलसलिला। यमन


ु ा तु कृष्णकाया। तयोः सङ्गमे श्वेतिमश्यामलिम्नोः
काचिद् अपूर्वा सम्पक्ति
ृ ः परिलक्ष्यते। तदिदं रागविलक्षणत्वं विरागिपरिवढ
ृ स्य
परमेश्वरस्य प्रस्तावेन प्रतिष्ठापितम ्। ईशानमूर्धानमलङ्कुर्वाणा सुरनदी तत्तनुरिव
बभास इति महदिदं वैलक्षण्यमप
ु मायाः॥

अत्रान्ते तावदपांसुलानां धुरि कीर्तनीयायाः सीतायाः सह भरतेन निर्लेपकर्मधर्मणा


समागमम ् उदात्तरमणीयया रीत्या कथयति कालिदासः। तद्यथा—
लङ्केश्वरप्रणतिभङ्गदृढव्रतं य-

द्वन्द्यं युगं चरणयोर्जनकात्मजायाः।

ज्येष्ठानुवत्ति
ृ जटिलं च शिरोऽस्य साधो-

रन्योन्यपावनमभद्
ू यग
ु पत्समेत्य॥ (१३.७८)

सीतापरित्यागप्रकरणम ्

द्वादशसर्गस्यान्ते “जातवेदोविशुद्धाम ्” इति पदे नैकेन जानकीम ् अग्निदिव्यशुद्धां


प्रस्तय
ू , त्रयोदशसर्गे सीताविषयकं तद्भर्तुः प्रेम सविस्तरं व्यावर्ण्य च कविकुलगरु
ु ः
स्वभार्यापरित्यागपरुषाय रामाय मा क्रुधन्नतिमात्रं सहृदया इति प्रायेण वक्ति। अथ
च निर्बन्धपष्ृ टे न भद्रे ण कथितां पौरकृतसीतानिन्दाम ् आकर्ण्य वैदेहिबन्धोर्हृदयं विदद्र
इतीदं वर्णनं सत
ु रामरुन्तद
ु म ्। स्पशपच्
ृ छापरायणः पथि
ृ वीपालस्तदनप
ु दं जानकीजानिः
सन ् निर्वेलां शुचमनुबभूव। अथापि “यशोधनानां हि यशो गरीयः” इति निरुदारम ्
अश्रद्धेयं च व्यभाषि रघुकृतेति साञ्जलिबन्धं भणामः। यतः किल सीता लक्ष्मणेन
वनं प्रति नीयमाना प्रियङ्करं च प्रियं मन्वाना दर्नि
ु मित्तदर्शनानप
ु दं सावरजस्य राज्ञः
शिवं करणैरबाह्ययैराशंसन्ती मर्माणि नः कृन्तति॥

गुर्वाज्ञां परिपालयंल्लक्ष्मणः सीतां गहने विहास्यन ् उद्यतवीचिहस्तया गङ्गया


न्यवार्यतेति चार्वीमुत्प्रेक्षां सन्ददर्भ कविः। तद्यथा—

गुरोर्नियोगाद्वनितां वनान्ते

साध्वीं सुमित्रातनयो विहास्यन ्।

अवार्यतेवोत्थितवीचिहस्तै-

र्जह्नोर्दुहित्रा स्थितया पुरस्तात ्॥ (१४.५१)

अनेन “अकार्यं मा कुरु” इत्यवार्यत लक्ष्मण इति गम्यते। अत्र गङ्गायाः


सीतापक्षपातः स्पट
ु ं निशाम्यते। एवं सति पत्यरु ादे शं निशम्य वसध
ु ायां पतयालवे
जनकदहि
ु त्रे तज्जनन्येव न प्रवेशं ददाविति विलक्षणमुवाद कालिदासः। तद्यथा—
इक्ष्वाकुवंशप्रभवः कथं त्वां

त्यजेदकस्मात ् पतिरार्यवत्ृ तः।

इति क्षितिः संशयितेव तस्यै

ददौ प्रवेशं जननी न तावत ्॥ (१४.५५)

अनेन हि प्रायः प्रकृतौ केचन सीतापक्षपातिनः केचिच्च रामपक्षपातिनः सम्भवन्तीति


बभाण महाकविः। भगवान ् वाल्मीकिः परमकारुणिकस्तु जानकीमनुनेतुं
राममुपालभ्य, तां स्वाश्रममानीय, तदात्मजौ विधिवदप
ु नीय, ताभ्यां रामायणं
पाठयित्वा, पन
ु रन्ते सीतायाः संपरिग्रहं वव्रे। एवम ् आदिकविप्रदर्शितेन पथास्माभिः
सर्तव्यमिति गूढं जगाद कालिदासः। स च पर्यन्ते भर्तृप्रणिहितेक्षणां क्षमातनयां
प्रस्तुवन्नितरां ध्वनिपरम्पराः ससर्ज (१५.८४)। सर्वभावरुचिस्फीता सीतानयनतूलिका
रचयामास किं चित्रमिति वक्तंु क ईशते॥

अयोध्यानगराधिदे वीविलापप्रकरणम ्

कदाचिदर्धरात्रे स्तिमितप्रदीपे प्रोषितभर्तृकावेषा वनिता कापि कुशस्य शय्यागह


ृ ं
प्रविवेश। तदनु कुशेन पर्वा
ू र्धविसष्ृ टतल्पेन पष्ृ टा वीतनाथाम ् अयोध्याधिदे वतां स्वां
पर्यचाययत ्। ततश्च पूर्वावस्थापेक्षया साद्यस्कां निजां हीनदशां कथयामास। अत्र
विषमालङ्कारभूषितैः पद्यैः कञ्चिदपूर्वं शङ्
ृ गारबीभत्सयोः परीपाकं सिषाधयिषति
कालिदासः। तद्यथा—

निशासु भास्वत्कलनूपुराणां

यः सञ्चरोऽभद
ू भिसारिकाणाम ्।

नदन्मुखोल्काविचितामिषाभिः

स वाह्यते राजपथः शिवाभिः॥ (१६.१२)

आस्फालितं यत्प्रमदाकराग्रै-

र्मृदङ्गधीरध्वनिमन्वगच्छत ्।
वन्यैरिदानीं महिषैस्तदम्भः

शङ्
ृ गाहतं क्रोशति दीर्घिकाणाम ्॥ (१६.१३)

सोपानमार्गेषु च तेषु रामा

निक्षिप्तवत्स्यश्चरणान्सरागान ्।

सद्योहतन्यङ्कुभिरस्रदिग्धं

व्याघ्रैः पदं तेषु निधीयते मे॥ (१६.१५)

स्तम्भेषु योषित्प्रतियातनाना-

मुत्क्रान्तवर्णक्रमधूसराणाम ्।

स्तनोत्तरीयाणि भवन्ति सङ्गा-

न्निर्मोकपट्टाः फणिभिर्विमक्
ु ताः॥ (१६.१७)

अयोध्यायां वन्यजन्तवः स्वैरवत्ृ त्या विलेसरि


ु त्यनेन तस्या निर्जनत्वं है न्यं च
ध्वन्यते। इतः स्फूर्तिं प्राप्य महाकवयित्री गङ्गादे वी स्वकाव्ये मधुराविजये
वर्णनमीदृशमेव चारु चकार। यदक्
ु तं तयैव—

दासतां कालिदासस्य कवयः के न बिभ्रति।

इदानीमपि तस्यार्थानुपजीवन्त्यमी यतः॥ (मधुराविजयम ्, १.७)

अतिथिप्रकरणम ्

अतिथिरर्थविदां वरः शत्रवो बाह्याः सर्वथानित्या इति मनसिकृत्य रिपून ्


अभ्यन्तरानजयत ्। अथ च कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम ् इत्युरसिकृत्य
समेताभ्यामुभाभ्यां सिद्धिमन्वियेष। अमुं वर्णयितुकामेन कालिदासेन
महदर्थशास्त्रवैशिष्ट्यम ् उपस्थापितम ्॥

स्पशजालं यथा—
परे षु स्वेषु च क्षिप्तैरविज्ञातपरस्परै ः।

सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥ (१७.५१)

फलानुमेयप्रारम्भत्वं यथा—

भव्यमख्
ु याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः।

गर्भशालिसधर्माणस्तस्य गढ
ू ं विपेचिरे ॥ (१७.५३)

दण्डयात्रा यथा—

शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।

समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥ (१७.५६)

आत्मरन्ध्रावरणं पररन्ध्रप्रहरणं यथा—

परकर्मापहः सोऽभद
ू द्
ु यतः स्वेषु कर्मस।ु

आवण
ृ ोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन ् रिपन
ू ्॥ (१७.६१)

अग्निवर्णप्रकरणम ्

अग्निवर्णः काश्चन समाः स्वाधिकारमवर्तयत ्। पश्चादयमभिकः


स्त्रीविधेयनवयौवनोऽभवत ्। तमेनमेवंविधं परमोत्तानया शङ्
ृ गारभङ्ग्या वर्णयति
कालिदासः। अत्रत्येन शुचिपरिवेषेण निर्वेदभावः सहृदयेषु भश
ृ मुद्भाव्यते। तद्यथा—

सातिरे कमदकारणं रह-

स्तेन दत्तमभिलेषुरङ्गनाः।

ताभिरप्युपहृतं मख
ु ासवं

सोऽपिबद्बकुलतुल्यदोहदः॥ (१९.१२)

अङ्कमङ्कपरिवर्तनोचिते
तस्य निन्यतुरशून्यतामुभे।

वल्लकी च हृदयङ्गमस्वना

वल्गुवागपि च वामलोचना॥ (१९.१३)

लौल्यमेत्य गहि
ृ णीपरिग्रहा-

न्नर्तकीष्वसल
ु भासु तद्वपःु ।

वर्तते स्म स कथञ्चिदालिख-

न्नङ्गुलीक्षरणसन्नवर्तिकः॥ (१९.१९)

चुम्बने विपरिवर्तिताधरं

हस्तरोधि रशनाविघट्टने।

विघ्नितेच्छमपि तस्य सर्वतो

मन्मथेन्धनमभद्
ू वधरू तम ्॥ (१९.२७)

अन्ते च क्षयरोगेण पीडितं विगतप्राणं तं व्याधिचिकित्सां व्याजीकृत्य प्रदीप्ते पावके


परु ोधःपरु ःसरा मन्त्रिणो गप्ु तं निदधिरे । तद्यथा—

तं गह
ृ ोपवन एव सङ्गताः

पश्चिमक्रतुविदा पुरोधसा।

रोगशान्तिमपदिश्य मन्त्रिणः

सम्भत
ृ े शिखिनि गढ
ू मादधुः॥ (१९.५४)

इत्थम ् अविगीतयशःस्तोमसमन्वितनप
ृ ावलीविवर्धितरसे वंशे जातो गढ
ू मगान्मति
ृ म ्।
तदिदम ् अतिमात्रसुदःु सहं वास्तवं कविकुलगुरुः स्तोकमपि न विकारमुपेयुषा मनसा
वर्णयामास। इदं च तेन चटुलोत्साहगतिजष
ु ा रथोद्धतावत्ृ तेन व्यरचीति चिरं
विस्मयतां भजते रसिकवन्ृ दम ्॥

शब्दालङ्कारनिवेशः

अर्थप्रधाना रीतिः कालिदासीया। अथाप्यस्यां पदपेशलता स्थाने समद्धि


ृ मच्ृ छति।
समानश्रति
ु मतां पदानां प्रयोगः कालिदासाय रोचतेतराम ्। रघक
ु ारः
सर्वानप्यनुप्रासप्रभेदान ् सलीलं प्रयुङ्क्ते। तत्रापि लाटानुप्रासे बद्धादरः।
क्वचिद्यमकमख
ु ानपि प्रयत्नसिद्धान ् शब्दालङ्कारानसौ निबध्नाति, यथा
दशरथमग
ृ याप्रकरणे नवमसर्गे। परम ् अतिनिर्वहणैषिता नैकत्रापि लक्ष्यते। इदृशाः
केचन प्रयोगाः सुमेधसां चेतश्चमत्क्रियार्थमिह सङ्गह्
ृ यन्ते। तद्यथा—

स दष्ु प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः।

सायं संयमिनस्तस्य महर्षेर्महिषीसखः॥ (१.४८)

तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः।

अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे॥ (१.५५)

अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम ्।

सूनुः सूनत
ृ वाक्स्रष्टुर्विससर्जोदितश्रियम ्॥ (१.९३)

ततो मग
ृ ेन्द्रस्य मग
ृ ेन्द्रगामी

वधाय वध्यस्य शरं शरण्यः।

जाताभिषङ्गो नप
ृ तिर्निषङ्गा-

दद्ध
ु र्तुमैच्छत्प्रसभोद्धृतारिः॥ (२.३०)

तमार्यगुह्यं निगह
ृ ीतधेनु-

र्मनुष्यवाचा मनुवंशकेतुम ्।
विस्माययन ् विस्मितमात्मवत्ृ तौ

सिंहोरुसत्त्वं निजगाद सिंहः॥ (२.३३)

पुरन्दरश्रीः पुरमुत्पताकं

प्रविश्य पौरै रभिनन्द्यमानः।

भज
ु े भज
ु ङ्गेन्द्रसमानसारे

भूयः स भम
ू ेर्धुरमाससञ्ज॥ (२.७४)

स पूर्वतः पर्वतपक्षशातनं ददर्श दे वं नरदे वसम्भवः॥ (३.४२)

स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती॥ (४.६)

स मण्ृ मयं वीतहिरण्मयत्वात ्

पात्रे निधायार्घ्यमनर्घशीलः।

श्रत
ु प्रकाशं यशसा प्रकाशः

प्रत्युज्जगामातिथिमातिथेयः॥ (५.२)

तमर्चयित्वा विधिवद्विधिज्ञ-

स्तपोधनं मानधनाग्रयायी।

विशां पतिर्विष्टरभाजमारात ्

कृताञ्जलिः कृत्यविदित्यव
ु ाच॥ (५.३)

असौ शरण्यः शरणोन्मुखाना-

मगाधसत्त्वो मगधप्रतिष्ठः।

राजा प्रजारञ्जनलब्धवर्णः
परन्तपो नाम यथार्थनामा॥ (६.२१)

सम्बन्धिनः सद्म समाससाद॥ (७.१६)

अधिकं शुशुभे शुभंयुना

द्वितयेन द्वयमेव सङ्गतम ्।

पदमद्ध
ृ मजेन पैतक
ृ ं

विनयेनास्य नवं च यौवनम ्॥ (८.६)

यमवतामवतां च धुरि स्थितः॥ (९.१)

शमरतेऽमरतेजसि पार्थिवे॥ (९.४)

न महीनमहीनपराक्रमम ्॥ (९.५)

गजवती जवतीव्रहया चमःू ॥ (९.१०)

शतमखं तमखण्डितपौरुषम ्॥ (९.१३)

पथि
ृ वीं शासतस्तस्य पाकशासनतेजसः।

किञ्चिदन
ू मनूनर्द्धेः शरदामयुतं ययौ॥ (१०.१)

भोगिभोगासनासीनं ददृशुस्ते दिवौकसः॥ (१०.७)

कृच्छ्रलब्धमपि लब्धवर्णभाक् ॥ (११.२)

तौ विदे हनगरीनिवासिनां

गां गताविव दिवः पुनर्वसू॥ (११.३६)

सा पौरान ् पौरकान्तस्य॥ (१२.३)

द्विषामामिषतां ययौ॥ (१२.११)


प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन ्॥ (१२.२२)

अथात्मनः शब्दगुणं गुणज्ञः

पदं विमानेन विगाहमानः। (१३.१)

अदः शरण्यं शरभङ्गनाम्न-

स्तपोवनं पावनमाहिताग्नेः। (१३.४५)

स किंवदन्तीं वदतां पुरोगः

स्ववत्ृ तमुद्दिश्य विशुद्धवत्ृ तः।

सर्पाधिराजोरुभोजोऽपसर्पं

पप्रच्छ भद्रं विजितारिभद्रः॥ (१४.३१)

उपकूलं स कालिन्द्याः परु ीं पौरुषभीषणः।

निर्ममे निर्ममोऽर्थेषु मथरु ां मधरु ाकृतिः॥ (१५.२८)

अथोपशल्ये रिपुमग्नशल्य-

स्तस्याः पुरः पौरसखः स राजा।

कुलध्वजस्तानि चलद्ध्वजानि

निवेशयामास बली बलानि॥ (१६.३७)

त्रैलोक्यनाथप्रभवं प्रभावात ्

कुशं द्विषामङ्कुशमस्त्रविद्वान ्।

मनोन्नतेनाप्यभिवन्द्य मूर्ध्ना

मूर्धाभिषेकं कुमुदो बभाषे॥ (१६.८१)


जात्यस्तेनाभिजातेन शूरः शैर्यवता कुशः।

अमन्यतैकमात्मानमनेकं वशिना वशी॥ (१७.४)

अयोध्यादे वताश्चैनं प्रशस्तायतनार्चिताः।

अनद
ु ध्यरु नध्
ु येयं सान्निध्यैः प्रतिमागतैः॥ (१७.३६)

पौत्रः कुशस्यापि कुशेशयाक्षः

ससागरां सागरधीरचेताः।

एकातपत्रां भुवमेकवीरः

पुरार्गलादीर्घभोजो बभ
ु ोज॥ (१८.४)

अग्निवर्णमभिषिच्य राघवः

स्वे पदे तनयमग्नितेजसम ्।

शिश्रिये श्रत
ु वतामपश्चिमः

पश्चिमे वयसि नैमिषं वशी॥ (१९.१)

छन्दः शब्दालङ्कारे षु भवत्यन्तर्गत इति भोजदे वो बभाण। तस्मादिहै व


कालिदासीयच्छन्दोविचितिसरसि किञ्चिदवगाहे महि। रघव
ु ंशे अनष्ु टुप्श्लोक-प्रहर्षिणी-
उपजाति-इन्द्रवज्रा-मालिनी-वंशस्थ-हरिणी-उपेन्द्रवज्रा-वसन्ततिलका-पुष्पिताग्रा-
वियोगिनी-तोटक-मन्दाक्रान्ता-द्रत
ु विलम्बित-शालिनी-औपच्छन्दसिक-रथोद्धता-
मञ्जुभाषिणी-स्वागता-मत्तमयूर-नाराचनामकानि च्छन्दांसि प्रयुक्तानि कालिदासेन।
नैकमपि वत्ृ तं दर्वि
ु नियुक्तम ्। रथोद्धता-द्रत
ु विलम्बितमुखानि च्छन्दांस्यत्रैव प्राथम्येन
प्रयुक्तानीति प्रास्तावि पूर्वमेवास्माभिः। छन्दोगतिमर्म जानता कालिदासेन
प्रतिसर्गमन्ते समुचितं वत्ृ तं विनियुज्यते। महाकाव्यप्रणयनार्थं यानि
भूयस्तरामुपकुर्वते छन्दांसि तान्येव कविना समादृतानि। तत्राप्यनुष्टुप्श्लोके
तथोपजातौ महती रतिः कालिदासस्य। वत्ृ तद्वयमिदं
सर्वक्षममिति च्छन्दोविदां न परोक्षम ्। अजविलापं भावार्द्रया भङ्ग्या वर्णयितुं
वियोगिन्यितरद्वत्ृ तं किमपि न सर्वथा शक्नोति। अथ च
भार्याविप्रयोगाच्चिरदःु खितमजं यदा वसिष्ठः स्वोपदे शैः सान्त्वयितुं प्रायतिष्ट तदा
तद्वचांसि न मनागपि चित्तमजस्य प्रविविशुरिति वक्तुं तोटकाभिधं दर्ल
ु लितगतियुतं
सतानवत्ृ तम ् उपयन
ु क्ति कालिदासः (८.९१)। इत्थमग्निवर्णस्य रभसोद्वेलं लाम्पट्यं
वर्णयितुकामः सुतरां तीव्रोद्दामगतियुतं रथोद्धतावत्ृ तं विनियुनक्ति। एवमन्यादृशं
छन्दोहृदयज्ञानं कविकुलगुरोः॥

अर्थान्तरन्यासविनिवेशः

कालिदासस्तु महाञ्जीवनरसिकः। यथा तस्य शास्त्रेष्वकुण्ठिता बुद्धिस्तथा कलासु


सकलासु निर्निबन्धा भावगतिरासीत ्। तत्तादृश एव
दे शकालवस्तप
ु रिच्छे दातिशायिनीम ् अर्थान्तरन्यासशोभाम ् आतन्वीत। रघव
ु ंशं हि
कालिदासस्य सर्वोत्कृष्टा रचनेति कारणादत्र भूयांसः सन्त्यर्थान्तरन्यासालङ्काराः।
ततः केचिदद्
ु ध्रियन्ते यथा—

हे म्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा (१.१०), सहस्रगुणमुत्स्रष्टुमादत्ते हि


रसं रविः (१.१८), प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः (१.७९), भक्त्योपपन्नेषु
हि तद्विधानां प्रसादचिह्नानि परु ःफलानि (२.२२), सम्बन्धमाभाषण-पर्व
ू माहुः (२.५८),
क्रिया हि वस्तूपहिता प्रसीदति (३.२९), प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम ्
(४.६४), आदानं हि विसर्गाय सतां वारिमुचामिव (४.८६), भिन्नरुचिर्हि लोकः (६.३०),
मनो हि जन्मान्तरसङ्गतिज्ञम ् (७.१५), प्रतिकारविधानमायष
ु ः सति शेषे हि फलाय
कल्पते (८.४०), अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः (९.७४),
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम ् (१०.६), तेजसां हि न वयः समीक्ष्यते
(११.१), काले खलु समारब्धाः फलं बध्नन्ति नीतयः (१२.६९), प्रह्वेष्वनिर्बन्धरुषो हि
सन्तः (१६.८०), वयोरूपविभूतीनामेकैकं मदकारणम ् (१७.४३)॥

उपमा कालिदासस्य

यथा महाज्ञानी सर्वेषु चराचरवस्तष


ु ु आत्मौपम्यमनभ
ु वति तथा महाकविः सर्वेषु तेषु
औपम्यमनुभवति। कालिदासो हि महाकविः। तस्मात्तस्य सादृश्यमूल उपमालङ्कारः
प्रियतमः। तादृशः कोऽपि कविर्नास्ति यः कालिदास इव स्वोपज्ञं सूक्ष्मपरिशीलनफलं
जीवनानुभवसम्पदर्जि
ू तं चोपमानिकुरुम्बकं निर्मातुमीष्टे । उपमासु
कविकुलगरु
ु निर्मितासु वयं प्रकृतिं, मानवस्वभावं, विविधानि शास्त्राणि, सवि
ु पल
ु ाः
कलाः, सांस्कृतिकविच्छित्तीश्च साक्षात्कर्तुं शक्नुयाम। रघुवंशमहाकाव्ये तावदप
ु माया
विश्वरूपं दरीदृश्यते। अत्रत्या पुनरुपमा किंस्वरूपेति पच्
ृ छायां कालिदासरचितमेव
पद्यं समाधत्ते—

सर्वोपमाद्रव्यसमुच्चयेन

यथाप्रदे शं विनिवेशितेन।

सा निर्मिता विश्वसज
ृ ा प्रयत्ना-

दे कस्थसौन्दर्यदिदृक्षयेव॥ (कुमारसम्भवम ्, १.४९)

यद्यपि महती पद्यचिचीषा तत्परिचिचीषा च नः। अथापि स्थलाभावादप


ु मालङ्काराः
केचन एवात्र प्रस्तूयन्ते। अनन्तपारं हि पद्यनक्षत्रजालम ्। तत्र यन्नयनपथमवतरति
नस्तदे व निरूप्यते॥

प्रकृतिमूला उपमा—

पुरस्कृता वर्त्मनि पार्थिवेन

प्रत्युद्गता पार्थिवधर्मपत्न्या।

तदन्तरे सा विरराज धेन-ु

र्दिनक्षपामध्यगतेव सन्ध्या॥ (२.२०)

सामान्यतया दिलीपः पाण्डरवसनधरः सद


ु क्षिणा च नीलवासोविभूषिता। तयोर्मध्ये
नन्दिनी पल्लवस्निग्धपाटला गौः सन्ध्येव दिनक्षपान्तरालस्थिता विरराज। अनेन हि
तदा भगवती सन्ध्या समदि
ु तेति ध्वन्यते॥

सा किलाश्वसिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।

उद्ववामेन्द्रसिक्ता भर्बि
ू लमग्नाविवोरगौ॥ (१२.५)
दशरथेन दत्तं वरद्वयं कैकेयी यदा चकमे तदा सेयमुपमा प्रोक्ता। निदाघपीडिताः
सर्पाः खलु वसध
ु ान्तर्लग्नाः पश्चाद्वष्ृ टमात्रे दे वे बहिरायान्ति। उरगोपमानेन
कैकेयीकामितस्य वरद्वितयस्य विषत्वमसख
ु त्वं च व्यज्यते॥

लोकमल
ू ा उपमा—

आपादपद्मप्रणताः कलमा इव ते रघम


ु ्।

फलैः संवर्धयामासरु
ु त्खातप्रतिरोपिताः॥ (४.३७)

कलमास्तावदप्ु ताः पुनरुत्खाताः प्रतिरोपिताश्च भूयसा फलेग्रहितां यान्ति। एवं रघुणा


समत्ु खाताः पार्थिवाः स्वस्थानेषु पन
ु ः प्रतिष्ठापिताश्च तं फलैः संवर्धयामासःु ॥

सा पौरान ् पौरकान्तस्य रामस्याभ्युदयश्रुतिः।

प्रत्येकं ह्लादयाञ्चक्रे कुल्येवोद्यानपादपान ्॥ (१२.३)

उद्याने प्रसरज्जलमयी कुल्या प्रत्येकं पादपं सलिलसेकेन सन्तोषयति।


अभ्युदयश्रुतिरपि रामस्य कुल्येव पादपभूतान ् पौरान ् प्रत्येकं ह्लादयाम्बभूव। अत्र
पौरा एव परस्परं रामाभ्यद
ु यं कीर्तयन्तः परां मद
ु मापरि
ु ति वक्रमार्गेण कथितम ्॥

परु ाणमल
ू ा उपमा—

प्रदक्षिणप्रक्रमणात्कृशानो-

रुदर्चिषस्तन्मिथुनं चकासे।

मेरोरुपान्तेषिव वर्तमान-

मन्योन्यसंसक्तमहस्त्रियामम ्॥ (७.२४)

स्वर्णकायं मेरुं सर्वाण्यपि ज्योतींषि प्रदक्षिणीकुर्वन्तीति परु ाणविदां न तिरोहितम ्।


तदप
ु ान्ते तावदन्योन्यसंसक्तमिव भाति दिनक्षपायुगलम ्। इन्दम
ु त्या साकमजो यदा
पाणिपीडनकर्मणि प्रज्वलन्तमग्निं प्रदक्षिणीचकार तदा तन्मिथुनं मेरोः समीपे
वर्तमानमहस्त्रियाममिव बभासे। इदं पद्यं कुमारसम्भवे च यथावल्लभ्यते (७.७९)॥
निर्वर्त्यैवं दशमख
ु शिरश्छे दकार्यं सुराणां

विष्वक्सेनः स्वतनुमविशत ् सर्वलोकप्रतिष्ठाम ्।

लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा

कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च॥ (१५.१०३)

सम्पन्नतां स्वावतारस्य मन्वानः श्रीरामस्तु विभीषणहनम


ू न्तौ
त्रिकूटाचलप्रालेयाचलयोः कीर्तिस्तम्भरूपिणौ स्थापयामास। आञ्जनेयविभीषणौ
चिरञ्जीविनौ। अतः कल्पान्तं यावद् रामस्य लोकम्पण
ृ ा कीर्तिः स्थास्यतीति
ध्वनितोऽर्थः॥

नीतिमूला उपमा—

द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम ्।

त्याज्यो दष्ु टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥ (१.२८)

रिपुमपि शिष्टं पुरस्कुर्यात ्, प्रियमपि दष्ु टं तिरस्कुर्यादिति विवक्षुः कालिदास


उपमाद्वयं स्वरसरुचिरं रचयामास॥

वन्यवत्ति
ृ रिमां शश्वदात्मानुगमनेन गाम ्।

विद्यामभ्यसनेनैव प्रसादयितुमर्हसि॥ (१.८८)

नन्दिनीं सेवितक
ु ामं दिलीपं भगवान ् वसिष्ठ इत्थं बोधयति। “शास्त्रं स्वधीतमपि तत ्
परिचिन्तनीयम ्” इतीदम ् “आवत्ति
ृ ः सर्वशास्त्राणां बोधादपि गरीयसी” इतीदं च
सभ
ु ाषितशकलमत्रानुसन्धेयम ्॥

अमूर्ततत्त्वमूला उपमा—

प्रलोभिताप्याकृतिलोभनीया

विदर्भराजावरजा तयैवम ्।
तस्मादपावर्तत दरू कृष्टा

नीत्येव लक्ष्मीः प्रतिकूलदै वात ्॥ (६.५८)

यस्मिन ् दै वतं न प्रसन्नं तस्माल्लक्ष्मीः परु


ु षकारे ण प्रलोभितापि प्रतिनिवर्तते। तथा
सुनन्दया प्रचोदितापि विदर्भराजावरजा हे माङ्गदराजादपावर्तत। अत्र सुनन्दा
परु
ु षकारतल्
ु या, हे माङ्गदः प्रतिकूलदै वसदृशः, इन्दम
ु ती च लक्ष्मीसन्निभेति निष्कर्षः।
अपूर्वेयमुपमा॥

इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः।

कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥ (१२.५९)

यथा तावदार्तं मनः सर्वत्र सत्वरं प्रसरति तथा सीतामन्वेष्टुकामाः कपयः सर्वासु
दिक्षु विचेरुः। अत्यन्तं मनोज्ञेयमप
ु मा॥

शास्त्रमल
ू ा उपमा—

काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः।

हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव॥ (१.४६)

वसिष्ठाश्रमं यास्यतोर्दिलीपसुदक्षिणयोः काचिदनन्या शोभावर्तत। सा च शिशिरावसाने


चित्राचन्द्रमसोरिव बभूव। शिशिरात्यये तावच्चैत्रमासो विराजते। तदा हि गगनं
सवि
ु शदं परिलक्ष्यते। चैत्रमासस्य पर्णि
ू मायां चित्रानक्षत्रमवश्यं भवति। अनेन
दिलीपस्य पूर्णचन्द्रत्वं व्यज्यते। महाञ्ज्योतिर्वित ् कालिदास उपमामीदृशीं सन्ददर्भेति
किमत्र चित्रम ्॥

ता नराधिपसुता नप
ृ ात्मजै-

स्ते च ताभिरगमन ् कृतार्थताम ्।

सोऽभवद्वरवधूसमागमः

प्रत्ययप्रकृतियोगसन्निभः॥ (११.५६)
दशरथपुत्रःै सह जनककन्यकानां समागमः प्रत्ययप्रकृतियोगसन्निभो बभूवेति
व्याकृतिचमत्कृतिभषि
ू तेयम ् उपमा। प्रत्ययः प्रकृतिर्वा न स्वातन्त्र्येण सार्थकतामेति।
अतस्तयोः सहयोगित्वमपेक्षितम ्। इत्थं वधूवरसमागमः समभूदिति कथनमतितरां
रमणीयम ्॥

उपसंहारः

पुरुषार्थचतुष्टयप्रतिपादकं रघुवंशं हि राष्ट्रियं महाकाव्यं नः। बलिनो बाध्यता


परमावश्यकी, यदि कश्चन सम्पन्मल
ू समन्वितो बली बाध्यतारहितः स्यात्तर्हि दरु
ु द्धरा
तत्तिरोगतिरिति बोधयति कालिदासः। रघव
ु ंशं व्यत्पि
ु त्सन
ू ् व्यत्ु पन्नांश्च सममेव
रञ्जयति निरञ्जयति च। संस्कृतेन व्यवजिहीर्षवः कवीबुभूषवश्च पद्यान्यत्रत्यानि
कण्ठस्थानि यदि कुर्युः सङ्कल्पस्तेषां ध्रुवं सेत्स्यति। अवश्यमध्येयमिदं काव्यं
जीवनरसिकैः सर्वैरिति सर्वं शिवम ्॥

॥ सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते॥

[1] यदालोके सूक्ष्मं भजति सहसा तद्विपल


ु तां

यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत ्।

प्रकृत्या यद्वक्रं तदपि समरे खं नयनयो-

र्न मे दरू े किञ्चित ् क्षणमपि न पार्श्वे रथजवात ्॥ (अभिज्ञानशाकुन्तलम ्, १.९)

शैलानामवरोहतीव शिखरादन्ु मज्जतां मेदिनी

पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः।

सन्धानं तनभ
ु ागनष्टसलिलव्यक्त्या व्रजन्त्यापगाः

केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते॥ (अभिज्ञानशाकुन्तलम ्, ७.८)

You might also like