You are on page 1of 3

पापेन् अर्जितं धनम्

द्वौ भ्रातरौ आस्ताम् । उभौ अपि निर्धनौ दरिद्रौ च ।


ब्राह्मणपुत्रयोः तयोः धनं तु पञ्चाड़्गमेव । एकस्मिन् दिने उभौ
अपि पञ्चाड़्गं स्वीकृ त्य उद्योगस्य अन्वेषणाय प्रस्थितवन्तौ । ताभ्यां
समुद्रतटः प्राप्तः। तत्र मीनग्राहकाणां धीवराणां निवासस्थानम् आसीत्
। उभौ अपि तत्रैव स्थितवन्तौ । आत्मानं महाज्यौतिषं वदन्तौ तौ
अक्षान् धिवरान् बहुधा वञ्चितवन्तौ ।

अचिरात् एव तौ धनेन सम्पन्नौ जातौ । तदा तौ निश्चयं


कृ तवन्तौ – “गृहं गन्तव्यम्” इति । यदा प्रस्थानं कृ तं तदा तयोः पार्श्वे
सुवर्णमुद्राः आसन् ।एकः स्यूतः पूर्णरूपेण सुवर्णमुद्राभिः पूर्णः आसीत् ।
तं स्यूतं क्रमशः उभौ अपि वहन्तौ आस्ताम् । यस्मिन् समये यस्य
पात्श्वे सः स्यूतः भवेत् सः चिन्तयति स्म – “ अहं भ्रातुः हननं कृ त्वा
किमर्थम् एतत् सर्वं स्वाधीनं न कु र्याम् ! “ इति परम् उभयोरपि
प्रगाढस्नेहकारणात् कोऽपि इदं पापकर्म कर्तुं न शक्तवान् ।

यदा उभौ अपि गृहसमीपम् आगतवन्तौ तदा यस्य पार्श्वे सः


स्यूतः न आसीत् सः सस्यूतं भ्रातरम् उक्तवान् – “ भ्रातः ! क्षन्तव्यः
अहम् । यदा यदा एषः स्यूतः मम पार्श्वम् आगतः तदा तदा भवतः
हननं करणीयम् इति विचारः मम मनसि आगच्छति स्म । अहं पापी
। अतः एतं सुवर्णमुद्रास्यूतं स्वीकर्तुं न इच्छामि । कृ पया भवान् एव
एतं स्वीकरोतु” इति ।

तदा द्वितीयः भ्राता उक्त्वान् – “ ममापि एषा एव स्थितिः


आसीत् । स्यूतः इदानीं मम पार्श्वे अस्ति । अतः मम मनसि स एव
विचारः आसीत् । आवयोः भ्रातृत्वनाशकस्य एतस्य स्यूतस्य त्यागः
एव श्रेयस्करः” इति।

ततः तौ सम्मुखे एव स्थिते अवकरगर्ते तं स्यूतं क्षिप्तवन्तौ ।


तस्य मृत्तिकया आच्छादनम् अपि अकृ त्वा तौ गृहं प्रविष्टवन्तौ ।
सुवर्णमुद्राः दूरात् एव दृश्यन्ते स्म।

किञ्चित्कालानन्तरं तयोः भगिनी शाकं कर्तयित्वा शाकस्य त्वचं


गर्ते क्षेप्तुम् गतवती । तदा तया सः स्यूतः दृष्टः । स्यूतस्थाः
मुद्राःअपि दृष्टाः । सा ताः मुद्राः स्वीयेन वस्त्रेण गोपायितुम् इष्टवती
। तावता एव एकस्य भ्रातुः पत्नी बहिः आगतवती । सा तां ननान्दरं
दृष्ट्वा पृष्टवती – “ अये, भवती तत्र किं करोति ?”

ननान्दा चिन्तितवती यत् एषा सर्वं दृष्टवती इति । अतः सा


विना चिन्तनं हस्ते विद्यमानां शाककर्तनाय गृहीतां छु रिकां तस्याःउदरे
प्रवेशितवती । छु रिकाप्रहारस्य पीडया सा भ्रातुष्पत्नी उच्चैः चीत्कारं
कृ तवती । तत् श्रुत्वा तस्याः पतिः धावन् बहिः आगतवान्
तं दृष्ट्वा तस्य भगिनी पलायनम् आरब्धवती ।

तदा सुवर्णमुद्रास्यूतः पतितः । तस्मात् सा नितरां भीता ।किं


करणीयम् इति तया न अवगतम् । अतः सा स्वीये उदरे छु रिकां
प्रवेशितवती एव !।

तावता द्वितीयः भ्राता अपि तत्र उपस्थितः । सर्वं दृष्ट्वा सः


उक्तवान् – “भ्रातः ! पापकर्मणा अर्जितं सुवर्णं क्षेपणानन्तरम् अपि
एतावन्तम् अनर्थं कर्तुं समर्थं जातम् !! अहो, दुर्गतिः आवयोः !”

उभौ अपि भ्रातरौ तत्रैव शिरसि हस्तं संस्थाप्य उपविष्टवन्तौ ।


पापेन आर्जितं धनं पापकर्मिणा सह तस्य उपयोगकर्तारम् अपि
नाशयति।

You might also like