You are on page 1of 7

श्रीअनन्तनाथाय नमः। निर्विघ्नमस्तु।

श्रीमद्विजयवर्णीविरचितायाः शृङ्गारार्णवचन्द्रिकायाः प्रतिपाद्यम्

विपाशा जैनः
राष्ट्रिय-संस्कृ त-संस्थानम्,जयपुरपरिसरः

‘साहित्यम्’ अस्य शब्दस्य व्युत्पत्तिः “साहित्यस्य भावः कर्म वा साहित्यम्” अस्मिन्नर्थे सहितशब्दात् ष्यञ्प्रत्यये सति भवति। “हितेन सहितौ शब्दार्थौ
सहितौ, तयोर्भावः कर्म वा साहित्यम्” इति अर्थः साहित्यस्य। साहित्यशास्त्रे अनेके लक्षणग्रन्थाः भवन्ति येषु काव्यस्वरूपम्, अलङ्कारविवेचनम्,
रसादीनां प्रतिपादनम्, गुणदोषवृत्तीत्यादीनां वर्णनम्- इत्यादीनां विषयानां सम्यग्दर्शनं लभामहे।

शृंगारार्णवचन्द्रिकायाः लेखकः श्रीविजयवर्णी अस्ति। सः दिगम्बरजैनमुनेः श्रीविजयकीर्तेः शिष्यः आसीत्। तस्य कालः त्रयोदशतमेख्रिस्ताब्देः मध्यभागः
निश्चीयते। शृङ्गारार्णवचन्द्रिकायाः रचना कामिराजस्य प्रार्थनायां बभूव।1

अयं ग्रन्थः अलङ्कारविषयकः ग्रन्थोऽस्ति। ग्रन्थस्यास्यापरनाम अलङ्कारसंग्रहः अस्ति। अस्मिञ्च दशपरिच्छेदाः सन्ति। अस्य ग्रन्थस्य वैशिष्ट्यमिदमस्ति
यत् प्रत्येकस्मिन् स्थले यानि कान्यपि उदाहरणानि दत्तानि, तानि उदाहरणानि कामिराजस्य कीर्तिगानाय स्वयमेव रचितानि अत एव कथ्यते यत् अयं
ग्रन्थः जगन्नाथस्य रसगङ्गाधरेण, विद्याधरस्य एगावल्या, विद्यानाथस्य च प्रतापरुद्रयशोभूषणेन सह साम्यं भजते।

अयं ग्रन्थः संस्कृ तसाहित्यस्य संरचनाविज्ञानपरम्परायाः एव एकः अंशः अस्ति, काव्यशास्त्रस्य लक्षणग्रन्थोऽस्ति- यस्मिन् विषये महद्भिः विद्वद्भिः पूर्वमेव
अनेके ग्रन्थाः रचिताः; अतः एतस्मिन् किमपि सम्पूर्णतया नावीन्यम् अस्ति एषा अपेक्षा न करणीया। अनेके षु स्थानेषु कविः स्वयमेव प्राचीनानां विदुषां
स्मरणं विदधाति। कवेः कार्यात् स्पष्टतया लक्ष्यते यत् तेन पुरातनानां काव्यशास्त्राणां गहनाध्ययनं कृ तमस्ति।

ग्रन्थारम्भे एव कविः लिखति यत् ‘इत्थं नृपप्रार्थितेन मयालङ्कारसंग्रहः। क्रियते सूरिणा नाम्ना शृङ्गारार्णवचन्द्रिका।।’ इतः ज्ञातुं शक्नुमः यत् महोदयेन
प्रबन्धस्य सामान्यनामकरणं ‘अलङ्कारसङ्ग्रहः’ कृ तः। अयं शब्दः दलद्वयेन निर्मितम्- अलङ्कारः सङ्ग्रहश्च। अलङ्कारशब्देन न के वलालङ्काराः अपितु
काव्ये शोभावर्धकाः सर्वे एव घटकाः ग्रहीतव्याः येन काव्ये उत्तमत्वमायाति यथा- रसाः भावाः गुणाः शय्या पाकः इत्यादयः। सङ्ग्रहः नाम च संक्षेपेण
कथनं सञ्चयनम् वा। अतः अलङ्कारसङ्ग्रहस्य मुख्यार्थः भवति- संस्कृ तकाव्यसंरचनांशानां सञ्चयनमिति।

अस्यैव ग्रन्थस्य विशेष संज्ञा ‘शृङ्गारार्णवचन्द्रिका’ अस्ति। अस्मिन् शब्दे त्रयः शब्दाः सन्ति- शृङ्गारः अर्णवः चन्द्रिका च। शृङ्गार नाम नवरसेषु अन्यतमः,
अर्णव नाम वारिधिः, चन्द्रिका नाम कौमुदी। अतः साकल्येन अस्य शब्दस्य अर्थः भवति शृङ्गारवारिधये कौमुदी। कौमुदी इत्युक्ते विचार्यमाणेषु विषयेषु
प्रकाशः। कवीश्वरः स्वस्याः कृ तेः तुलना चन्द्रिकया सह करोति या अतीव मधुरा आह्लादिका चास्ति, एवमेव अस्य प्रबन्धस्य पठनमपि आह्लाददमेव
भविष्यति। अस्य नाम्नः एवमपि अर्थः भवितुमर्हति यत् शृङ्गाररसस्य तत्सम्बन्धीनां काव्यप्रकरणानाञ्च विस्तृताध्ययनम्।

1
इत्थं नृपप्रार्थितेन, मयालङ्कारसङ्ग्रहः।
क्रियते सूरिणा नाम्ना, शृङ्गारार्णवचन्द्रिका।।
यथा शृङ्गारप्रकाशे महाकविभोजेन शृङ्गाररसस्य विशेषेण प्रतिपादनं कृ तम्, तथा अस्मिन् प्रबन्धे नास्ति। तदा किमर्थं शीर्षके शृङ्गारः इति नाम योजितम्?
प्रायः एतस्य इदं कारणं भवितुं शक्नोति यत् शृङ्गारः रसराजः विद्यते। यदा शीर्षके सर्वाधिकस्य महत्त्वपूर्णस्य नामोल्लेखः अस्ति, तदा तस्य सम्बन्धिनः,
समीपवर्तिनः काव्यविषयाः अपि तस्मिन् अन्तर्भवन्ति- इति ज्ञानं स्वयमेव जायते।

ननु अस्मिन् प्रबन्धस्य प्रतिपाद्यविषयः कः? इति वयं अध्यायानुसारं क्रमशः विचारयामः -

प्रथमपरिच्छेदः -

प्रथमे नाम-वर्ण-गण-फलनिर्णये परिच्छेदे ग्रन्थस्यारम्भः मङ्गलाचरणेन भवति यत्र जिनः नम्यते। तदनन्तरम् ज्ञानैकफलशालिनीं शारदां नमस्करोति,
समन्तभद्रादिमहाकवीश्वरान् च स्मरति। श्रीमद्विजयकीर्तिः श्रीमद्विजयवर्णिनः गुरुरस्ति, तमपि ग्रन्थारम्भे सः स्मरति। पूज्यपदानां नमनानन्तरम्
कामिराजस्य वंशपरम्परायाः स्मरणम् लेखकः करोति। कदम्बनृपेषु वीरनरसिंहः, पण्ड्यराजः (वीरनरसिंहस्य भ्राता), राजशेखरः (वीरनरसिंहस्य पुत्रः),
कामिराजश्च बभूवुः। कामिराजः श्रीमद्विजयवर्णिनः समकालीनः, वङ्गभूम्याः च राजा आसीत्। सः एव कामिराजः एकदा काव्यगोष्ठ्यां विजयवर्णीमपृच्छत्
काव्यरसभाववर्णशुद्धिअलङ्कारवृत्तिरीतीनां विषये। अतः आदौ एव श्रीविजयवर्णिना काव्यलक्षणं प्रत्यपादि-

अदोषः सगुणो रीतिवृत्तिशय्यारसान्वितः।


सालङ्कारः सपाकश्च शब्दार्थरचनोत्तमः।।
समुद्रनगरीशैलसुधाकरदिवाकर।
षडर्तुजलके लीनां वर्णनाभिरलङ्कृ तः।।
संभोगविप्रलम्भाभ्यां मधुपानैः कु मारकैः।
विवाहमन्त्रदूताभ्यां प्रयत्नेनविभूषितः।।
संग्रामनायकै श्वर्यवर्णनाभिर्विभूषितः।
मनोज्ञभावसन्दर्भः कवीश्वरनिरुपितः।।
धर्मार्थकाममोक्षाख्यसत्फलानां प्रकाशकः।
महानु-------
विधुप्रबन्धसंज्ञोऽयं बुधैः काव्यं प्रकीर्तितम्।
रसभावज्ञलोकानां प्रमोदाय प्रकल्पते।।

ततः परं काव्यस्य भेदानाह- काव्यस्य भेदत्रयमस्ति- गद्यकाव्यम्,पद्यकाव्यम्, मिश्रकाव्यञ्च। तेषामपि प्रत्येकस्य पुनः भेदत्रयमस्ति- उत्तमम्, मध्यमम्,
जघन्यञ्च। एवं साकल्येन काव्यस्य नवभेदाः सम्भवन्ति। ध्वनिभिर्व्यक्तम् उत्तमम्, मध्यमम् अव्यक्तम्, ध्वन्यर्थशून्यं काव्यञ्च जघन्यं भवति।
छन्दसां गणपरिचयः, तेषां फलम् अपि अस्मिन् अध्याये अस्ति; तत्प्रकरणं प्रायः छन्दःशास्त्रेषु एव उपलभ्यते, परन्तु इदमेव तत्काव्यशास्त्रं यस्मिन्
छन्दःशास्त्रस्यविषयापि विशदरीत्या दृश्यते। प्रतिगणस्य देवतापि भवति, प्रतिछन्दसि च गणानां भिन्ना भूमिका एव भवति। अन्ते च,
‘श्रीमद्वीरनृसिंहरायनृपतेः कीर्तिः विजयताम्’ इति कृ त्वा प्रथमः परिच्छेदः समाप्तः।

द्वितीयपरिच्छेदः -

द्वितीये अध्याये आदौ कवेः लक्षणं निरुप्यते-

प्रतिभाशक्तिसम्पन्नो व्युत्पत्यभ्यासभूषितः।
अष्टादशस्थलार्थानां वर्णनानिपुणः कविः।।
अथवा शक्तिनैपुण्यकविशिक्षात्रयान्वितः।
रसभावपरिज्ञानगुणाढ्यः कविरुच्यते।।

ततः विजयवर्णी कवेः रुच्यनुसारं, क्षमतानुसारं वा सप्तभेदान् लिलेख- रौचिककविः, वाचिककविः, आर्थकविः, शिल्पिककविः, मार्दवानुगनादभाक्
कविः, विवेकीकविः, भूषणार्थीकविश्च। राजशेखरेण काव्यमीमांसायामपि कवेः अष्टभेदाः उक्ताः, परन्तु तत् विभाजनं एभ्यः भेदेभ्यः भिन्नमस्ति। यद्यपि
राजशेखरः सोदाहरणमेतेषां लक्षणं निरूपयति, परन्तु अत्र श्रीमद्विजयवर्णिना के वलं लक्षणमेव लक्षितम्।

तदनन्तरं तस्मिन्नेवाध्याये अर्थस्य चातुर्विध्यं निरूपितमस्ति- 1. मुख्यार्थः 2. लक्ष्यार्थः 3. गौणार्थः 4. व्यङ्ग्यार्थः च। साक्षात् संके तितविषयः
मुख्यार्थः भवति, यः जातिः, क्रिया, गुणः,द्रव्यम्- इति भेदेन चतुर्धा भवति। मुख्यार्थे बाधिते सति यः मुख्यसंबन्ध्यर्थः अन्यार्थत्वेन लक्ष्यते, सः
लक्ष्यार्थः। यः अर्थः मुख्यबाधे निमित्ते च अभेदेन भेदेन फले आरोप्यते, सः गौणार्थः भवति। यः अर्थः मुख्यार्थात्, लक्ष्यार्थात्, गौणार्थात् च भिन्नः
प्रतीयते, सोऽर्थः व्यङ्ग्यार्थः, ध्वनिनाम्नापि प्रसिद्धोऽस्ति।

इदं प्रकरणं मुख्यत्वेन काव्यप्रकाशस्य द्वितीयतृतीयोल्लासौ अवलम्ब्य लिखितमस्ति। अन्ते च, पुनः वीरनृसिंहरायस्य कीर्त्तिगानं कृ त्वा अयं परिच्छेदः
समाप्तिमेति।

तृतीयपरिच्छेदः -

तृतीयस्य परिच्छेदस्य नाम रसभावनिश्चयः अस्ति। यथा जनाय निर्लवणं शाकं न रोचते, तथैव सतां मनसे निरवद्यवर्णगणयुतमपि रसरहितं काव्यं न
रोचते। विभावैरनुभावैश्च सात्त्विकैः व्यभिचारिभिश्च व्यक्तः स्थायिभावः रसः भवति। यः चित्तस्य वृत्तिभेदः स्थायित्वं प्राप्तवान्, सः स्थायिभावः निगद्यते।
सः स्थायिभावः नवधा भवति- रतिः, हासः, शोकः, कोपः, उत्साहः, भयः, जुगुप्सा, विस्मयः, शमश्च। एतैः स्थायिभावैः ये रसाः व्यज्यन्ते तेऽपि
शृंगारहास्यकरुणरौद्रवीरभयानकवीभत्साद्भुतशान्तभेदैः नव भवन्ति। श्रव्यकाव्येषु (गद्यपद्यादिकाव्येषु) रसाः के वलं सहृदयैः पाठकैः श्रोतृभिर्वा अनुभूयन्ते,
दृश्यकाव्ये (नाटकादिषु) च रसानामनुभवः दर्शकाय भवति।
भावसात्त्विकभावव्यभिचारिभावानामपि वैशद्येन वर्णनमस्मिन् अध्याये लभ्यते। एवं रसस्य भिन्नानाम् अंशानां चर्चां कृ त्वा प्रतिरसस्य विशेषेण
शृङ्गारादीरसानां स्वरूपकथनाय लेखकः प्रतिजानाति।

रसराजस्य शृङ्गाररस्य विशदविवेचनं अन्येभ्यः रसेभ्यः अपि श्रेष्ठतया अस्मिन् ग्नन्थे कृ त्वा अस्य ग्नन्थस्य नाम सार्थकं क्रियते श्रीमद्विजयवर्णिना। सर्वेषां
रसानां स्वरूपनिदर्शनं ग्रन्थकारः स्वरचितैः उदाहरणैः करोति। अस्मिन् ग्रन्थे शान्तरसस्य जैनदर्शनमवलम्ब्य विशेषवर्णनमस्ति। शान्तरसस्य विभावाः
यथा-

आलम्बनविभावस्तु, पञ्चानां परमेष्ठिनाम्।


स्वरूपं निजरूपं वा, निश्चयव्यवहारतः।।
उद्दीपनास्तु स्याद्वादवेदिसंभाषणादयः।
सर्वत्रसमभावादिरनुभावः प्रकीर्तितः।।

अन्ते लेखकः नवरसानां देवतापरिचयः वर्णपरिचयः उत्पत्तिपरिचयः च ददौ। कः रसः कस्य विरोधी अस्ति, शान्तरसस्य कोऽपि विरोधी न वर्तते-
इत्यपि अस्मिन्नेव अध्याये उल्लिखितः। अस्मिन् ग्रन्थे एकं वैशिष्ट्यमपि अस्ति यत् शृंगाररसस्य देवता परब्रह्मं वर्णयति। अन्येषु ग्रन्थेषु एषः उल्लेखः न
प्राप्यते। अन्ते च, ‘भवान् विलसत्कीर्तिः वर्धतात्’ एवं महाराजस्य कीर्तिगानं क्रियते।

चतुर्थपरिच्छेदः -

चतुर्थपरिच्छेदे लेखकः नायकस्य नायिकायाश्च तेषाञ्च भेदानां निर्णयः करोति। यथा गुणिनः अभावे गुणाः न सम्भवन्ति, तथैव नायकस्य असंभवे सति
रसभावाः अपि न सम्भवन्ति। अस्मिन् लोके नायकैः विना सामाजिके न सह रसानां मेलनं न भवितुं शक्नोति, अतः अग्रिमेऽध्याये नायकस्य,
नायिकायाः, उपनायके त्यादीनां स्वरूपं दर्शयति। नायकस्य किं लक्षणम्? तदाह-

जनानुरागः प्रियवादिभावो, वाग्मित्वशौचे विनयः स्मृतिश्च।


कु लीनतास्थैर्यदृढत्वमाना, माधुर्यशौर्ये नवयौवने च।।
उत्साहो दक्षता बुद्धिस्त्यागस्तेजः कला मतिः।
धर्मशास्त्रार्थकारित्वं प्रज्ञा नेतृगुणा इमे।।

सः नायकः चतुर्विधः भवति- धीरोदात्तः, धीरललितः, धीरशान्तः, धीरोद्धतश्च। एते नायकाः स्वमानसानुसारं कमपि रसं जनयितुं प्रभवन्ति। नेतृणां
अष्टचत्वारिंशत् भेदाः सम्भवन्ति। नायकानां सहायकाः उपनायकाः विदूषकः, पीठमर्दः, विटः, नागरिकश्च भवन्ति, अतः प्रसङ्गे प्राप्ते तेषामपि लक्षणं
ग्रन्थे निरूपितम्। पुनः ये पापपरायणाः नायकाभासाः प्रतिभान्ति, ते प्रतिनायकाः उच्यन्ते। नायकानां यौवने गुणाष्टकं भवति- तेजः, विलासः, माधुर्यं,
शोभा, स्थैर्यं, गभीरता, औदार्यं, ललितञ्च। एतेषां गुणानपि विशदीकृ त्य लेखकः नायिकायाः लक्षणं निरूपयति-

सामान्यनायकप्रोक्तविनयादिगुणान्विता।
नारी तु नायिका प्रोक्ता सापि नारी चतुर्विधा।।
स्वकीया, परकीया, अनूढा, साधारणा च- इमे नायिकायाः चत्वारः भेदाः भवन्ति। या अनूढा सा स्वयं नायकमिच्छति, परकीया च सखीवाचा
नायकसंनिधिं याति। परन्तु के षाञ्चन मते अनूढा नायिका परकीयायामेव अन्तर्भवति, अतः भेदत्रयमेव जायते। नायकस्य पत्नी त्रिधा भवति- मुग्धा,
मध्या, प्रगल्भा च। मध्यानायिकाः प्रगल्भानायिकाश्च आदौ धीरा, अधीरा, धीराधीरा भेदेन, पुनश्च ज्येष्ठा कनिष्ठा भेदेन षड्विधाः भवन्ति। नायिकानाम्
प्रियेण सह अष्टौ सम्बन्धाः अपि प्ररूपिताः – स्वाधीनपतिका, वासकसज्जिका, कलहान्तरिता, विप्रलब्धा, विरहोत्कण्ठिता, प्रोषितभर्तृका, खण्डिता,
अन्त्याभिसारिका च।

नायिकानां सहायिकाः उपनायिकाः सखी, दासी, लिङ्गिनी, प्रतिवेशिनी, धात्रेयी, शिल्पिका, कारुः दूती च भवन्ति।

पञ्चमपरिच्छेदः -

पञ्चमस्य अध्यायस्य नाम दशगुणनिश्चयः अस्ति। एतस्मिन् एकत्रिंशत् श्लोकाः सन्ति। यथा लोके निर्गुणा रमणी सद्भिः न पूज्यते, तथैव कवीश्वरैः
निर्गुणः काव्यबन्धः अर्च्यः न भवति। अतः गुणस्वरूपं ज्ञेयम्। सुकु मारत्वम्, औदार्यम्, श्लेषः, कान्तिः, प्रसन्नता, समाधिः, ओजः, माधुर्यम्, अर्थव्यक्तिः,
साम्यकञ्च एते दशगुणाः भाषिताः।

षष्ठपरिच्छेदः –

अस्य परिच्छेदस्य नाम रीतिनिश्चयः अस्ति। यथा लोके ऽपि रीतिशून्या कन्या मान्या न भवति, तथैव रसिकजनैः रीतिशून्यं काव्यं मान्यं न भवति।
माधुर्यादिगुणोपेतपदानां घटनात्मिका रीतिरुच्यते। सा रीतिः चतुर्विधा अस्ति – वैदर्भी, गौडिका, लाटी, पाञ्चाली च।

सप्तमपरिच्छेदः –

यथा वृत्तिरहितस्य सूत्रस्य अर्थः नृणां चेतसि न भासते, तथैव रसिकाय वृत्तिरिक्तं काव्यं न रोचते। वृत्तेः लक्षणं भेदांश्च कु र्वन् आचार्यः विजयवर्णीः
शृङ्गारार्णवचन्द्रिकायां लिखति यत्-

सरसार्थौघसन्दर्भलक्षणा वृत्तिरिष्यते।
कै शिक्यारभटी भारती मता सात्वती बुधैः।।

अष्टमपरिच्छेदः –

अयं परिच्छेदः लघुतमः। यथा लोके अशय्या कामके ली वा कृ तिः न शोभते, तथैव काव्येऽपि शय्या महत्त्वपूर्णा। पदानामानुगुण्यं अन्योन्यमित्रत्वं वा शय्या
उच्यते। अस्योदाहरणं यथा-
कादम्बेश्वररायबङ्गनृपतेः सत्कीर्तिजालं मह-
ल्लोकाभोगविराजितं कविजनैः क्षीराब्धिरित्युच्यते।।
कल्पानोकहपुष्पमम्बरनदीवनीहारजालं हर।
स्तत् सर्वं सदृशं न तेन तदिदं तस्योपमां गच्छतु।।

पुनः, यदि अपूर्वं भोजनमस्ति परन्तु पाकरहितमस्ति, तदा तत् भोजनम् अपूर्वे सत्यपि अस्मिन् लोके न रोचते। तथैव काव्यबन्धः अपाके सति भवति।
अतः अस्मिन् ग्रन्थे पाकस्य स्वरूपमपि निगदितमस्ति। पूर्वोल्लिखितानां चतुर्विधार्थानां गाम्भीर्यमेव पाकः उच्यते। सः पाकः द्राक्षापाकः नालिके रपाकः
इति भेदेन द्विविधम्।

नवमपरिच्छेदः –

अलङ्कारनिर्णयनाम्नि नवमे परिच्छेदे अलङ्काराणां लक्षणस्य भेदानाञ्च प्रतिपादनमस्ति। यथा लोके निरलङ्कारं स्त्रीरूपं न विभाति, तथैव काव्येऽपि
निरलङ्कारता न शोभते। काव्याङ्गभूतौ शब्दार्थौ श्रिताश्चित्रोपमादयः काव्यचारुत्वहेतवः अलङ्काराः प्रकीर्त्यन्ते। ते अलङ्काराः काव्यशोभाकराः काव्यधर्माः
भवन्ति। अलङ्कारस्य द्वौ भेदौ स्तः – शब्दालङ्कारः अर्थालङ्कारश्च। शब्दालङ्कारः अपि यमकम्, चित्रम्, वक्रोक्तिः, अनुप्रासः – इति कृ त्वा चतुर्विधः
भवति। तेषां लक्षणम् अस्मिन् ग्रन्थे न कृ तम्। अर्थमाश्रित्य ये काव्यस्य चारुत्वं जनयन्ति ते अर्थालङ्काराः स्वभावोक्त्यादिभेदेन बहुधा भवन्ति।
श्रीमद्विजयवर्णीः अस्मिन् ग्रन्थे सप्तचत्वारिंशत् अर्थालङ्काराणां वर्णनं करोति। दण्डिनः काव्यादर्शमनुसृत्य उपमायाः त्रयस्त्रिंशत् भेदानां रूपकस्य च
विंशतिभेदानां निरूपणमस्मिन् कृ तम्।

अलङ्काराणां स्वरूपान् श्रीमद्विजयवर्णीः शृङ्गारार्णवचन्द्रिकायां प्रदर्शितवान्। एतेषां अलङ्काराणां भेदान् दृष्टान्तान् च लेखकः स्वनिर्मितैः श्लोकैः प्रदर्शयति।

दशमपरिच्छेदः –

अस्य परिच्छेदस्य नाम दोषगुणनिर्णयः अस्ति। यथा इह लोके निर्दोषधर्मः पुण्याय एव प्रवर्तते, तथैव निर्दोषकाव्यं पुण्याय प्रकल्प्यते। असमर्थम्,
श्रुतिकटुः, निरर्थकम्, अवाचकम्, च्युतसंस्कृ तिः, अप्रयुक्तम्, ग्राम्यम्, अश्लीलकम्, नेयार्थम्, क्लिष्टम्, संदिग्धम्, अनुचितार्थकम्, अविमृष्टविधेयांशम्,
विरुद्धम्, अतिकृ त्, अप्रतीतम् – इति पददोषाः विशारदैः प्रोक्ताः, ये काव्ये सम्भवन्ति। एते दोषाः पदगताः दोषाः, एतेषु के चन पदैकदेशेऽपि
भवितुमर्हन्ति। पदगतदोषकथनानन्तरम् वाक्यगतदोषान् अपि श्रीमद्विजयवर्णीः वर्णयति।

तदनन्तरं कविः पुनः अर्थगतदोषाणामपि संकीर्तनं वितनोति। अपुष्टत्वम्, कष्टत्वम्, संदिग्धम्, व्याहतः, ग्राम्यम्, दुष्क्रमः, व्यर्थीकृ तः, निर्निमित्तम्,
पुनरुक्तः, अश्लीलः, साकाङ्क्षः, प्रसिद्धिविरुद्धः, विद्याविरुद्धः,पूर्वापरविरुद्धम्, सनियमानियमा, विशेषाविशेषपरिवृत्तः, विध्यनुवादविवृतः,
त्यक्तःपुनःस्वीकृ तः, सहचरभिन्नः – एते अर्थानां दोषाः प्रकीर्त्यन्ते। एवं काव्ये जायमानेषु विविधानां दोषाणां दर्शनमस्मिन् अध्याये श्रीविजयवर्णिना
कारितम्। क्वचित् क्वचित् एते पदवाक्यार्थगताः दोषाः गुणीभावमपि प्रयान्ति। तेषां स्थितीनां सोदाहरणं कथनं आचार्येण क्रियते।
अकाण्डे प्रथनम्, अङ्गस्य छेदः, अतिविस्तृतिः, अङ्गिनः अननुसन्धानम्, प्रकृ तीनां विपर्ययः, अनङ्गस्याभिधानम् च- एते रसदोषाः भवन्ति। रसस्य
अनौचित्यं रसाभासः स्यात्, स च रसाभासः अनेकविषयोऽप्येकविषयः, अनुचितः भेदेन द्विधा भवति। रसे भावे प्रतीते च तद्वाचकपदग्रहः स्वशब्दग्रहणं
यत्र भवति, सोऽपि सद्भिः रसदोषः प्रकीर्त्यते। एवं काव्यस्य सर्वेषां घटकानां वर्णनं विधाय श्रीमद्विजयवर्णीः इमं ग्रन्थं रायबङ्गमहीनाथाय प्रस्तौति। अन्ते च
महाराजस्य प्रशंसास्वरूपं श्लोकत्रयं लिखति। तेष्वेकः श्लोक- -

स्याद्वादधर्मपरमामृतदत्तचित्तः
सर्वोपकारिजिननाथपदाब्जभृङ्गः।।
कादम्बवंशजलराशिसुधामयूखः।
श्रीरायबङ्गनृपतिर्जगतीह जीयात्।।

अस्मिन् ग्रन्थे काव्यस्य अनेकांशानां प्रतिपादनं लभ्यते, अतः अयं ग्रन्थः सर्वैः पठनीयम्।

एवं
श्रीमत्सुरासुरवृन्दवन्दितपादपाथोजश्रीमन्नेमीश्वरसमुत्पत्तिपवित्रीकृ तगौतमगोत्रोत्पत्तिसमुद्भूतद्विजश्रीमद्दोर्बलिजिनदासशास्त्रिणामन्तेवासिनाश्रवणबेलुगुलक्षेत्र
निवासिविजयचन्द्रेण जैनक्षत्रियेण अयं ग्रन्थः समाप्तिं नीतः।।

सन्दर्भग्रन्थसूची-

1. विजयवर्णीः, शृङ्गारार्णवचन्द्रिका (अलङ्कारसङ्ग्रहः), भारतीय ज्ञानपीठः, 1969


2. डा. नेमिचन्द शास्त्री, तीर्थङ्कर महावीर और उनकी आचार्य परम्परा, 1992
3. आचार्य बलदेव उपाध्याय, संस्कृ त वाङ्मय का बृहत् इतिहास, उत्तर प्रदेश संस्कृ त संस्थान, लखनऊ
4. आचार्यविश्वनाथः, साहित्यदर्पणम्, चौखम्बा कृ ष्णदास अकादमी, वाराणसी, 2015
5. आचार्यमम्मटः, काव्यप्रकाशः, ज्ञानमण्डल लिमिटेड, वाराणसी, 1998
6. राजशेखरः, काव्यमीमांसा, चौखम्बा संस्कृ त सीरीज़ आफिस, बनारस, 1991
7. दण्डी, काव्यादर्शः, श्रीकमलमणिग्रन्थमाला, काशी
8. पण्डितराजजगन्नाथः, रसगङ्गाधरः, चौखम्बा कृ ष्णदास अकादमी, वाराणसी, 2008

You might also like