You are on page 1of 4

ईश्वरः सर्वत्र अस्ति

कदाचित् अकबरः बीरबलम् उक्तवान् – “बीरबल ! भगवन्तं


स्मरतु इति भवान् वारं वारं वदति । परं कदापि भवान् यत् सः कु त्र
अस्ति इति सः कथं द्रष्टुं शक्यः ? सः किं वा करोति ?”

प्रश्नः कठिनः आसीत् । एकस्य अड़्गतया त्रयः प्रश्नाः आसन् ।


अतः क्षणं विचिन्त्य बीरबलः उक्तवान् – “महाराज ! सप्तानां
दिनानाम् अवसरः दीयताम्। तदभ्यन्तरे अहं भवते उत्तरं दास्यामि ।“

अकबरः ऊक़्तवान् – “अस्तु, सप्त दिनानि भवान् स्वीकरोतु।“

षड् दिनानि गतानि । तावता अपि बीरबलस्य मनसि कोऽपि


उपायः तु न सफु रितः। अतः तस्य मनः चिन्ताग्रस्तम् आसीत्।

पितरं चिन्ताग्रस्तं दृष्ट्वा तस्य कनिष्ठः पुत्रः तत्समीपं गत्वा


पृष्टवान् – “पितः! भवान् मां किमर्थं चिन्ताग्रस्तः अस्ति?”

बीरबलः पुत्रं सर्वं कारणम् उक्तवान् ।

पुत्रः उक्तवान् – “भवान् चिन्तां न करोतु । एतस्य उत्तरम् अहं


दास्यामि । भवान् मां स्वीकृ त्य राजप्रासादं प्रति चलतु ।“

नियतसमये बीरबलः पुत्रेण सह राजप्रासादं प्राप्तवान्।

अकबरः पृष्टवान् – “किम् उत्तरं दीयते ?”

तदा बीरबलः उक्तवान् – “भवता उत्तरं तु प्राप्येत एव । परम्


अहं न, अपि तु मम पुत्रः उत्तरं वदिष्यति ।“
अकबरः लघुबालकं दृष्ट्वा चिन्तितवान् यत् एषः कीदृशम् उत्तरं
दद्यात् इति । तथापि सः जानाति स्म यद् एषः बीरबलस्य पुत्रः
अस्ति, अतः कमपि कमपि चमत्कारं कु र्यात् एव इति । अतः सः
उक्तवान् – “अस्तु । मम प्रश्नस्य उत्तरं वदतु नाम सः एव ।“

चतुरः बालकः उक्तवान् – “महाराज ! प्रथमवारं भवतः प्रासादं


प्रति आगतं मां किमपि खाद्यते पीयते किम् इति भवता न पृष्टम् ।
साक्षात् उत्तरम् एव मत्तः इष्टवान् भवान् ।“

बालकस्य निर्भीकतां दृष्ट्वा मन्त्री सहकारिणश्च महत् आश्चर्यं प्र्

बालकः उक्तवान् – “महाराज ! एकचषकमितं दुग्धम् अपेक्ष्यते


नान्यत् किमपि ।“

दुग्धं तु सत्वरम् आगतम् । बालकः दुग्धस्य पात्रं परितः दृष्टिं


प्रसारितवान् । पुनः तस्य अन्तः हस्तं प्रवेश्य किमपि अन्विष्टवान् ।
परं किमपि न प्राप्तम् । अकबरः पृष्टवान् – “बाल ! किं कु र्वन् अस्ति
भवान् ?”

“महाराज ! अहं श्रुतवान् आसम् – दुग्धे नवनीतं भवति इति। परं


तत् कु त्रापि दृष्टिगोचरं न भवति । अहं तदेव अन्विष्यन् अस्मि ।“

“अये मूढ ! नवनीतम् एवमेव न प्राप्यते । तस्य कृ ते दुग्धं


मथनीयं भवति । मथनस्य अनन्तरं नवनीतं दुग्धस्य ऊर्ध्वभागे
दृष्टिगोचरतां याति प्लवते च ।“

तदा बालकः उक्तवान् – “महाराज ! भवता पृष्टस्य प्रश्नस्य


एतदेव उत्तरम् ।
ईश्वरः सर्वत्र अस्ति । परं मनसः मथनेनैव सः प्राप्येत । तस्य कृ ते
कठिनः परिश्रमः करणीयः भवति । तदा सः नवनीतमिव प्राप्येत एव।
एतत् द्वितीयस्य प्रश्नस्य उत्तरम्“

महाराजः उक्तवान् – “तृतीयस्य प्रश्नस्य किम् उत्तरम् ?”

“महाराज ! भवता आदौ एतत् वक्तव्यं यद् भवान् आत्मानं गुरुं


मत्त्वा पृच्छति उत् शिष्यं मत्त्वा इति ?”

अकबरः स्तब्धः जातः । तथापि सः उक्तवान् – “अहं गुरुः न ।


शिष्यः सन् एव पृच्छामि ।“

तदा बालकः उक्तवान् – “उत्तमः शिष्यः भवान् ! गुरुः अहं तु


अधः अस्मि । शिष्यः भवान् सिंहासने !! कथम् एतत् युज्येत ?”

अकबरः लज्जितः । सः बालकम् उत्थाप्य सिंहासने उपवेश्य


हस्तद्व्यं योजयित्वा स्थित्वा उक्तवान् – “इदानीं वदतु गुरुवर्य !
ईश्वरः किं करोति ?”

बालकः हसित्वा उक्तवान् – “ईश्वरः एतदेव करोति । अर्थात्


उपरितनम् अधः, अधस्तनं जनम् उपरि च करोति ।“

अकबरः तस्य चातुर्येण, प्रतिभया च प्रसन्नः सन् तं


पुरस्कृ तवान्।

मानवस्य् चरित्रस्य ज्ञानं तस्य व्यवहारेण विदितं भवति ।

- रामायणम्
धातवः उक्तवान्, विचिन्त्य , गतानि , दृष्ट्वा,
च गत्वा , पृष्टवान् , स्वीकृ त्य
प्रत्ययाः प्रप्तवान्, चिन्तितवान् , आगतं , पृष्टम् ,
इष्टवान् आगतम् ,
प्रसारितवान्, प्रवेश्य, अन्विष्टवान् , श्रुतवान्
, करणीयः , उत्थाप्य
उपवेश्य , योजयित्वा ??, स्थित्वा ,
हसित्वा , पुरस्कृ तवान्

चित् चन कदाचित्,
प्योग
उपसर्ग् इति, यत्, कु त्र, अतः, तावता, अपि,
किमर्थं, तु, एव, परितः,
अव्यय
विशेषणा प्रश्नः कठिनः ; त्रयः प्रश्नाः, सप्तानां
विशेष्य दिनानाम्, सप्त दिनानि, षड् दिनानि,
कनिष्ठः पुत्रः, सर्वं कारणम्, मत्तः,

You might also like