You are on page 1of 38

॥श्रीज्ञानगणपति नामावलिः॥

ध्यानश्लोकः

दिव्याङ्गं श्वेतवस्त्रं विकसितकु सुमैः पूजितं श्वेतगन्धैः

ज्ञानाब्धौ आर्षविद्यागुरुकु लतिलकं तुष्टिदं सुप्रसन्नम्।

अङ्गे रजतपवीतं अभयवरदहस्तं मुक्तिदम् एकदन्तम्

ध्यायेत् शान्त्यर्थमीशं गणपतिममलं व्यापकं ज्ञानगम्यम्॥

ॐ सुमुखाय नमः।

एकदन्ताय नमः।

कपिलाय नमः।

गजकर्णकाय नमः।

लम्बोदराय नमः।

विकटाय नमः।

विघ्नराजाय नमः।

विनायकाय नमः।

धूमके तवे नमः।


गणाध्यक्षाय नमः।

भालचन्द्राय नमः।

गजाननाय नमः।

वक्रतुण्डाय नमः।

हेरम्बाय नमः।

स्कन्दपूर्वजाय नमः।

सिद्धिविनायकाय नमः।

श्री ज्ञानगणपतये नमः।


॥श्रीज्ञानेश्वरीसमेतनर्मदेश्वरस्वामि नामावलिः॥

ध्यानश्लोकः -- शिवं शिवकरं शान्तं शिवात्मानं शिवोतमम्। शिवमार्गप्रणेतारं प्रणतोऽस्मि सदाशिवम्॥

ॐ भवाय देवाय नमः


ॐ शर्वाय देवाय नमः
ॐ ईशानाय देवाय नमः
ॐ पशुपतये देवाय नमः
ॐ रुद्राय देवाय नमः
ॐ उग्राय देवाय नमः
ॐ भीमाय देवाय नमः
ॐ महते देवाय नमः
॥श्रीमेधादक्षिणामूर्त्यष्टोत्तरशतनामावलिः॥

ध्यानश्लोकः। स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे। दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं


विधृतविविधभूषं दक्षिणामूर्तिमीडे॥

1. ॐ ओङ्कारसिंहसर्वेन्द्राय नमः

2. ॐ ओङ्कारोद्यानकोकिलाय नमः

3. ॐ ओङ्कारनी डशुकराजे नमः

4. ॐ ओङ्कारारण्यकु ञ्जराय नमः

5. ॐ नगराजसुताजानये नमः

6. ॐ नगराजनिजालयाय नमः

7. ॐ नवमाणिक्यमालाढ्याय नमः

8. ॐ नवचन्द्रशिखामणये नमः

9. ॐ नन्दिताशेषमौनीन्द्राय नमः

10. ॐ नन्दीशादिमदेशिकाय नमः

11. ॐ मोहानलसुधासाराय नमः

12. ॐ मोहाम्बुजसुधाकराय नमः

13. ॐ मोहान्धकारतरणये नमः

14. ॐ मोहोत्पलनभोमणये नमः

15. ॐ भक्तज्ञानाब्धिशीतांशवे नमः

16. ॐ भक्ताज्ञानतृणानलाय नमः

17. ॐ भक्ताम्भोजसहस्रांशवे नमः

18. ॐ भक्तके किघनाघनाय नमः

19. ॐ भक्तकै रवराके न्दवे नमः


20. ॐ भक्तकोकदिवाकराय नमः

21. ॐ गजाननादिसम्पूज्याय नमः

22. ॐ गजचर्मोज्ज्वलाकृ तये नमः

23. ॐ गङ्गाधवलदिव्याङ्गाय नमः

24. ॐ गङ्गापङ्कलसज्जटाय नमः

25. ॐ गगनाम्बरसंवीताय नमः

26. ॐ गगनामुक्तमूर्धजाय नमः

27. ॐ वदनाब्जजिताब्जश्रिये नमः

28. ॐ वदनेन्दुस्फु रद्दिशाय नमः

29. ॐ वरदानैकनिपुणाय नमः

30. ॐ वरवीणोज्ज्वलत्कराय नमः

31. ॐ वनवाससमुल्लासाय नमः

32. ॐ वनवीरैकलोलुपाय नमः

33. ॐ तेजःपुञ्जघनाकाराय नमः

34. ॐ तेजसामपि भासकाय नमः

35. ॐ विनेयानां तेजःप्रदाय नमः

36. ॐ तेजोमयनिजाश्रमाय नमः

37. ॐ दमितानङ्गसंग्रामाय नमः

38. ॐ दरहासजिताङ्गनाय नमः

39. ॐ दयारससुधासिन्धवे नमः

40. ॐ दरिद्रजनशेवधये नमः

41. ॐ क्षीरेन्दुस्फटिकाकाराय नमः


42. ॐ क्षीरेन्दुमुकु टोज्ज्वलाय नमः

43. ॐ क्षीरोपहाररसिकाय नमः

44. ॐ क्षिप्रैश्वर्यफलप्रदाय नमः

45. ॐ नानाभरणमुग्धाङ्गाय नमः

46. ॐ नारीसम्मोहनाकृ तये नमः

47. ॐ नादब्रह्मरसास्वादिने नमः

48. ॐ नागभूषणभूषिताय नमः

49. ॐ मूर्तिनिन्दितकन्दर्पाय नमः

50. ॐ मूर्तामूर्तजगद्वपुषे नमः

51. ॐ मूलाज्ञानतमोभानवे नमः

52. ॐ मूर्तिमत्कल्पपादपाय नमः

53. ॐ तरुणादित्यसङ्काशाय नमः

54. ॐ तन्त्रीवादनतत्पराय नमः

55. ॐ तरुमूलैकनिलयाय नमः

56. ॐ तप्तजाम्बूनदप्रभाय नमः

57. ॐ तत्त्वपुस्तकोल्लसत्पाणये नमः

58. ॐ तपनोडु पलोचनाय नमः

59. ॐ यमसन्नुतसत्कीर्तये नमः

60. ॐ यमसंयमसंयुताय नमः

61. ॐ यतिरूपधराय मौनिने नमः

62. ॐ यतीन्द्रोपास्यविग्रहाय नमः

63. ॐ मन्दारहाररुचिराय नमः


64. ॐ मदनायुतसुन्दराय नमः

65. ॐ मन्दस्मितलसद्वक्त्राय नमः

66. ॐ मधुराधरपल्लवाय नमः

67. ॐ मञ्जीरमञ्जुपादाब्जाय नमः

68. ॐ मणिपट्टोल्लसत्कटये नमः

69. ॐ हस्ताङ्कु रितचिन्मुद्राय नमः

70. ॐ हठयोगपरमोत्तमाय नमः

71. ॐ हंसजप्याक्षमालाढ्याय नमः

72. ॐ हंसेन्द्राराध्यपादुकाय नमः

73. ॐ मेरुशृङ्गतटोल्लासाय नमः

74. ॐ मेघश्याममनोहराय नमः

75. ॐ मेधाङ्कु रालवालक्रमाय नमः

76. ॐ मेधापक्वफलद्रुमाय नमः

77. ॐ धार्मिकान्तर्गुहावासाय नमः

78. ॐ धर्ममार्गप्रवर्तकाय नमः

79. ॐ धामत्रयनिजारामाय नमः

80. ॐ धर्मोत्तममनोरथाय नमः

81. ॐ प्रबोधोद्गारदीपश्रिये नमः

82. ॐ प्रकाशितजगत्-त्रयाय नमः

83. ॐ प्रज्ञाचन्द्रशिलाचन्द्राय नमः

84. ॐ प्रज्ञामणिवराकराय नमः

85. ॐ ज्ञान्तरान्तरभासात्मने नमः


86. ॐ ज्ञातृज्ञानादिविदूरगाय नमः

87. ॐ ज्ञानज्ञाद्वैतदिव्याङ्गाय नमः

88. ॐ ज्ञातृज्ञादिकु लागताय नमः

89. ॐ प्रपन्नपारिजाताग्र्याय नमः

90. ॐ प्रण्तार्त्यब्धिबाडवाय नमः

91. ॐ भूतानां प्रमाणभूताय नमः

92. ॐ प्रपञ्चहितकारकायनमः

93. ॐ तत्त्वमसिसंवेद्याय नमः

94. ॐ यक्षगेयात्मवैभवाय नमः

95. ॐ यज्ञादिदेवतामूर्तये नमः

96. ॐ यजमानवपुर्धराय नमः

97. ॐ छत्राधिपतिविश्वेशाय नमः

98. ॐ छत्रचामरसेविताय नमः

99. ॐ छन्दश्शास्त्रादि निपुणाय नमः

100. ॐ छलजात्यादिदूरगाय नमः

101. ॐ स्वाभाविकसुखैकात्मने नमः

102. ॐ स्वानुभूतिरसोदधये नमः

103. ॐ स्वाराज्यसंपदध्यक्षाय नमः

104. ॐ स्वात्माराममहामतये नमः

105. ॐ हाटकाभजटाजूटाय नमः

106. ॐ हासोदस्तारिमण्डलाय नमः

107. ॐ हालाहलोज्ज्वलगलाय नमः


108. ॐ हार्दग्रन्थिविमोचकाय नमः
॥दक्षिणामूर्तिस्तोत्रम्॥

ध्यानम्
मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं
वर्षिष्ठांते वसद् ऋषिगणौः आवृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥

वटविटपिसमीपेभूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ॥२॥

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।


गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥३॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।


गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥४॥

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।


निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥५॥

(चिद्घनाय महेशाय वटमूलनिवासिने ।


सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥६॥)

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।


व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ॥७॥

स्तोत्रम्
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कु रुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥

बीजस्याऽन्तरिवाङ्कु रो जगदिदं प्राङ्गनिर्विकल्पं पुनः


मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृ तम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥
यस्यैव स्फु रणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥

नानाच्छिद्रघटोदरस्थितमहादीपप्रभा भास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा वहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः


स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणो
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि


व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फु रन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रयाभद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः


शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशु पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्
नान्यत् किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥

सर्वात्मत्वमिति स्फु टीकृ तमिदं यस्मादमुष्मिन् स्तवे


तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥
॥तोटकाष्टकम्॥
विदिताखिल शास्त्र सुधा जलधे
महितोपनिषत्-कथितार्थ निधे ।
हृदये कलये विमलं चरणं
भव शङ्कर देशिक मे शरणम् ॥ 1 ॥
करुणा वरुणालय पालय मां
भवसागर दुःख विदून हृदम् ।
रचयाखिल दर्शन तत्त्वविदं
भव शङ्कर देशिक मे शरणम् ॥ 2 ॥
भवता जनता सुहिता भविता
निजबोध विचारण चारुमते ।
कलयेश्वर जीव विवेक विदं
भव शङ्कर देशिक मे शरणम् ॥ 3 ॥
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोह महाजलधिं
भव शङ्कर देशिक मे शरणम् ॥ 4 ॥
सुकृ ते‌ऽधिकृ ते बहुधा भवतो
भविता समदर्शन लालसता ।
अति दीनमिमं परिपालय मां
भव शङ्कर देशिक मे शरणम् ॥ 5 ॥
जगतीमवितुं कलिताकृ तयो
विचरन्ति महामह सच्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्कर देशिक मे शरणम् ॥ 6 ॥
गुरुपुङ्गव पुङ्गवके तन ते
समतामयतां न हि कोऽपि सुधीः ।
शरणागत वत्सल तत्त्वनिधे
भव शङ्कर देशिक मे शरणम् ॥ 7 ॥
विदिता न मया विशदैक कला
न च किञ्चन काञ्चनमस्ति गुरो ।
दृतमेव विधेहि कृ पां सहजां
भव शङ्कर देशिक मे शरणम् ॥ 8 ॥
॥ श्रीगङ्गास्तोत्र ॥

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरल तरङ्गे ।


शङ्कर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥ १॥
भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृ पामयि मामज्नानम् ॥ २॥
हरि पद पाद्य तरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकु रु मम दुष्कृ ति भारं कु रु कृ पया भव सागर पारम् ॥ ३॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ ४॥
पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे ।
भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥ ५॥
कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे विमुखयुवति कृ ततरलापाङ्गे ॥ ६॥
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकु टमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८॥
रोगं शोकं तापं पापं हर मे भगवति कु मति कलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ ९॥
अलकानन्दे परमानन्दे कु रु करुणामयि कातरवन्द्ये ।
तव तट निकटे यस्य निवासः खलु वैकु ण्ठे तस्य निवासः ॥ १०॥
वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकु लीनः ॥ ११॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२॥
येषां हृदये गङ्गा भक्तिः तेषां भवति सदा सुखमुक्तिः ।
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः ॥ १३॥
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदम् विमलं सारम् ।
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तम् ॥ १४॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥
॥श्री-शिव-अष्टोत्तरशतनामावली॥
ध्यानश्लोकः।
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे सर्पैभूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे।
दन्तित्वक्कृ तसुन्दराम्बरधरे त्रैलोक्यसारे हरे मोक्षार्थं कु रु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः॥
ॐ शिवाय नमः
ॐ महेश्वराय नमः
ॐ शम्भवे नमः
ॐ पिनाकिने नमः
ॐ शशिशेखराय नमः
ॐ वामदेवाय नमः
ॐ विरूपाक्षाय नमः
ॐ कपर्दिने नमः
ॐ नीललोहिताय नमः
ॐ शङ्कराय नमः
ॐ शूलपाणये नमः
ॐ खट्वाङ्गिने नमः
ॐ विष्णुवल्लभाय नमः
ॐ शिपिविष्टाय नमः
ॐ अम्बिकानाथाय नमः
ॐ श्रीकण्ठाय नमः
ॐ भक्तवत्सलाय नमः
ॐ भवाय नमः
ॐ शर्वाय नमः
ॐ त्रिलोके शाय नमः
ॐ शितिकण्ठाय नमः
ॐ शिवाप्रियाय नमः
ॐ उग्राय नमः
ॐ कपालिने नमः
ॐ कौमारये नमः
ॐ अन्धकासुर सूदनाय नमः
ॐ गङ्गाधराय नमः
ॐ ललाटाक्षाय नमः
ॐ कालकालाय नमः
ॐ कृ पानिधये नमः
ॐ भीमाय नमः
ॐ परशुहस्ताय नमः
ॐ मृगपाणये नमः
ॐ जटाधराय नमः
ॐ क्ते लासवासिने नमः
ॐ कवचिने नमः
ॐ कठोराय नमः
ॐ त्रिपुरान्तकाय नमः
ॐ वृषाङ्काय नमः
ॐ वृषभारूढाय नमः
ॐ भस्मोद्धूलित विग्रहाय नमः
ॐ सामप्रियाय नमः
ॐ स्वरमयाय नमः
ॐ त्रयीमूर्तये नमः
ॐ अनीश्वराय नमः
ॐ सर्वज्ञाय नमः
ॐ परमात्मने नमः
ॐ सोमसूर्याग्नि लोचनाय नमः
ॐ हविषे नमः
ॐ यज्ञमयाय नमः
ॐ सोमाय नमः
ॐ पञ्चवक्त्राय नमः
ॐ सदाशिवाय नमः
ॐ विश्वेश्वराय नमः
ॐ वीरभद्राय नमः
ॐ गणनाथाय नमः
ॐ प्रजापतये नमः
ॐ हिरण्यरेतसे नमः
ॐ दुर्धर्षाय नमः
ॐ गिरीशाय नमः
ॐ गिरिशाय नमः
ॐ अनघाय नमः
ॐ भुजङ्ग भूषणाय नमः
ॐ भर्गाय नमः
ॐ गिरिधन्वने नमः
ॐ गिरिप्रियाय नमः
ॐ कृ त्तिवाससे नमः
ॐ पुरारातये नमः
ॐ भगवते नमः
ॐ प्रमधाधिपाय नमः
ॐ मृत्युञ्जयाय नमः
ॐ सूक्ष्मतनवे नमः
ॐ जगद्व्यापिने नमः
ॐ जगद्गुरवे नमः
ॐ व्योमके शाय नमः
ॐ महासेन जनकाय नमः
ॐ चारुविक्रमाय नमः
ॐ रुद्राय नमः
ॐ भूतपतये नमः
ॐ स्थाणवे नमः
ॐ अहिर्भुथ्न्याय नमः
ॐ दिगम्बराय नमः
ॐ अष्टमूर्तये नमः
ॐ अनेकात्मने नमः
ॐ स्वात्त्विकाय नमः
ॐ शुद्धविग्रहाय नमः
ॐ शाश्वताय नमः
ॐ खण्डपरशवे नमः
ॐ अजाय नमः
ॐ पाशविमोचकाय नमः
ॐ मृडाय नमः
ॐ पशुपतये नमः
ॐ देवाय नमः
ॐ महादेवाय नमः
ॐ अव्ययाय नमः
ॐ हरये नमः
ॐ पूषदन्तभिदे नमः
ॐ अव्यग्राय नमः
ॐ दक्षाध्वरहराय नमः
ॐ हराय नमः
ॐ भगनेत्रभिदे नमः
ॐ अव्यक्ताय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपादे नमः
ॐ अपपर्गप्रदाय नमः
ॐ अनन्ताय नमः
ॐ तारकाय नमः
ॐ परमेश्वराय नमः
॥ॐ श्रीज्ञानेश्वरीसमेतनर्मदेश्वरेस्वामिने नमः॥
॥गणेशपञ्चरत्नम्॥
मुदाकरात्तमोदकं मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकै कनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्क भास्वरं


नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकु ञ्जरं


दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृ पाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृ तां नमस्करोमि भास्वरम् ॥३॥

अकिं चनार्तिमार्जनं चिरन्तनोक्तिभाजनं


पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृ न्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
॥ श्रीगणपतिस्तवः ॥

श्री गणेशाय नमः ॥

ब्रह्मविष्णुमहेश्वरा ऊचुः।
अजं निर्विकल्पं निराकारमेकं निरालम्बमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम ॥ १॥

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।


मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥ २॥

जगत्कारणं कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम् ।


जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम ॥ ३॥
॥ गुरुस्तोत्रम् ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।


तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।


गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।


तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥

चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् ।


तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५॥

सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः ।
वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ ६॥

चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः ।


बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ॥ ७॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८॥

अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९॥

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।


गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १०॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।


तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ११॥

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।


मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ १३॥

त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव


त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ १४॥

॥ इति श्रीगुरुस्तोत्रम् ॥
॥गुरुकास्तोत्रम्॥

अनन्तसंसारसमुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।


वैराग्यसाम्राज्यदपृजनाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥१॥
कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावाम्बुदमालिकाभ्याम् ।
दूरिकृ तानम्रविपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥
नना ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
मृकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥
नालीकनीकाशपदाह्रताभ्यां नानाविमोहादि निवारिकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्या नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥
नृपालिमौलिव्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ्कतेः नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥
पापान्धकारार्क परमपराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणवाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥
पापान्धकारार्क परमपराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणवाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥
स्वार्चापराणामखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् ।
स्वान्ता च्छभावप्रदपृजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥८॥
कामादिसर्पव्रजगारुडाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥९॥
॥ गुर्वष्टकं ॥

जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो


भक्तै र्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् ।
साक्षात् श्रीगुरुरूपमेत्य कृ पया दृग्गोचरः सन् प्रभुः
तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात् ॥

शरीरं सुरूपं तथा वा कलत्रं


यशश्चारु चित्रं धनं मेरुतुल्यम् ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ १॥

कलत्रं धनं पुत्रपौत्रादि सर्वं


गृहं बान्धवाः सर्वमेतद्धि जातम् ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ २॥

षडङ्गादिवेदो मुखे शास्त्रविद्या


कवित्वादि गद्यं सुपद्यं करोति ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः


सदाचारवृत्तेषु मत्तो न चान्यः ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ४॥

क्षमामण्डले भूपभूपालबृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ५॥

यशो मे गतं दिक्षु दानप्रतापा-


ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ६॥

न भोगे न योगे न वा वाजिराजौ


न कान्तामुखे नैव वित्तेषु चित्तम् ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ७॥

अरण्ये न वा स्वस्य गेहे न कार्ये


न देहे मनो वर्तते मे त्वनर्घ्ये ।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ८॥
अनर्घ्याणि रत्नानि मुक्तानि सम्यक्
समालिंगिता कामिनी यामिनीषु।
गुरोरङ्घ्रिपद्मे मनश्चेन्न लग्नम्
ततः किं ततः किं ततः किं ततः किम् ॥ ९॥

गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥
॥ मीनाक्षी पञ्चरत्नम् ॥

उद्यद्भानु सहस्रकोटिसदृशां के यूरहारोज्ज्वलां


बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृ ताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ १॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्र प्रभां


शिञ्जन्नूपुरकिङ्किणिमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ २॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां


श्रीचक्राङ्कित बिन्दुमध्यवसतिं श्रीमत्सभानायकीम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ३॥

श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां


श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडाम्बिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ४॥

नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृ तौ
मीनाक्षी पञ्चरत्नं सम्पूर्णम् ।
॥अन्नपूर्णास्तोत्रम् ॥

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी


निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमानविलसद्वक्षोजकु म्भान्तरी ।
काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥२॥

योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी


चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥३॥

कै लासाचलकन्दरालयकरी गौरी उमा शङ्करी


कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥४॥

दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कु री ।
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥५॥

उर्वीसर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी


वेणीनीलसमानकु न्तलहरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥६॥

आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरात्रिजलेश्वरी त्रिलहरी नित्याङ्कु रा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥७॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी


वामं स्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी ।
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥८॥

चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकु न्तलधरी चन्द्रार्क वर्णेश्वरी ।
मालापुस्तकपाशासाङ्कु शधरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥९॥

क्षत्रत्राणकरी महाऽभयकरी माता कृ पासागरी


साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृ पावलम्बनकरी मातान्नपूर्णेश्वरी ॥१०॥

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।


ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥११॥

माता च पार्वती देवी पिता देवो महेश्वरः ।


बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥१२॥
॥कालभैरवाष्टकम्॥

देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृ पाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं
काशिकापुराधिनाथकालभैरवं भजे ॥१॥

भानुकोटिभास्वरं भवाब्धितारकं परं


नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं
काशिकापुराधिनाथकालभैरवं भजे ॥२॥

शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे ॥३॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे ॥४॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं
काशिकापुराधिनाथकालभैरवं भजे ॥५॥

रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं
काशिकापुराधिनाथकालभैरवं भजे ॥६॥

अट्टहासभिन्नपद्मजाण्डकोशसंततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे ॥७॥

भूतसंघनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥८॥

कालभैरवाष्टकं पठंति ये मनोहरं


ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं
प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥९॥
॥लिङ्गाष्टकम्॥

ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥

देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् ।


रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥

सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥

कनकमहामणिभूषितलिङ्गम् फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥

कु ङ्कु मचन्दनलेपितलिङ्गम् पङ्कजहारसुशोभितलिङ्गम् ।


सञ्चितपापविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥

देवगणार्चितसेवितलिङ्गम् भावैर्भक्तिभिरेव च लिङ्गम् ।


दिनकरकोटिप्रभाकरलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥

अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥

सुरगुरुसुरवरपूजितलिङ्गम् सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।


शिवलोकमवाप्नोति शिवेन सह मोदते ॥
॥शिवपञ्चाक्षरस्तोत्रम्॥

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै नकाराय नमः शिवाय ॥१॥

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै मकाराय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जवृन्दसूर्याय
दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय ॥३॥

वशिष्ठकु म्भोद्भवगौतमार्यमूनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्क वैश्वानरलोचनाय
तस्मै वकाराय नमः शिवाय ॥४॥

यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै यकाराय नमः शिवाय ॥५॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।


शिवलोकमावाप्नोति शिवेन सह मोदते ॥६॥
॥शिवषडक्षरस्तोत्रम्॥
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमंति देवेशं नकाराय नमो नमः ॥२॥
महादेवं महात्मानं महाध्यानं परायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
वाहनं वृषभो यस्य वासुकिः कं ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥
॥निर्वाणषटकम्॥
मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥

न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

न पुण्यं न पापं न सौख्यं न दुःखं


न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

न मृत्युर्न शङ्का न मे जातिभेदः


पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

अहं निर्विकल्पो निराकाररूपो


विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
॥शिवताण्डवस्तोत्रम्॥
जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी_
विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्जलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥२॥

धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर
स्फु रद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृ पाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥३॥

लताभुजङ्गपिङ्गलस्फु रत्फणामणिप्रभा
कदम्बकु ङ्कु मद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फु रत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्‍भुतं बिभर्तु भूतभर्तरि ॥४॥

सहस्रलोचनप्रभृत्यशेषलेखशेखर_
प्रसूनधूलिधोरणी बिधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥५॥

ललाटचत्वरज्वलद्धनञ्जयस्फु लिङ्गभा_
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥६॥

करालभालपट्टिकाधगद्‍धगद्‍धगज्ज्वलद्_
धनञ्जयाहुतीकृ तप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकु चाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥७॥

नवीनमेघमण्डली निरुद्‍धदुर्धरस्फु रत्_


कु हूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृ त्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ॥८॥

प्रफु ल्लनीलपङ्कजप्रपञ्चकालिमप्रभा_
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥९॥

अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी_
रसप्रवाहमाधुरीविजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥१०॥

जयत्वदभ्रविभ्रमभ्रमद्‍भुजङ्गमश्वसद्_
विनिर्गमत्क्रमस्फु रत्करालभालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल_
ध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः शिवः ॥११॥

स्पृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्_
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् ॥१२॥

कदा निलिम्पनिर्झरीनिकु ञ्जकोटरे वसन्


विमुक्तदुर्मतिः सदा शिरस्थमञ्जलिं वहन् ।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मन्त्रमुच्चरन्कदा सुखी भवाम्यहम् ॥१३॥

इदम् हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं


पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥१४॥

पूजावसानसमये दशवक्त्रगीतं यः
शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः ॥१५॥
इति श्रीरावण - कृ तम् शिव - ताण्दव स्तोत्रम् सम्पूर्णम्
॥शिवमानसपूजा॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं


भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकु रु ॥२॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं


वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं


पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥

करचरणकृ तं वाक्कायजं कर्मजं वा


श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥

You might also like