You are on page 1of 11

164

॥ अथ अनुपलब्ध्यधिकरणम्॥
क्र.सं सूत्राणि क्र.सं पु.सं
१ ॐ न भावोऽनुपलब्धेः ॐ २-२-३० १७१,१७१
२ ॐ क्षणिकत्वाच्च ॐ २-२-३१ १७३
३ ॐ सर्वथाऽनुपपत्तेश्च ॐ २-२-३२ १७३

योगाचाराणां मतस्योपन्यासः
सुधा— ॐ न भावोऽनुपलब्धेः ॐ॥ अत्र योगाचाराणां मतमपाक्रियते। तदर्थं तदुप-
न्यस्यति ज्ञानमेवेति॥
॥ ॐ न भावोऽनुपलब्धेः ॐ॥
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते।
विज्ञानमेव तत्वं, न रूपादयश्चत्वारः स्कन्धाः ; इति योगाचारा मन्यन्त इत्यर्थः। वि-
ज्ञानाङ्गीकारेऽपि विशेषमाह एकमिति॥ अद्वितीयमित्यर्थः। ननु ज्ञेयमपि रूपादिकं प्रत्य-
क्षादिसिद्धं तत्कथं विज्ञानमेव तत्वमित्यत आह अखिलेति॥ ज्ञानमेव ज्ञेयाकारं। न तु
ज्ञेयं ज्ञानाद्भिन्नमस्तीत्यर्थः। कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह प्रभासत इति॥ ज्ञानं
हि प्रकाशते। तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाशमानस्य
ज्ञानत्वं1 सिद्धमित्यर्थः॥
यद्वा प्रभासते नीलादिना सहैवते ि शेषः। तेन ‘सहोपलम्भनियमादभेदो नीलतद्धियो-
रि’2त्युक्तं भवति॥
शे०— ॐ न भावोऽनुपलब्धेः ॐ॥ अधिकरणप्रतिपाद्यानुक्ते र् ल मू े न्यू नतामाशङ्क्य भाष्ये तदुक्ते स्त-
दनुसारेणात्रापि शिष्यैरेव ज्ञातुं शक्यत्वात्तदनुक्तिरत्र न दोषायेत्यभिप्रेत्य विज्ञानवादमपाकरोतीति भाष्यं
मनसि निधाय स्वयमधिकरणप्रतिपाद्यमाह— अत्रेति॥ तर्हि तन्निकारणमेव कर्तव्यम् । किं ज्ञानमेवैक-
मखिलमित्यादिना ग्रन्थे न। न चायं तन्मतोपन्यासः। तस्यानर्थकत्वादित्यतो विप्रतिपत्तिविषयोपद-

1  ज्ञानत्वसिद्धिरित्यर्थः।इत्यपि पाठः
2  सर्वदर्शनस(योगाचारदर्शनम् )
165

र्शनेन तन्मतानिरस्यताशङ्कानिरासार्थत्वात्तस्य नानर्थक्यमित्याशयेन तन्मतोपन्यासप्रयोजनप्रदर्शनपूर्वकं


तत्परतयोत्तरग्रन्थं सङ्गमयति तदर्थमिति॥ निरस्यताप्रयोजकीभूतविरुद्धार्थत्वोपदर्शनेन तन्मतस्य
निरस्यतासमर्थनार्थमित्यर्थः। ननु विज्ञानस्य तत्वता वैभाषिकादिमतसाधारणी न मतभेदप्रयोजिके त्यतो
मूले उक्तस्यैवते ्यस्य तात्पर्यं वदन्नपेक्षितपूरणेन वाक्याभासतां परिहरति— विज्ञानमेव तत्वमित्यादिना
विज्ञानाङ्गीकारेऽपीति॥ विज्ञानस्य तत्वताङ्गीरेऽपीत्यर्थः॥ विशेषमाहेति॥ तर्हि विज्ञानव्यक्तीनामनन्त-
त्वादनन्तसव्द्यक्त्यङ्गीकारप्रसङ्गात्सदद्वैतभङ्ग इत्याशङ्कापरिहारार्थमिति शेषः। एकत्वसङ्ख्यावत्वरूपस्यै-
कत्वस्य ज्ञानऽे सम्भवात्सम्भवे वा सदद्वैतमतभङ्गशङ्कानिरासाक्षमत्वात्तच्छङ्कानिरासोपयोगितयैकमित्येत-
द्व्याचष्टे अद्वितीयमित्यर्थ इति॥ मूले ज्ञानस्याखिलज्ञेयाकारत्ववर्णनस्यानर्थक्यमाशङ्क्य ज्ञानमेवैक
मित्यु क्ताया ज्ञानमात्रतत्वताया उपपादनार्थं तदिति भावेन तदुपपादकतया तद्योजयितुं तदनुपपत्तिशङ्का-
मुत्थापयति— नन्विति॥ तत्त्वरूपत्वाङ्गीकारप्रयोजकस्य प्रामाणिकत्वस्य ज्ञानज्ञेययोः साधारण्येनोभ-
योरपि तत्त्वरूपत्वमेव न तूक्तरीत्या तद्वैषम्यमित्यर्थः॥
ज्ञानं हीति॥ अनेन ज्ञानमित्यस्यावृत्तिरुक्ता भवति। ज्ञानमेव हीत्यर्थः। अन्यथा ज्ञानत्वस्य
प्रकाशमानत्वं प्रति व्यापकताया अलाभादिति द्रष्टव्यम् । अनेन यत्प्रकाशते तज्ज्ञानं यथा सम्मतं
प्रकाशते च नीलादीत्यु दाहरणोपनयाख्यव्द्यवयवानुमानमेव ज्ञेयस्य ज्ञानात्मकत्वे प्रमाणमुक्तं भवति।
अनुमानान्तरसङ्ग्राहकयाऽपि प्रतिभासत इति व्याख्याति— यद्वेति॥ ॥ तेन सहोपलम्भनियमादिति॥
यद्येन नियतसहोपलम्भनं तत्ततो न भिद्यते। यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः। नियतसहोपलम्भ-
श्चार्थो ज्ञानेनते ्यनुमानमनेनोक्तं भवति। न चात्र हेत्वसिद्धिरिति शङ्क्यम् । विषयविज्ञानयोरेकस्यानुपल-
म्भेऽ-न्यस्योपलम्भाभावादेव तत्सिद्धिसम्भवात्। न चाप्रयोजकत्वं शङ्क्यम् । व्यापकाभावेन व्याप्याभाव-
साधनरूपतया तदनवकाशात्। तथा हि। विज्ञानवादिना निषेध्यो हि विज्ञानार्थयोर्भेदः सहोपलम्भनि-
यमाभावेन व्याप्तः। यतो यौ भिन्नौ न ताववश्यं सहोपलभ्येते यथाऽश्विनाविति नियमात्। अश्विनोर्हि
कदाचिदेकोपलम्भेऽन्यस्योपलम्भेऽपि न तन्नियमोऽस्ति। कदाचिदेकस्याभ्रादिनाऽच्छादनेऽप्यन्यस्योप-
लम्भदर्शनात्। न च भेदव्यापकः सहोपलम्भनियमाभावोऽर्थज्ञानयोरस्ति येन तद्व्याप्यो भेदोऽपि
स्यात्। तयोः सहोपलम्भनियमेन तद्विरुद्धस्य सहोपलम्भनियमाभावस्यासम्भवात्। स च
ज्ञानार्थयोर्व्यावर्तमानः स्वव्याप्यं भेदमपि व्यावर्तयति। व्यापकनिवृत्तौ व्याप्यनिवृत्तेरवश्यम्भावात्।
ततश्च प्रतिबन्धसिद्धौ क्वाप्रयोजकत्वशङ्केति भावः।
स०— ॐ न भावोऽनुपलब्धेः ॐ॥ सहोपलम्भनियमादित्यादिवाक्यस्यायमर्थः। संविन्नीलयोर्भेदे
नीलसंविदि नीलस्य भानं न स्यात्। भिन्नस्यापि भाने नीलसंविदि नीलेतरस्य धवलपीतादेरपि भानं
स्याद्। न च नीलसंविदि नीलस्य सम्बन्धोस्तीऽति नीलं भासते। धवलादेस्तु तत्र न सम्बन्ध इति
न भानमिति वाच्यम् । नीलस्य नीलबुद्धेश्च सम्बन्धान्तरानुपपत्त्या संविदि नीलस्यारोपितत्वमेव सम्बन्ध
इति तयोरभेदसिद्धिरिति भावः॥
166

परि०— ॐ न भावोऽनुपलब्धेः ॐ॥ योगाचाराणामिति। वैभाषिक,सौत्रान्तिक,माध्यमिक,योगा-


चाराख्यभेदने चतुर्विधबौद्धेषु त्रिषु निरस्तेष्वविशिष्टबौद्धमतम् निरस्यत इत्यर्थः। एवशब्दव्यावर्त्यमाह
न रूपादय इति। रूपवेदनसंज्ञाससं ्काराश्चत्वारो इत्यर्थः। इतिशब्दानन्तराकांक्षितक्रियापदं कर्तृपदं च
पूरयति इति योगाचारा मन्यन्त इति॥ व्याप्तौ सिद्धायामिति। विज्ञानतत्व इति योज्यम् । यद्वेत्यन-
न्तरम् (वि)ज्ञानम् हीत्यनुकर्षः॥ सहोपलम्भेति। अङ्गुल्यवष्टब्धनयनेन दृश्यमानं द्वितीयचन्द्रादिकम्
सत्यचन्द्रादिना नियमेन सहोपलभ्यमानं सत्यचन्द्राद्यभिन्नं दृष्टम् एवं नीलादिना सहैव भासमानम्
(ज्ञान)ं तेनाभिन्नमित्यर्थः।
या०— ॐ न भावोऽनुपलब्धेः ॐ॥ अद्वितीयमित्यर्थ इति॥ सजातीयभेदशून्यमित्यर्थः। सहोपल-
म्भनियमादित्यस्यायमयर्थः। यद्येन नियतसहोपलम्भनं तत्ततो न भिद्यते यथैकस्माच्चन्द्रमसो द्वितीय-
श्चन्द्रमाः। नियतसहोपलम्भश्चार्थो ज्ञानने ेति व्यापकविरुद्धोपलब्धिः। निषेध्यो हि भेदः सहोपलम्भा-
नियमेन व्याप्तः। यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते। कदाचिदभ्रापिधानेऽन्यतरस्य
एकतरस्योपलब्धेः। सोऽयमिह भेदव्यापकानियमविरुद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं
निवर्तयतीति॥
सुधा— नन्वयुक्तो ज्ञानज्ञेययोरभेदः। भेदस्य प्रतिभासनात्। एकमिति चायुक्तम्। विज्ञा-
नसन्ततीनां भेदस्य, एकै कस्यामपि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात्। किञ्च आस्ता-
मन्यो भेदः। भेदाभावस्तावदभ्युपगम्यते। तेनवै विज्ञानस्य सद्वितीयत्वप्राप्तेर्नैकत्वमुपपद्यत
इत्यत आह तत्रेति॥
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु॥
तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः। सन्ततिभेदः सन्ततीनां परस्परं भेदः। स्वभेदः
एकै कस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः। कल्पिता एवेति सम्बन्धः। नानासंवृतिभूमिषु
अनेकाज्ञानस्थानेष्वन्तःकरणेषु। यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी।
तदुक्तम् ‘भेदस्तु भ्रान्तिबुद्ध्यैव दृश्येतेन्दाविवाद्वये’1 इति।
शे०— ननु ‘तत्र सन्ततिभेदश्चे’त्यादिना ज्ञानज्ञेयभेदादेः कल्पितत्वं कथ्यते तदनर्थकम् । न च
तद्ग्राहकस्य प्रत्यक्षादेः कल्पितार्थविषयकत्वेनाप्रामाण्यप्रतिपादनार्थं तदिति वाच्यम् । तत्प्रतिपादन-
स्यापि प्रकृते उपयोगादर्शनेनानर्थक्यादित्याशङ्क्य प्रागुक्तस्य ज्ञानज्ञेययोरभेदानुमानादेः तद्विरोधेनाप्रा-
माण्यशङ्कापरिहारार्थत्वात्तस्य नानर्थक्यमिति भावेन तत्परतयोत्तरग्रन्थं योजयितुमुक्तार्थानुपपत्तिशङ्कामु-
1  सर्वदर्शनसङ्ग्रहे 'भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवाद्वये' इति श्लोको दृश्यते। असौ 'दृश्येतेन्दा'विति पाठः
तदनुसारीति भाति। 'दृश्य इन्दाविवे'त्यपि पाठः।
167

त्थापयति— नन्विति॥॥ विज्ञानसन्ततीनामिति॥ घटज्ञानादिरूपविजातीयज्ञानसन्ततीनामित्यर्थः॥


एकस्यामपि सन्तताविति॥ घटोऽयं घटोऽयमिति सजातीयज्ञानसन्ततावित्यर्थः॥ ज्ञानभेदस्येति॥
पूर्वोत्तरज्ञानव्यक्तिभेदस्येत्यर्थः॥ किञ्चेति॥ न च ‘तत्र सन्ततिभेदश्चे’त्यु त्तरवाक्येनैतच्चोद्यापरिहारः।
तत्र ज्ञानज्ञेययोः ज्ञानसन्ततीनाम् एकसन्ततावपि पूर्वोत्तर-ज्ञानव्यक्तीनां च भेदनिरासेऽपि भेदाभावेन
भेदस्यानिरासादिति वाच्यम् । तस्यापि ज्ञेयकोटावन्तर्भावेन ज्ञानज्ञेयभेदनिरासके न ‘तत्र भेद’ इत्यनेनैव
तन्निराससिद्ध्या पृथगनिराससम्भवादिति भाव। व्यवहितत्वात्सम्बन्धं दर्शयति— तत्रेति। तत्रेत्यस्य
व्याख्यान— ं ज्ञानज्ञेययोरिति। इतरसमुच्चायकचशब्दस्येतरव्यावर्तकै वकारेणरैकत्रसम्बन्धानुपपत्तिमाश-
ङ्क्य एवशब्दस्य भिन्नक्रमतां दर्शयति— कल्पिता एवेति॥ सम्बन्ध इति॥ ज्ञानज्ञेयभेदादेः कल्पिततायाः
परसम्मतत्वं कुतोऽवगतमित्यतस्तद्वाक्यादवे ते ्यभिप्रेत्य ‘सहोपलम्भनियमादभेदो नीलतद्धियोरि’ति प्रागु-
दाहृततद्वाक्यशेषमेवोदाहरति— तदुक्तमिति॥
स०— किञ्चेति॥ न च 'तत्र सन्ततिभेदश्च' इत्यादिना नास्याः शङ्कायाः परिहार इति शङ्क्यम् ।
ज्ञानज्ञेययोः ज्ञानसन्ततीनामेकसन्ततावपि पूर्वोत्तरज्ञानव्यक्तीनां च भेदनिरासेनैव भेदाभावेनापि
भेदनिरास इत्यभिप्रायेण पृथगदषू णसम्भवात्। भेदाभावस्यापि ज्ञानकोटौ वा ज्ञेयकोटौ वाऽन्तर्भावाव-
श्यम्भावेन तद्भेदस्यापि स्वभेदत्व-स्वसन्ततिभेदत्वज्ञानज्ञेयभेदत्वावश्यम्भावादिति भावः।
परि०— भेदस्येति। बाह्याभ्यन्तरत्वादिना प्रागुपपादितदिशा भेदस्य प्रतिभासनादित्यर्थः।
विज्ञानसं(ततीनां)तानानां भेदस्येति। घटपटादिज्ञेयभेदने ेति भावः। तत्रेत्यनुवादः। ज्ञानज्ञेययोरिति
व्याख्या॥ भेद इति सम्बन्ध इति। अन्तिमभेदपदेन सम्बन्ध इत्यर्थ इत्येके। अन्ये तु नैवमर्थः।
अन्तिमभेद एवेत्यत्राभदे इति विच्छिद्य भेदाभाव इति तस्य व्याख्यातत्वात्। अन्यथा भेदाभावस्ताव-
दभ्यु पगम्यत एवेत्युक्तपक्षनिरासाप्राप्तेस्तस्मात्सन्ततिभेदश्चेत्यत्र भेदशब्देन बुद्ध्या विविक्ते नाध्याहृतेन वा
भेद इत्यनेन सम्बन्ध इत्यर्थ इत्याहुः। अपरे त्वन्तिमभेद इत्यत्र भेद इत्यभेद इति च द्वेधा विच्छेद
इत्याहुः। केचिद्भेदाभावस्याकल्पिततया विज्ञानतत्वात्मकतया तस्योत्तरत्र कल्पितत्वोक्तिप्रस्तावेन
परिग्रहः ; अतो भेद इत्येव व्यवच्छिद्य तेन सम्बन्ध इत्यर्थ इत्याहुः। एवकारान्वयमाह कल्पिता
एवेति सम्बन्ध इति॥ इन्दाविति। चन्द्रबिम्ब इत्यर्थः।
या०— विज्ञानसन्ततीनामिति॥ घटपटस्तम्भादिविज्ञानसन्ततीनामित्यर्थः॥
श्री०— ॐ न भावोऽनुपलब्धेः ॐ॥ विज्ञानते ि। घटज्ञानसन्तति पटज्ञानसन्ततिरिति
विज्ञानसन्ततीनां, तथा एकस्यामपि घटज्ञानसन्ततौ, विज्ञानभेदस्य पूर्वोत्तरज्ञानभेदस्येत्यर्थः।
योगाचारमतनिराकरणम्
सुधा— एवमनूदितं मतमपाकरोति इत्येतदपीति॥
168

इत्येतदपि नो युक्तं .....


पूर्वमतसमुच्चयार्थोऽपिशब्दः। अनेन ‘न भाव’ इति सूत्रांशो व्याख्यातः। जगत् भावो
ज्ञानं न भवतीत्यर्थः। भवतेरनुभवार्थत्वात्। उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव॥
शे०— हेत्वंशस्येव प्रतिज्ञांशस्यस्याप्यवश्यव्याख्येयस्याव्याख्यानाद्भाष्ये न्यू नत्वमाशङ्क्य मतापक-
तरणप्रतिज्ञारूपपूर्वभाष्येणवै तद्व्याख्यानसिद्धेः पृथगव्याख्यानं न न्यूतनत्वापादकमित्याशयेन
पूर्वभाष्यमेव तद्व्याख्यानतयाऽपि व्यापारयति— अनेनति॥ कथमित्यतस्तदेवाभिनयेन दर्शयति—
जगदिति॥ ननु तर्हि सूत्रे न ज्ञानमिति वक्तव्यं न भाव इति तु कथमुक्तम् । न च भावशब्दोऽपि
ज्ञानपर इत्यदोषः। कर्तृसाधनभूधातुनिष्पन्नभावशब्दस्य सदर्थत्वेन ज्ञानपरत्वानुपपत्तेरित्यतः
‘क्रियावाचित्वमाख्यातुमेकै कोऽर्थः प्रदर्शितः।
प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’॥
इति स्मरणात् धातूनामनेकार्थत्वस्थित्या भवतेरनुभवार्थत्वस्याप्यु पपत्तेर्नानुपपत्तिरित्याशयेनाह—
भवतेरनुभवार्थत्वादिति॥ नन्वेवं भावशब्देनैवानुभवलाभादनुभवशब्दे तदर्थस्यान्वित्यु पसर्गस्य वैयर्थ्यं
स्यादित्याशङ्क्योपसर्गाणां धातुगतशक्यतावच्छेदकत्वरूपोपसन्दानत्वापरपर्यायद्योतकत्वेन तदर्थकत्वा-
सिद्धेर्न तद्वैयर्थमित्याह— उपसर्गा हीति॥ प्रजयतीत्यत्र प्रोत्तरजित्वेन जिधातोरेव प्रकृष्टजये शक्तिकल्पनया
प्रकृष्टजयबोधकत्वसिद्धेस्तद्द्योतकत्वमात्रम् यथा प्रेत्यु पसर्गस्यास्थीयते तथाऽनूत्तरभूत्वेन भूधातोरेव
ज्ञानविशेषे शक्तिकल्पनया ज्ञानविशेषबोधकत्वादन्वित्यस्योक्तरीत्या द्योतकत्वमेवेत्यर्थः।
यद्यपि उपसर्गाणां वाचकत्वमेव स्वसिद्धान्तः। ‘समिति ह्युपसर्गेण परमुख्यार्थतोच्यते’(अनु.
३-३-२२) ‘उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति। अतिक्रमं वदन्तं तमुपशब्दो निवारयेत्’(अनु.
१-१-२१९) इति तत्र तत्र भगवत्पादोक्तेः। यु क्तिसिद्धश्चायमर्थः। गवादिशब्दानां स्वार्थ इव जिधातो-
रावापोद्वापाभ्यां जय इव प्रादेरपि प्रकर्षादावापोद्वापाभ्यां शक्तिग्रहात्। प्रकृष्टजयप्रत्ययस्य च जयमात्रे
क्लृप्तशक्तिकजिधातुसमभिव्याहारेणवै ोपपत्तौ धातावेव प्रोत्तरजित्वेन प्रकृष्टजये शक्तिकल्पनस्य गौरवात्।
जिपूर्वप्रत्वेन प्रशब्दस्यैव प्रकृष्टजये शक्तिकल्पना प्रतिबन्द्या चानुत्थानात्। तथाऽपि अङ्गीकारवादोऽय-
मित्यदोषः। विस्तरस्तु तर्कताण्डवे द्रष्टव्यः। निरवकाशैतद्ग्रन्थानुरोधेन कर्मनिर्णयटीकानुरोधेन च
द्योतकत्वस्य उदाहृतभगवत्पादग्रन्थानुरोधेन वाचकत्वस्य चावगतेरुभयमपि सिद्धान्त एव। ततश्चोपस-
र्गविशेषाभिप्रायेणैव वाचकत्वद्योतकत्वयोः समावेशस्यावश्यकत्वादुपसर्गविशेषस्य वाचकत्वेऽप्यु पसर्ग-
विशेषस्य द्योतकत्वात्तदभिप्रायेणैव वाऽयं ग्रन्थः। तर्कताण्डवे वाचकत्वसमर्थनमप्यु पसर्गविशेषाभिप्रा-
यकमेवेत्यप्याहुः। यद्यप्यत्र वो यु ष्माकं भाः साक्षात्कारत्वेनाभिमतं ज्ञानमित्यभिप्रेत्य वा,
169

‘प्राप्तौ भूकशुद्धिचिन्तयोः’1 इति वचनात् चिन्तार्थकज्ञानात्मकोऽपि भूधातुरस्तीति वा, 'नाभाव


उपलब्धेः'इति पूर्वसूत्र इवात्रापि सूत्रे कर्तृसाधनो भावशब्दः सद्रूपज्ञानवाचक एव। विज्ञानवादे ज्ञान-
दन्यस्यासत्वेन तद्वाच्यत्वासम्भवात्। ज्ञानमित्यनुक्त्वा भाव इत्युक्तिस्तु शून्यवादिनं प्रयु क्तो दोषो
नास्माकमिति पूर्वपक्षोत्थापनार्थमेवेति वा व्यु त्पादनं कर्तुं शक्यते। तथाऽप्यु पायान्तरमेतदुपदर्शितं
टीकायामित्यदोषः।
स०— उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एवेति॥ अत्र उपसर्गविशेषस्य वाचकत्वेऽपि
उपसर्गमात्रे तदभावाभिप्रायेण व्यञ्जका एवेत्युक्तम् । न तु वाचकत्वाभावाभिप्रायेण। अन्यथा 'समिति
ह्युपसर्गेण परमुख्यार्थतोच्यत'(अनु.३-३-२२) इत्यादिना विरोधप्रसङ्गादिति द्रष्टव्यम् । ननु प्रजयतीत्यादौ
प्रादिनोपसर्गेण प्रकर्षादिरूपार्थविशेषप्रतीतेः प्रादेः प्रकर्षादौ शक्तिरेव। गवादिशब्दानां स्वार्थ इव
प्रादेरपि प्रकर्षादौ आवापोद्वापाभ्यां शक्तिग्रहात्। प्रकृष्टजयस्य जयमात्रे
क्लृप्तशक्तिकजिधातुसमभिव्याहारेणोपपत्तौ धातावेव प्रोत्तरजित्वेन प्रकृष्टजये शक्तिकल्पने गौरवात्। शुक्लां
गामानयेत्यादौ गोशब्द एव शुक्लोत्तरगोशब्दत्वेन शुक्लगवि शक्तिकल्पनाप्रसङ्गाच्च। प्रकृतिप्रत्ययाभ्यां
प्रत्ययप्रकृत्योरिवोपसर्गेण साधुत्वार्थमेव धातोरपेक्षणेन अर्थबोधनार्थमनपेक्षणात्। अन्यथा प्रत्ययस्यापि
तदापत्तेः। अत एव भगवत्पादैरपि 'समिति ह्युपसर्गेण परमुख्यार्थतोच्यते' इत्युक्तमिति चेन्न। उपसर्ग-
विशेषस्य वाचकत्वेऽपि उपसर्गमात्रस्योपसन्दानत्वमेवेत्यभिप्रायात्।
परि०— अनेनते ि। नो यु क्तमित्यनेनेत्यर्थः। भाव इति सौत्रपदानुवादः। ज्ञानमिति व्याख्या।
भावशब्दस्य ज्ञानार्थत्वं कथमित्यत आह— भवतेरिति। ‘प्राप्तौ भूः शुद्धिचिन्तयोरिति कविकल्पद्रुमो-
क्त्या चिन्तार्थस्य भवतेरण्प्रत्यये भाव इति सिद्धिरिति चन्द्रिकोक्तरीत्या चिन्तार्थत्वमुपेत्यानुभवार्थत्वा-
दित्युक्तम्। नन्वन्वित्यु पसर्गयु क्त एव भवतिरनुभवार्थे दृष्ट इत्यत आह— उपसर्गा हीति। एतच्चाभ्यु प-े
त्यवादेन। वस्तुतस्तु वाचका एवोपसर्गाः। तर्कताण्डवे तथा निपुणतरमुपपादितत्वादिति ज्ञेयम् ॥
या०— अनुभवार्थत्वादिति॥ धातूनामनेकार्थत्वादिति भावः। नन्वेवमन्वित्यु पसर्गस्य वैयर्थ्यमित्यत
आह उपसर्गा हीति॥ व्यञ्जका एवेति। धातुगतशक्ततावच्छेदकरूपोपसन्दानापरपर्यायद्योतका
एवेत्यर्थः। यथा प्रजयतीत्यत्र जिधातोरेव प्रोत्तरजित्वेन प्रकृष्टजये शक्तिकल्पनात्प्रकृष्टजयद्योतकत्वं
प्रेत्यस्य, एवं भूधातोरेवानूत्तरभूत्वेन ज्ञानविशेषे शक्तिकल्पनात् शक्ततावच्छेदकत्वरूपमुपसन्दानत्वाप-
रपर्यायद्योतकत्वमेवानूपसर्गस्य न पुनरर्थविशेषे शक्तत्वरूपं वाचकत्वमिति भावः। इदं च पररीतिमा-
श्रित्यैवोक्तं न वस्तुतः। ‘उपसर्गत्वतो वेस्तु’(अनु.१-४-४१) इत्यत्र वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशे-
षकत्वादिति पूर्वमुक्तत्वात्। ‘समिति ह्युपसर्गेण परमुख्यार्थतोच्यत’(अनु.३-३-२२) इति वक्ष्यमाणत्वाच्च।
1   प्राप्तौ भुक् शुद्धिचिन्तयोरिति वचनादिति। ब्रुलयु क्तौ भु क्भूञ्प्राप्तौ भूक्शुद्धिचिन्तयोरिति कविकल्पद्रुमीय
धातुपाठवचनादित्यर्थः। प्राप्तावित्यस्य पूर्वत्रान्वयात् ञकारानुबन्धविशिष्ठो भूधातुः प्राप्त्यर्थे वर्तते।
ककारानुबन्धयु क्तस्तु भूधातुः शुध्यर्थे च वर्तत इत्यर्थः। ककारानुबन्धस्तु चु रादिण्यंतत्वज्ञापनार्थ इति
द्रष्टव्यम् । (वा.र. v8—350)
170

उपसर्गाणां यथा अर्थविशेषवाचकत्वमेव नोपसन्दानत्वं, तथा तर्कताण्डवे प्रतिपादितं तत्रैवानुसन्धेयम् ।


उपसर्गविशेषाभिप्रायेणैवैतदित्यन्ये॥ वस्तुतस्तु पूर्वसूत्र इवात्रापि सूत्रे कर्तृसाधनेन भावशब्देन सद्रूपं
ज्ञानमुच्यते। विज्ञानवादे ज्ञानादन्यस्यासत्वात्। ज्ञानमित्यनुक्त्वा भाव इत्युक्तिस्तु …'नासतोऽदृष्टत्वा'दिति
शून्यवादिनं प्रत्यु क्तो दोषो नास्माकमिति पूर्वपक्षोत्थापनार्थमिति चन्द्रिकानुसारेण भावशब्दार्थोऽव-
गन्तव्यः।
श्री०— नन्वनुरूपोपसर्गपूर्वकस्यैव भवतेरनुभवार्थत्वं यु क्तं न के वलं भवतेः। प्रकृते चानुरूपोपस-
र्गाभावात्कथमनुभवार्थत्वमत आह— उपसर्गा हीति। तथा च भवतेरेवानुभववाचकत्वमित्यर्थः।
यथाऽऽहुः। ‘धातावेव विलीनोऽर्थ उपसर्गेण काश्यते। प्रहाराहारसंहारविहारपरिहारवदिति’॥
सुधा— कुतो न युक्तमिति चेत्। किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञाना-
त्मकमित्युच्यते1, किं वा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं, भेदमात्रं त्वसदि-
ति। आद्यस्त्वतीताधिकरणरीत्या निरस्तः। न द्वितीयः। जगतो ज्ञानाभेदे प्रमाणाभावात्।
न तावत्तत्र प्रत्यक्षमस्तीत्याह न हीति॥
..... ..... ..... न हि ज्ञानतया जगत्।
भासते ...... ....... ............ ....॥
अनेनानुपलब्धेरित्येतद्व्याख्यातं भवति॥ मा भूत्प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः। प्रका-
शमानत्वाद्यनुमानात्तु 2 भविष्यतीत्यत आह अनुभवस्यैवेति॥
....... अनुभवस्यैव विरुद्धत्वादपेशलम्।
तन्मतम् ....... ....... .............॥
सम्बन्धामात्रे षष्ठी। एवशब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति। तन्मतं तदभिमत-
मनुमानमिति शेषः। ज्ञानज्ञेययोरैक्यमिति 3वा। ज्ञानज्ञेययोः स्फु टं भेदस्यैव साक्षिसिद्ध-
त्वात् कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः। अनेन अनुपलब्धेः इत्येतदुपलब्धिविरोधादिति
च व्याख्यातम्4॥
ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न। बाधकाभावात्। अनुमानं तु बाधकमिति5 तु
1  उच्यते इत्यपि पाठः
2  अनुमानेन इत्यपि पाठः
3  'च' इत्यपि पाठः
4 व्याख्यातं भवति इत्यपि पाठः   
5  बाधकमिति न वाच्यम् इत्यपि पाठः
171

न वाच्यम्। प्रत्यक्षस्यानुमानतो बलवत्वात्। अन्यथा कालातीततोच्छे दप्रसङ्गात्। प्रत्यक्षस्य


भ्रान्तत्वे1ऽनुमानप्रामाण्यं, तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति॥
शे०— ननु जगतो विज्ञानात्मकत्वं नाम तत्रारोपितत्वमेव ममाभिमतम् । तथा च 'न ही'त्यु त्तरदषू -
णासङ्गतिरित्यतो नैतत्पक्षदषू णपरमुत्तरवाक्यं किन्नाम विज्ञानाभिन्नमेव जगदिति पक्षनिरासपरमित्यतो
नानुपपत्तिरित्यभिप्रेत्य जगतो विज्ञानात्मकत्वोक्तौ सम्भावितं पक्षद्वयं विकल्प्याद्यपक्षं बहिरेव प्रदषू ्य
द्वितीयपक्षदषू णपरतयोत्तरग्रन्थं योजयति— किं ज्ञेयमित्यादिना॥॥ निरस्त इति॥ जगतो
भ्रान्तिकल्पितत्वस्य तत्र साधकाभावेन बाधकसद्भावने निरस्तत्वादिति भावः। ननु ‘न हि ज्ञानतया
जगदि’ति ज्ञानजगतोरभेदस्य प्रत्यक्षत्वाभाववर्णनमनर्थकम् । न चैतत्तदभेदस्य
प्रामाणिकत्वाभावसमर्थनार्थमिति वाच्यम् । तस्य प्रागनुक्ततया तदुपपादकत्वायोगादित्यतो
द्वितीयपक्षनिरासहेतुतया तस्याभिप्रेतत्वात्तदुपपादकस्योत्तरग्रन्थस्य नानर्थक्यमित्यभिप्रायेणाप्रेतोपपादक-
तयोत्तरग्रन्थं योजयितुं द्वितीयपक्षनिरासं प्रतिज्ञाय तद्धेतुतया प्रमाणाभावं तावद्व्यापारयति— न द्वितीयो
जगत इति॥ तथाऽपि प्रत्यक्षाभावमात्रेण न प्रमाणाभावसिद्धिरतिप्रसङ्गादित्यतोऽत्र यावत्प्रमाणविशेषा-
भावस्यैव प्रमाणाभावसाधकतयाऽभिमतत्वान्नानुपपत्तिरिति भावेन तत्किं प्रत्यक्षमुतानुमानमिति प्रमाण-
विशेषविकल्पं मनसि निधाय प्रत्यक्षाभावोपपादकतया 'न हीति' ग्रन्थं सङ्गमयति— न तावदिति॥
द्वितीयपक्षमुत्थापयति— मा भूदिति॥ प्रकाशमानत्वादीत्यादिपदेन नियतसहोपलम्भरूपहेतुपरिग्रहः।
‘न लोकाव्ययनिष्ठाखलर्थतृनाम् ’(अष्टा. २-३-६९)2 इति निष्ठायोगे षष्टीनिषेधात् निष्ठान्तविरुद्धशब्दयो-
गेऽनुभवस्येति कथं षष्ठीत्यतो नायं षष्ठीमात्रस्य निषेधः किन्तु कारकषष्ट्या एव। अन्यथा ‘ब्राह्मणस्य
कुर्वन्नोदनस्य पचन् अपां पेरुरसि नरकस्य जिष्णवो गुणरै ि’त्यादौ षष्ठ्यनुपपत्तिप्रसङ्गात्। तथा च
निष्ठायोगे कारकषष्ठ्यनुपपत्तावपि शेषषष्ठ्या अप्रतिषेधादस्याश्च शेषषष्ठीत्वान्नानुपपत्तिरित्याशयेनाह—
सम्बन्धमात्र इति॥ एतच्च 'न लोके 'ति निषेधस्य नित्यत्वमभ्यु पगम्यैवोक्तं न वस्तुतः। 'तृजकाभ्यामि'ति
वक्तव्ये तृचः सानुबन्धकस्य ग्रहणात् ज्ञापकात्3 तस्यानित्यतया कारकषष्ठीपक्षेऽपि निषेधाप्रवृत्यु पप-
त्तेरिति ध्येयम् । नन्वनुमानविरोधस्याप्यु त्तरत्रोच्यमानत्वादनुभवस्यैवेति कथमवधारणमित्यतोऽस्य
बाधकत्वोपयोगिप्राबल्यसूचकतयोत्तरनिषेधकत्वाभावान्नानुपपत्तिरित्याशयेनाह— एव शब्द इति॥
अनुमाननिरासकताया मूलारूढतासिद्ध्यर्थमनुरूपं शेषं पूरयति— अनुमानमिति शेष इति॥ प्रमाणाभा-
वसमर्थनफलोपपादकतयाऽपि शेषं पूरयति— ज्ञानज्ञेययोरैक्यमिति (चे)वेति। अत्र शेष इति वर्तते।
बाधकमपि किं तदभेदग्राहकं प्रत्यक्षमभिमतं किं वा तदभेदसाधकतयोपन्यस्तमनुमानमिति विकल्पं
मनसि निधाय 'न हि ज्ञानतया जगद्शदृ ्यत' इति ज्ञानजगतोरभेदे प्रत्यक्षाभावस्य पूर्वमुपपादितत्वान्न
1  भ्रान्तित्वे इत्यपि पाठः
2  सि.कौ. ६२७
3  तृचः सानुबन्धकस्य ग्रहणाद् ज्ञापकादिति। एतच्च 'मोक्षादिकर्तृत्वस्य श्रुतत्वत' इत्येतद्विचारावसरे
टीकायां(शे.वा.चं) तृतीयस्य तृतीये स्पष्टमिति ज्ञातव्यम् ॥ (वा.र. v8—353)
172

तस्य बाधकत्वं सम्भवतीत्याशयेनाद्यं दषू यति— बाधकाभावादिति। द्वितीयं दषू यति— अनुमानं हीति।
तत्कुत इत्यतो दुर्बलस्यानुमानस्य प्रबलप्रत्यक्षबाध्यतया तद्बाधकत्वायोगादित्याह— प्रत्यक्षस्येति।
प्रबलत्वं चानुमितिकारणस्य पक्षसाध्यहेतुव्याप्त्यादेरनुमितिस्वरूपतत्प्रामाण्यादश्च े प्रत्यक्षेणैव
ग्राह्यत्वादुपजीव्यत्वेनेति द्रष्टव्यम् । अस्तु प्रबलस्यापि प्रत्यक्षस्य दुर्बले नैवानुमानेन बाध इत्यतस्तथा
सत्यग्न्यौष्ण्यप्रत्यक्षस्य तच्छैत्यानुमानेनैव बाधप्रसङ्गात्कालात्ययापदिष्टोच्छेदः स्यादित्याह—
अन्यथेति॥ अन्योन्याश्रत्वाच्चेतीति। न चैवमनुमानस्य भ्रान्तत्वे सिद्धे प्रत्यक्षस्य प्रामाण्यसिद्धिस्तस्मिंश्च
सत्यनुमानस्य भ्रान्तत्वसिद्धिरिति तवाप्यन्योन्याश्रयः स्यादिति वाच्यम् । अक्षस्य
प्रबलतयाऽनुमानविरोधपरिहारमनपेक्ष्यैव प्रामाण्यस्थित्या तदनवकाशात्। ‘न हि सिंहः शशशावकाभा-
वमपेक्ष्य वनमवगाहते’ इत्याशयात्।
परि०— अतीताधिकरणरीत्येति। ‘न चाभावो विश्वं सदिति गम्यते। यत’(अनु.२-२-२२२) इत्युक्त-
रीत्येत्यर्थः। नन्वनुभवस्य विरुद्धत्वादिति कथम् । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम् ’(अष्टा.२-३-६९)1
इति सूत्ण रे निष्ठाशब्दितक्तप्रत्ययान्तयोगे सति षष्ठी न भवतीति निषिद्धत्वेन 'कर्तृकारणयोस्तृतीया'
(अष्टा.२-३-१८)2 इति कर्तरि तृतीयया भाव्यत्वादित्यत आह सम्बधमात्रे षष्ठीति। 'षष्ठी शेष' (अष्टा.
२-३-५०)3 इति सूत्रोक्तसम्बन्ध(मात्रेण)सामान्ये षष्ठी। न तु क्रिया कर्तृभावरूपसम्बन्धविशेष।े ‘न
लोकाव्ययनिष्ठे ’ति (अष्टा.२-३-६५)4 सूत्रे च कर्तृकर्मणोः कृतीति सूत्रप्राप्तषष्ठ्या एव द्वितीयाध्यायद्वितीयपादे
निषेधः न सम्बन्धमात्रप्राप्तषष्ठ्या इति भावः।
या०— ननु ‘न लोकाव्ययनिष्ठे ’ति षष्ठीप्रतिषेधात्कथमनुभवस्य विरुद्धत्वादिति निष्ठायोगे षष्ठीत्यत
आह सम्बन्धमात्र इति॥ नात्र ‘कर्तृकर्मणोः कृती’त्यनेन कर्तरि षष्ठी, येनोक्तनिषेधावसरः, किन्तु
'षष्ठी शेष' इत्यनेनवै । अत्र च न तन्निषेधप्राप्तिरिति भावः5॥
श्री०— आद्यस्त्विति। ज्ञेयं स्वरूपेण सदेव विज्ञाने आरोपितमित्येतत् ‘नाभाव उपलब्धेः’,
‘वैधर्म्याच्च न स्वप्नादिवदि’त्यतीताधिकरणन्यायेन निरस्तमित्यर्थः॥ अनेनते ि। तथा चानुपलब्धेरि-
त्यस्य ज्ञेयस्य ज्ञानात्मकतायाः प्रत्यक्षेणानुपलब्धेरित्यर्थः॥ अनुमानत इति। यत्प्रकाशते तद्विज्ञान,ं
यथा ज्ञानम् । प्रकाशन्ते च नीलादय इत्यनुमानादित्यर्थः। अन्यथाऽनुमानेनैव प्रत्यक्षस्य बाधे
वन्हिरनुष्ण इत्यनेनानुमानेनैव स्पार्शनप्रत्यक्षस्य बाधापत्या कालात्ययापदिष्टरूपबाधोच्छेदप्रसङ्गा-
दित्यर्थः। ‘प्रत्यक्षस्य भ्रान्तित्व इत्यनन्तरं तद्विरोधाभावादिति शेषः। ‘तस्मिंश्च सती’त्यनन्तरं
तद्विरोधादिति शेषः॥
1  सि.कौ. ६२७
2  सि.कौ. ५६१
3  सि.कौ. ६०६  
4 सि.कौ. ६२३ 
5  भावः इत्यनन्तरं 'सूचयतीति। ‘शब्दादेव प्रमितः’ इत्यत्रेवेति भावः'। इति पाठः अस्ति
173

सुधा— अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् ॐ क्षणिकत्वाच्च ॐ इति।


तद्व्याचष्टे क्षणिकत्वाच्चेति॥
॥ॐ क्षणिकत्वाच्च ॐ॥
........ क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः1।
ज्ञेयस्योक्तप्रकारेण .. ..................॥
आशुतरविनाशित्वादित्यर्थः2। न च ज्ञानस्य क्षणिकत्वं भ्रान्तम्। अबाधितप्रतीति-
सिद्धत्वात्3। स्थिररूपतः आशुतरविनाशितारहितत्वतः4। 'अनुस्मृतेश्च'(ब्र.सू.२-२-२५)
इत्याद्युक्तप्रकारेण। अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽऽन्तर-
बाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः।
शे०—॥ क्षणिकत्वाच्चेति॥ ननु ज्ञेयस्याशतु रविनाशित्वराहित्यासिद्धिरेवते ्यत उक्तं मूले ‘उक्तप्रका-
रेण’े ति। तद्व्याचष्टे— अनुस्मृतेश्चेत्याद्युक्तप्रकारेणेति॥
परि०— क्षणिकत्वाच्चेति हेतोरसिद्धिनिरासाय वा विरुद्धधर्म एव तात्पर्यं न तु क्षणवर्तित्व इति
भावेन वार्थमाह— आशुतरविनाशित्वादित्यर्थ इति। स्थिररूपत इत्यस्य नित्यत्वत इति भ्रमनिरासायाह
स्थिररूपत इति। इत्याद्क् यु ते त्यत्रादिपदेन ‘आकाशे चाविशेषात्’(ब्र.सू.२-२-२४)5 इत्याद्युक्तक्षणिकत्वा-
नुमानग्रहः।
सुधा— एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दषू यितुं सूत्रम् ॐ सर्वथाऽ-
नुपपत्तेश्च ॐ इति। तद्व्याख्याति सर्वेति॥
॥ ॐ सर्वथाऽनुपपत्तेश्च ॐ॥
................... सर्वश्रुतिविरोधतः।
अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः॥
श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव। अभ्युपगतश्रुति-

1  स्थितिरूपतः इत्यपि पाठः


2  विनाशित्वाच्चेत्यर्थः इत्यपि पाठः
3  प्रत्ययसिद्धत्वात् इत्यपि पाठः
4  रहितत्वात् इत्यपि पाठः
5  विनाशित्वाच्चेत्यर्थः इति हंसपाठः॥
174

प्रामाण्यं शिष्यं प्रति वा। तेषां पक्षाणामशिवत्वमनेन1 ज्ञाप्यत इति। नन्वनुभूतिविरोधः


प्रागुक्त एव पुनः कस्मादुच्यते। उपसंहारार्थमित्यदोषः। यद्वा तदीयप्रमेयान्तरेऽपीति॥
२-२-९॥
शे०—॥ ॐ सर्वतथाऽनुपपत्तेश्च ॐ॥ ननु श्रुतिप्रामाण्यमनभ्यु पगच्छन्तं प्रति कथं
श्रुतिविरोधकथनमित्यत आह— श्रुतीति॥ स्वागमप्रामाण्यस्य बौद्धेनाप्यङ्गीकारात्तदागमप्रामाण्याभ्यु पग-
मन्यायेनैव तं प्रति श्रुतिप्रामाण्यसमर्थनादित्यर्थः॥ प्रागिति॥ ‘सत्वं चास्यानुभूतितः’ ‘अनुभवस्यैव
विरुद्धत्वात्’ इत्यादिनेति शेषः। उपसंहारार्थत्वमगतिकागतिरिति पूर्वत्रापरितोषादाह— यद्वेति। तत्तद्वा-
द्युत्प्रेक्षितप्रागनिराकृतप्रमेयविशेष एवानुभवविरोधोऽत्रोच्यते। न तु प्राङ्निराकृतेऽर्थ इत्यपौनरुक्त्यमि-
त्यर्थः॥ २-२-९॥
परि०— समर्थितत्वादिति। न विलक्षणत्वाधिकरणे, ‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’(अनु.
१-१-६६) इतिजिज्ञासाधिकरणे वा समर्थितत्वादित्यर्थः॥ २-२-९॥
श्री०— प्रागुक्त एवेति। ‘अनुपलब्धेरि’त्यनेन सूत्रखण्डेनेत्यर्थः॥ ‘अनुभवस्यैव विरुद्धत्वादिति।
तस्यानुभवविरोधकथनपरतया व्याख्यातत्वादिति ज्ञेयम् ॥ प्रमेयान्तरेऽपीति। तथा च के शोल्लु ञ्चनसप्त-
घटिकाभोजनादिरूपतदीयप्रमेयान्तरेऽप्यनुभवविरोधं वक्तुं प्रागुक्त एवानुभवविरोधपुनरुक्त इति न दोष
इत्यर्थः॥ २-२-९॥
।। इति अनुपलब्ध्यधिकरणम्।।

1  'असिद्धत्वमनेन' इत्यपि पाठः

You might also like