You are on page 1of 5

अवतारिका

वाल्मीकिव्यासमख्
ु यानां महर्षीश्वराणां भासकालिदासप्रभत
ृ ीनां कवीश्वराणां
च महनीयेन योगदानेन परिवर्ध्दितं परिभासुरं भारतीयकाव्यवाङ्मयं कस्य वा
हर्षप्रकर्षं न वितनोति । कालान्तरे चास्मिन्नतिविचित्रकविपरम्परावाहिनि
कव्यप्रपञ्चे वद्धि
ृ ग ं ते, भारतवर्षस्य विविधेषु प्रदे शेषु नानारूपाणि कव्यानि
प्रकाशितान्यभवन ् । संस्कृतेन अन्याभिर्भारतीय भाषाभिश्चोपनिबद्धान्यासन ् तानि
कव्यानि । तेषां सर्वेषां सन्निवेशेन भारतीयं साहित्यं सुसम्पन्नं सुतरां सुन्दरं च
जातम ् । धन्याः कवयश्च यथार्हं सभाजिताः अभवन ् । तादृशानां
नत
ू नानामनश्वराणां कवीश्वराणां मध्ये प्रथमगणनीयो भवति कवीन्द्रः
रवीन्द्रनाथटागोर् महाशयः । तत्र भवता विरचितानामनवद्यानामतिसन्
ु दराणां च
प्रबन्धानां मध्ये प्रथमगणनीयः गीताञ्जलिरिति विख्यातः काव्यतल्लजः नितरां
विभाति भुवनमण्डले ।।

इदं च काव्यरत्नं प्रथमं कवीन्द्रे ण स्वमातभ


ृ ाषया
वाङ्गभाषयोपनिबद्धमासीत ्, 1910 तमे संवत्सरे । तस्य आङ्गलभाषानुवादः तेनैव
1912 तमे वर्षे प्रकाशितोऽभवत ् । 1913 तमे वर्षे अस्माकं राष्ट्रकविः
विश्वविख्यातेन ् नोबेल्परु स्कारे ण सम्मानित आसीत ् । इदं प्रथमतया कृतं
पौरस्त्यदे शादागतस्य कवेः तादृशं सभाजनं विश्वरङ्गे; टागोर् महाशयस्येव
भारतवर्षस्यापि यशस्करं जातम ् । समनन्तरमेव भारतीयैर्विदे शीयैश्च ्
पण्डितैस्तस्य काव्यरटनस्याध्ययनमारब्धम ् । भारतीय भाषासु विदे शीयभाषासु च
तस्यानव
ु ादाश्च प्रकाशिताः अभवन ् ।

समादरणीयेन केरलीयेन कविना कृष्णन ् नम्पति


ू रिप्पाट्महाशयेन तस्य
संस्कृतानव
ु ादः कृतः वर्तते । संस्कृतकाव्यानां तथा संस्कृतानव
ु ादानां च कर्ता एष
महाशयः 1906 तमे वर्षे केरलराज्ये मल्लपुरं जनपदे मञ्चेरीनगरस्य समीपे
करिक्काट्ग्रामे माङ्ङोट्टाश्शेरीति विख्याते वेदज्ञानां कुटुम्बे लब्धजन्मा आसीत ् ।
पिता नीलकण्ठन ् नम्पति
ू रिप्पाट् , माता सावित्री अन्तर्जनं च । कुलक्रमागतया
रीत्या वेदं संस्कृतं च पठितवानस्यै महाशयः यौवनारम्भ एव
काव्यरचनामारब्धवान ् । संस्कृतभाषामाश्रित्य तथैव मातभ
ृ ाषां मलयालमाश्रित्यापि
अनेन बह्व्यः कविताः विलिखिताःसन्ति । तेषां मध्ये श्रीकृष्णपञ्चाशिका ,
श्रीरामपञ्चाशिका , भङ्
ृ गसन्दे शः , पथ
ृ क
ु ाहरणम ् , प्रेमपाशः, चिन्तालहरी ,
भावगीताञ्चलिः इत्यादीनि संस्कृतकाव्यानि वाणीमणिमालिका , राधा ,
शुकविलापम ् इत्यादीनि मलयालभाषाकाव्यानि च प्रसिद्धानि विराजन्ते । स्वतः
कीर्तिपराङ्मुखोप्ययं कविः बहुभिर्बहुधा परु स्कृत आसीत ् । तेन प्राप्तानि कविरत्न
- साहित्यरत्न – विद्याभष
ू ण – प्रभत
ृ ीनि बिरुदानि तस्योत्तमकवित्वस्य
निदर्शानानि भवन्ति । 1981 तमे वर्षे दिवङ्गतस्य कवेः काव्येषु
कानिचिदिदानीमपि अप्रकाशितानि वर्तन्ते । तेष्वन्यतमं भवति
भावगीताञ्जलिर्नाम संस्कृतकाव्यम ् ।

पूर्वपरामष्ृ टस्य कवीन्द्ररवीन्द्रनाथटागोर् महाशयविरचितस्य विख्यातस्य


गीताञ्जलिरित्यस्य भावगीतसञ्चयस्य संस्कृतानव
ु ादो भवति “ भावगीताञ्चलि “
। विश्वमहाकवेर्हृदयं जानन्नयमनव
ु ादककविः मल
ू गतां काव्यशोभां तथैवाविष्करोति
मधुरोदारै ः संस्कृतपदै ः । मानवान ् प्रति , पक्षिमग
ृ ादीन ् प्रति , वक्ष
ृ लतादीन ् प्रति
च स्नेहः , ईश्वरभक्तिः इत्यादयो मूलगताः मुख्याः भावाः अत्र समग्रां
शोभामादाय विराजन्ते । एकस्मिन्नवसरे प्रार्थनापरः कविः स्वकीयां दशामेवं
वर्णायति –

“आगत्य मत्सविधमास्थितमप्यहं तं

निद्राविमद्रि
ु तमना हतभागधेयः ।
नाद्राक्षमेव , सुतरामशुभप्रदा सा

निद्रा तथैव ह ह सम्प्रति वाञ्चितोऽस्मि ।।“

कवितारीतिः प्रायेण सरला सव्ु यक्ता च । यथा –

“ गानं मदीयमिदमेव हि गातुमग्रे

त्वत्सन्निधावयमहं समुपगतोऽस्मि ” । इत्यादि ॥

क्वचित्पुनः दीर्घसमासमयी अपि भवति रचना । तथापि अक्लिष्टा चारुतरा चैव।


यथा –

“प्राभातिके कुसम
ु – रम्य – सग
ु न्ध – माध्वी-

बिन्दत्ू कराधिक – मनोहर – मन्दवाते ।“ इत्यादि ॥

कवेरन्दर्गतं भावं समन्


ु मीलितं दृश्यतेऽत्र भावनानरू
ु पेण रुचिरे ण
शब्दार्थसन्निवेशेन । यथा –

पारिजातसम
ु माल्यसन्निभै-

र्मामकैर्महितपारितोषिकैः ॥

भूषयामि भगवन ् भवन्तमि –

त्यन्वहं मम मनः प्रसीदति ।। “ इति ॥ यथा वा –

कीचकादिव मदीयमानसा –

न्निस्सरि
ृ ष्यति शुचा समन्वितम ् ।

गीतमेकमिति चावगम्यते
जीवनायक दृढं मया मह
ु ु ः ॥ इति ।।

कविहृदयं जानन ् , भावं संस्कृतिं चावहन ् सत्कविः कृष्णन ् नम्पति


ू रिप्पाट्
महाशयः उचितया रीत्या गीताञ्जलेरनुवादं करोति । रवीन्द्रभारत्याः भावपक्षे
दत्तश्रद्धोऽयं कविः काव्यारम्भे एवं लिखति –

रवीन्द्रनाथस्य कवेर्गीताञ्जलिमनुस्मरन ् ।

संस्कृतश्लोकरूपेण तद्भावं विलिखाम्यहम ् ।। इति

सर्वथा श्लाघनीयोऽयं परिश्रमः । वन्दनीयश्चासौ संस्कृतोपासकः कविवरः ।


सत्यमेवैतत ्, यदसौ कविः भावपक्षमेवावलम्बते , न तु
पन
ु र्मूलग्रन्थगतपदपदार्थजालमात्रम ् । अस्य च संस्कृतकाव्यस्य सम्पादने मद्र
ु णे
प्रकाशने च बद्धश्रद्धाः सर्वेऽपि अभिनन्दनार्हाः । यशःशरीरं कविवरं शिरसा
प्रणिपत्य , अत्र भावक
ु ानामादरो भूयादित्याशंसमानः सपरितोषं भावोज्ज्वलं
भावगीताञ्जलिं सहृदयानां परु स्तादवतारयामि ।।

डा,पि,के, माधवन ्,

You might also like