You are on page 1of 18

1.

वक् रतु ण्ड महाकाय सूर्यकोटि समप्रभ ।


निर्विघ्नं कुरु मे  दे व सर्वकार्येषु  सर्वदा ॥
2. गु रुर्ब्रह्मा गु रुर्विष्णु र्गु रुर्देवो महे श्वरः ।
गु रुरे व परं  ब्रह्म तस्मै  श्रीगुरवे  नमः ॥
3. सर्वमङ्गलमाङ्गल्ये  शिवे  सर्वार्थसाधिके 

शरण्ये  त्र्यम्बके गौरि नारायणि नमोऽस्तु  ते  ॥
Mahalakshmi Ashtakam

महालक्ष्मि अष्टकम्

नमस्ते ऽस्तु  महामाये  श्रीपीठे  सुरपूजिते  ।


शङ्खचक् रगदाहस्ते  महालक्ष्मि नमोऽस्तु ते ॥१॥

नमस्ते  गरुडारूढे  कोलासुरभयंकरि ।


सर्वपापहरे  दे वि महालक्ष्मि नमोऽस्तु ते ॥२॥

सर्वज्ञे  सर्ववरदे  सर्वदुष्टभयंकरि ।


सर्वदुःखहरे  दे वि महालक्ष्मि नमोऽस्तु ते ॥३॥

् प्रदे  दे वि भु क्तिमु क्तिप्रदायिनि ।


् बु दधि
सिदधि
मन्त्रमूर्ते  सदा दे वि महालक्ष्मि नमोऽस्तु ते ॥४॥

आद्यन्तरहिते  दे वि आद्यशक्तिमहे श्वरि ।


योगजे  योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥
स्थूलसूक्ष्ममहारौदरे्  महाशक्तिमहोदरे  ।
महापापहरे  दे वि महालक्ष्मि नमोऽस्तु ते ॥६॥

् ासनस्थिते  दे वि परब्रह्मस्वरूपिणि ।


पदम
परमे शि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥७॥

श्वे ताम्बरधरे  दे वि नानालङ्कारभूषिते  ।


जगत्स्थिते  जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥८॥

महालक्ष्म्यष्टकं  स्तोत्रं यः पठे दभ
् क्तिमान्नरः ।
् मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
सर्वसिदधि

एककाले  पठे न्नित्यं महापापविनाशनम् ।


् कालं यः पठे न्नित्यं धनधान्यसमन्वितः ॥१०॥
दवि

त्रिकालं यः पठे न्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवे न्नित्यं प्रसन्ना वरदा शु भा ॥११॥
Shiva Panchakshara Stotram

शिव पञ्चाक्षर स्तोत्रम्

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै न_काराय नमः शिवाय ॥१॥
मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै म_काराय नमः शिवाय ॥२॥
शिवाय गौरीवदनाब्जवृन्द_ 
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शि_काराय नमः शिवाय ॥३॥

वशिष्ठकु म्भोद्भवगौतमार्य_
मूनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्क वैश्वानरलोचनाय
तस्मै व_काराय नमः शिवाय ॥४॥
यक्षस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै य_काराय नमः शिवाय ॥५॥
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
शिवलोकमावाप्नोति शिवेन सह मोदते ॥६॥

Shri Lakshmi Ashtottara Shatanam Stotram


॥ श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
देव्युवाच
देवदेव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक ॥ १॥

अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ।


ईश्वर उवाच
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २॥

सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ३॥

दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् ।


पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४॥

समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्ते न देवी प्रत्यक्षदायकम् ॥ ५॥

तव प्रीत्याद्य वक्ष्यामि समाहितमनाः शृणुं ।


अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६॥

क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।


अङ्गन्यासः करन्यास स इत्यादिः प्रकीर्तितः ॥ ७॥

ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ८॥
सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९॥

प्रकृ तिं विकृ तिं विद्यां सर्वभूतहितप्रदाम् ।


श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १०॥

वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।


धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ ११॥

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।


नमामि कमलां कान्तां कामाक्षीं क्रोधसम्भवाम् ॥ १२॥ var कामा
क्षीरोदसम्भवाम्
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् ।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ १३॥
नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ १४॥

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।


पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ १५॥

पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।


नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ १६॥

चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ १७॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।


प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ १८॥

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।


वसुन्धरामुदाराङ्गीं हरिणीं हेममालिनीम् ॥ १९॥

धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् ।


नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ २०॥

शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।


नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ २१॥

विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।


दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ २२॥

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।


त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ २३॥

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं


दासीभूतसमस्तदेववनितां लोकै कदीपाङ्कु राम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां
त्रैलोक्यकु टुम्बिनीं सरसिजां वन्दे मुकु न्दप्रियाम् ॥ २४॥

मातर्नमामि कमले कमलायताक्षि


श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि
प्रसीद सततं नमतां शरण्ये ॥ २५॥

त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः ।


दारिद्र्यध्वंसनं कृ त्वा सर्वमाप्नोत्ययत्नतः ॥ २६॥

देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् ।


येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २७॥

भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् ।


अष्टैश्वर्यमवाप्नोति कु बेर इव भूतले ॥ २८॥
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥ २९॥

भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् ।


प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये ।
पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ ३०॥

॥ इति श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Mahishasura Mardini Stotram

महिषासुरमर्दिनि स्तोत्रम्
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकु टुम्बिनि भूरिकु टुम्बिनि भूरिकृ ते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकै टभगञ्जिनि कै टभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृ त प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृ तान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृ तामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृ त दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृ ति मात्रनिराकृ त धूम्रविलोचन धूम्रशते


समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुषङ्ग रणक्षणसङ्ग परिस्फु रदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके  ।
कृ तचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललना ततथेयि तथेयि कृ ताभिनयोदर नृत्यरते
कृ त कु कु थः कु कु थो गडदादिकताल कु तूहल गानरते ।
धुधुकु ट धुक्कु ट धिंधिमित ध्वनि धीर मृदंग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृ त नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृ तफु ल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम के लिचलत्कल हंसकु ले ।
अलिकु लसङ्कु ल कु वलयमण्डल मौलिमिलद्बकु लालिकु ले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरव वीजितकू जित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकु ञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत के लितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीत दुकू लविचित्र मयुखतिरस्कृ त चन्द्ररुचे


प्रणतसुरासुर मौलिमणिस्फु र दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकु ञ्जर कु म्भकु चे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृ तसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं  न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं  न शचीकु चकु म्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकु लं वदनेन्दुमलं सकलं ननु कू लयते


किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृ पया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीन दयालुतया कृ पयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृ पयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकु रुतादुरुतापमपाकु रुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

You might also like