You are on page 1of 2

🍃🌸श्री दिव्य दुर्गा ष्टकम्🌸🍃

दुर्गे परे शि शुभदे शि परात्परे शि!


वन्द्ये महे शदयितेकरुणार्णवेशि!।
स्तुत्ये स्वधे सकलतापहरे सुरेशि!
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि!॥1॥

दिव्ये नुते श्रुतिशतैर्वि मले भवेशि!


कन्दर्पदारशतयुन्दरि माधवेशि!।
मे धे गिरीशतनये नियते शिवेशि!
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि!॥2॥

रासेश्वरि प्रणततापहरे कुलेशि!


धर्मप्रिये भयहरे वरदाग्रगेशि!।
वाग्दे वते विधिनुते कमलासनेशि!
कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि!॥3॥

पूज्ये महावृषभवाहिनि मंगलेशि!


पद्मे दिगम्बरि महेश्वरि काननेशि ।
रम्येधरे सकलदे वनुते गयेशि!
कृष्णस्तुते कुरु कृपा ललितेऽखिलेशि!॥4॥

श्रद्धे सुराऽसुरनुते सकले जलेशि!


गंगे गिरीशदयिते गणनायकेशि।
दक्षे स्मशाननिलये सुरनायकेशि!
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥5॥

तारे कृपार्द्रनयने मधुकैटभेशि!


विद्येश्वरे श्वरि यमे निखलाक्षरे शि।
ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि!
कृष्णस्तुते कुरु कृपां ललितऽखिलेशि॥6॥

मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि!
माहेश्वरि त्रिनयने प्रबले मखेशि।
तृष्णे तरं गिणि बले गतिदे ध्रुवेशि!
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥7॥

विश्वम्भरे सकलदे विदिते जयेशि!


विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि!।
मातः सरोजनयने रसिके स्मरे शि!
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥8॥

दुर्गा ष्टकं पठति यः प्रयतः प्रभाते


सर्वार्थदं हरिहरादिनुतां वरे ण्याम्‌।
दुर्गां सुपज्ू य महितां विविधोपचारै ः
प्राप्नोति वांछितफलं न चिरान्मनुष्यः॥9॥ ।।

🍃🌸 जय माता दी 🌸🍃

You might also like