You are on page 1of 25

पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः

Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

The Madras Sanskrit College


Mylapore - Chennai

पद्मा स्वामिनाथन्
MA III दक्षिणायन षण्मासिक
ध्वन्यालोकः अभिलेखः

Name: Padma Swaminathan


MA 111 Semester
Subject - Dhvanyaloka Record.
Subject Code - SPD3A
Nov 2020

1
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

2
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

Table of Contents

ध्वन्यालोकः एकाङ्क प्रश्नाः | 2

१ ध्वन्यालोकग्रन्थारभमङ्गलश्लोकं व्याख्याता । 6

२ ध्वन्यालोकरीत्या अर्थशक्तिमूलध्वनेः लक्षणमुक्त्वा तद्भेदानुदाहरत । 8

५ ध्वनिकारिकां सदलप्रयोजनं निरूपयत । 13

6. ध्वन्यभाववादिनां विकल्पान् सङ्गृह्णीत । 16

3
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

ध्वन्यालोकः एकाङ्क प्रश्नाः |

1. ध्वन्यालोकस्य नामान्तरं किम् ?

○ काव्यलोकः ।
2. मन्गलश्लोके कः स्तूयते ?
○ मुरारिः ।
3. ध्वन्यालोककर्ता कः ?
○ आनन्दवर्धनाचार्य: ।
4. ध्वन्यालोकव्याख्याता कः ? व्याख्यानाम किम् ?
○ व्याख्याता - अभिनवगुप्ताचार्यः ; व्याख्या - लोचना ।
5. यस्मिन्नस्ति न वस्तु …. इदं कस्य पद्यम् ?
○ मनोरथकवेः ।
6. भक्तिर्नाम का?
○ लक्षणावृत्तिः ।
7. शब्दशक्तिः नाम का?
○ यथा वृत्या शब्दस्य अर्थबोधनं संपद्यते, सा शब्दशक्तिः ।
8. बुध पदस्य अर्थः कः ?
○ कव्यतत्वा वेत्ता ।
9. काव्यस्य आत्मा कः?
○ ध्वनिः ।
10. व्यञ्जना व्यापारः कथं संभवति ?
○ व्यङ्ग्यव्यञ्जकसंबन्धेन व्यञ्जना व्यापारः संभवति ?

4
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

11. केषां वाणीषु किम् इव किं विभाति ?


○ महाकवीनां वाणीषु अङ्गनालावन्यमिव प्रतीयमान वस्तु विभाति ।
12.प्रतीयमान अर्थः कतिविधः ?
○ द्विविधः - लौकिकः , काव्यव्यापारै कगोचरः च ।
13.विधिरुपे प्रतिषेधरूपस्य उदाहरणं किम् ?
○ भ्रम धार्मिक! विस्रब्धः स शुनकोऽद्य मारितस्तेन ।
○ गोदावरीनदीकूललतागहनवासिना हन्तसिम्हेन ॥
14.भ्रंधार्मिक ------ इदं कस्य पद्यं?
○ हालकविकृतपद्यम् ।
15. कस्य केन प्रकारे ण श्लोकत्वमागतः ?
○ आदिकवेः वाल्मीकेः क्रौञ्चद्वन्द्ववियोगोथशक्तिः श्लोकत्वमागतः।
16.प्रतिभा नाम का ?
○ नवनवोन्मेषशालिनी प्रतिभा ।
17. प्रतीयमानार्थः केन विद्यते ?
○ काव्यार्थतत्वज्ञैः एव विद्यते ।
18. कवेः उपायौ उपेयः कः? वाच्यवाचकौ उपायौ, व्यङ्ग्यार्थः उपेयः ।
19. शब्दशक्ति - उद्भवः कतिविधः ?
○ वस्तु-अलङ्कारभेदेन द्वीविधः ।
20. कयोः अलङ्कारयोः कस्य प्राधान्यं कस्य किञ्च गौणत्वं च प्रसिद्धं भवति
?
○ अपह्नुति - दीपक - अलङ्कारयोः वाच्यस्य प्राधान्यं व्यङ्ग्यस्य
अनुयायित्वं (गौणत्वं ) प्रसिद्धं भवति ।
21. सूरिशब्दार्थः कः ?
○ वैयाकरणः - शब्दानुशासनपारङ्गतः ।
22. वाक्यपदीयकर्ता कः?

5
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

○ भर्तृहरिः ।
23. सामान्येन ध्वनिः कति विधः ?
○ द्विविधः - अविवकक्षितवाच्यध्वानिः , विवक्षिताऽन्यपरवाच्यध्वनिः

24. अविवक्षितवाच्यः - अस्य अर्थः कः ?
○ अप्रधानीकृतवाच्यः स्वात्मा येन तादृशः व्यञ्जकोऽर्थः ।
25. विवक्षिताऽन्यपरवाच्य अस्य कोऽर्थः ?
○ प्रधानीकृतऽन्यपरः - स्वाभिन्नसम्बन्धः वाच्यः स्वात्मा येन सः।
26. ध्वनिः भक्त्या लक्ष्यते वा , न वा?
○ नास्ति ।
27. रूढशब्दस्य अर्थः कः?
○ परम्परया प्रसिद्धः ।
28. उपलक्षणलक्ष्णं किम् ?
○ स्वबोदकत्वे सति स्वेतरबोधकत्वम् ।
29. लक्षणामूलध्वनेः भेदं लिखत ।
○ अर्थान्तरसङ्क्रमितं अत्यन्ततिरस्कृतम् ।
30. प्रयोजनवति लक्षणा कतिधा ?
○ द्विविधा - गौनी , शुद्धा , सादृश्यात् गौणी , सम्बन्धात् परे शुद्धा ।
31. सुवर्णपुष्पां पृथ्वीं के चिन्वन्ति ?
○ शूरः ,कृतविद्यः,सेवकश्च चिन्वन्ति ।
32. ध्वनॆः आत्मा कः ?
○ मुख्यतया प्रकाशमानः वयन्ज्योऽर्थः ध्वनेरात्मा ।
33. कुत्र श्लेषः संभवति ?
○ वस्तुद्वये शब्दशक्त्या प्रकाशमाने श्लेषः सम्भवति ।

6
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

34. सङ्करसम्सृष्टि - अलङ्कारौ कथं सिद्ध्यतः ?


○ अङ्गङ्गीभावे सङ्करः , समवक्षतायां सम्सृष्टिः ।
35. व्यङ्ग्यस्य यत्राप्राधान्यं ...श्लोकं पूरयत ।
○ व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
○ समासोक्त्यादयः तत्र वाच्य अलङ्कृतयः स्फुटाः ॥
36. काव्यस्य कः अङ्गी , अङ्गः के ?
○ अङ्गी ध्वनिः ,
○ अङ्गः अलङ्कारगुणवृत्तयः ।
37. वैखर्यवस्थायां कथं वर्णः परिणमते ?
○ वैखर्यवस्थायां वायुसम्योगात् यदपि उच्चार्यते तत् स्थानप्रयत्नबलात्
वर्णतां परिणमते ।
38. अतिव्याप्ति लक्षणं किम् ?
○ अनुचितविस्तारे ण अलक्ष्ये लक्षणस्य गमनम् ।
39. उपादानलक्षणायाः नामान्तरं किम् ?
○ लक्षणलक्षणा ।
40. रामोऽमि सर्वे सहे - अत्र कीदृशः ध्वनिः?
○ अर्थात्न्तरसङ्क्रमितवाच्यध्वनिः ।
41. रसादिः केन सह अवभासते ?
○ रसादिः अर्थः वाच्येन सहैव अवभासते ।
42. रसध्वनिः कथं सिद्ध्यति ?
○ मुख्यतया विभाव - अनुभाव - व्यभिचारि संयोजनोदित स्तायि
प्रतिपत्तिकस्य स्थाय्यंश चर्मणा प्रयुक्तः एव आस्वादप्रकर्षः
स्थायीभावोत्कर्षे रसध्वनिः ।
43. भावध्वनिः कथं सिद्ध्यति ?
○ व्यभिचारिभावोत्कर्षे भावध्वनिः सिद्ध्यति ।

7
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

44. रसाद्यलङ्कारः कदा भवति?


○ यत्र वाक्यार्ते प्रधाने रसादयः अण्डं भवति , तत्र रसाद्यलङ्कारः भवति ।
45. क्षिप्तो हस्तावलग्नः - अयं पद्यः कस्य उदाहरणम् ?
○ सङ्कीर्णरसादेः उदाहरणम् ।
46. काव्यशॊभा - कर्तारः के? तद्धेतवः के ? काव्यशॊभा कर्तारः धर्माः गुणाः

○ तदतिशयहेतवः अलङ्काराः ।
47. कयोः रसयोः किं प्रकर्षवत् भवति?
○ विप्रलम्भशृङ्गारकरुणयोः माधुर्यमेव प्रकर्षवत् भवति ।
48. यो यः शास्त्रं …….. इत्यस्मिन् पद्ये कीदृशः गुणः भवति ?
○ ओजोगुणः ।
49. सर्वरससाधारणगुणः कः ?
○ प्रसादगुणः ।
50. विप्रलम्भशृङ्गारे कः वर्ज्यः भवती ?
○ शब्दालङ्कारः वर्ज्याः भवति ।

8
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

१ ध्वन्यालोकग्रन्थारभमङ्गलश्लोकं व्याख्याता ।

स्वेच्छाकेसरिणः स्वच्छस्वच्छायायस्तितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नर्तिच्छिदो नखाः ॥
स्वेच्छया स्वीकृतसिम्हाकृतेः , मधुरिपोः इति मधुनाम्नः असुरस्य
हन्ता यः हरिः तस्य स्वच्छायायास्तितेन्दवः , नैर्मल्येन स्वच्छायया
स्वीयाऽऽकृत्या आयसितः इन्दुः यैः ते स्वच्छायायास्तितेन्दवः,
प्रपन्नार्तिच्छिदः - प्रपन्तानां , शरणागतानां आर्त्यः , तासां छेदकाः
ईदृशाः प्रपन्नर्तिच्छिदः नखाः युष्मान् व्याख्यातसहृदयांश्च रक्षन्तु - इति
श्लोकार्थः ।
स्वेच्छाकेसरिणः इत्यस्यायमान्तरो अर्थः यत् सर्वेठि
स्वीयस्वीयकर्मानुगुण्येन यत्किमपि पशुपक्ष्यादिरूपं स्वीकृत्य अस्यां भुवि
जनिं लभन्ते । परन्तु अयं नारायणः न तथा । न वा अन्येषाम्
इच्छया अपि तु देवदानवयक्षगन्धर्वकिन्नरकिं पुरुषनरादिभिः अवध्यः यः
राक्षसः हिरण्यकशिपुः तस्य सकलजग- -त्क्षोभकारित्वात् हननुमुचितं
मन्वानः तादृशहननेच्छया परिगृहीतहर्याकृतिः इत्यर्थो व्यज्यते ।
मधुरिपोः इत्यनेन भगवतः जगद्रक्षणैकनिरतत्वम् उक्तं भवति ।
अर्थात् जगत्त्रासनिवर्तकत्वमुक्तम् । येन येन सज्जनानां क्लेशः
सञ्जायते तस्य हननद्वारा जगत् रक्षत्य्यम् । इदञ्च स्वयमेव उपात्तं
भगवता -

9
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।


धर्मसंस्तापनार्थाय संभवामि युगे युगे ॥ इति ।
प्रपन्नर्तिच्छिदः इत्यत्र नखानां छेदकत्वं यद्यपि उचितं तथापि आर्तेः
छेदकत्वम् असंभवदपि भगवतः नखानां स्वेच्छया निर्मितत्वात्
अमूर्तस्य अपि आर्तेः छेदकत्वमुचितमेव । अथवा आर्ति शब्दस्य
लक्षणया तत्कारणं हिरण्यकशिप्वादिरूपं अर्थः । स एव
जगत्त्रासकारित्व्वात् मूर्थ इव आर्तिः । तद्धनानेन भक्तानाम् आर्तिरे वः
इत्यस्य अयमर्थः यत् - नैर्मल्येन स्वीयवक्रत्व-हृद्यत्व -
कान्तिमत्वादिविशिष्टया आकृत्या क्लेशितः चन्द्रः इति । तेन भगवतः
नखादर्शनेन चन्द्रस्य आयासः तदानीमेव भवति यदा सोऽपि
तादृशवक्रत्वादियुक्तः स्यात् । तेन बालचन्द्रत्वं ध्वन्यते ।
किञ्च स्वतोप्यधिकगुणवत्वे खलु मनसि क्लेशः सञ्जायते ।
ततश्च भगवन्नखसन्निधौ इन्दोः विच्छायत्वं अहृद्यत्वञ्च प्रतीयते ।
सर्वोप्ययं अर्थः अर्थशक्तिमूलव्यञ्जनाव्यापारारे ण प्रतीयते इत
अर्थशक्तिमूलध्वनिरत्र । तदुक्तम् -
अर्थशक्त्यूद्भवश्चान्यो यत्रार्थस्य प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यत् व्यनक्त्युक्तिं विना स्वतः स्वतः ॥ इति

यत्र अर्थः अर्थान्तरं प्राधान्येन अभिव्यनक्ति सः
अर्थशक्तिमूलध्वनिः । अत्रापि वक्रत्वादि धर्मयुक्तनखपदार्थेन

10
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

आयासपदार्थेन च चन्द्रस्य बालत्वं विच्छायत्वञ्च ध्वन्यते इति


अर्थशक्तिमूलध्वनिः ।
अपि च नखानां स्वच्छतां कौटिल्यं चावलोक्य बालचन्द्रः
स्वचेतसि क्लेशमनुभवति कुतः ? भगवन्नखानां स्वस्य च स्वच्छता
कौटिल्यादिगुणसाम्येपि इमे प्रपन्नार्तिनिवारण कुशलाः न तु अहं इति
, एतावत्पर्यन्तं ध्वलिमहृद्यत्वादियुक्तः अहमेक एव सकलजनाह्लादकरः
आसम् । अद्य तु मत्तः अपि आर्तसन्तापहारित्वादि अधिकगुणोपेताः
नखाः एव अखिलजनाभिलाषणीयाः स्युः । मत्सदृशोऽनयः विद्यन्ते चेत्
कथं सोढु ं शक्यते ? इत्यहो मे दौर्भाग्यातिशयः इति खेदमनुभवति ।
अत्र प्रसिद्धचान्द्रात् नखानाम् आधिक्यवर्णनात्
व्यतिरे कालङ्कारो द्वन्यते इति आलङ्कारध्वनिः। बालचन्द्रः आयासम्
अनुभवतीव इति उत्प्रेक्षाध्वनिः । लोकू हि इतः परं भगवन्नखानेव
बालेन्दुत्वेन भावयति न तु माम् इत्यनेन ‘न इमे नखाः किन्तु
बालेन्दवः’ इति लोको मन्यते । तेन अपह्नुतिः अपःनुत्य
किञ्चिदन्यार्थसूचनम्’ इति लक्षणसमन्वयात् अपःनुतिध्वनिरापि ।
किञ्च “मधुरिपोः प्रपन्नार्तिच्छिदः नखाः त्रायन्तां” इत्यनेन
भगवतः भक्तत्राणे एव सततोद्योगः उक्तः । ततश्च्
जगत्कण्टकमधुकैटभ-हीरन्यकाशिप्वादि आलम्बनविभावानां
तदाक्षिप्त तत्कृतहिंसादिभिः आर्तजनाक्रोशादीनां उद्दीपनविभावानां
असुरकृत अवहेलनादि अनुभावानां असुरकृत अवहेलनादि अनुभावानां

11
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

, गर्वामर्षादि व्यभिचारिभावानाञ्च संयोगात् उत्साहप्रतीते वीरस्य


अभिव्यज्यते ।
अतः ध्वनिं निरूपयितुं प्रवृत्तैः श्रीमदानन्दवर्धनाचार्थैः
वस्त्वलङ्काररसात्मकः त्रिविधोऽपि ध्वनिः अत्र निबद्धः ।
***************

२ ध्वन्यालोकरीत्या अर्थशक्तिमूलध्वनेः लक्षणमुक्त्वा


तद्भेदानुदाहरत।

अर्थशक्त्युद्भवस्त्वन्य यत्रार्थस्य प्रकाशते ।


यस्तात्पर्येण वस्त्वन्यद्वचानक्त्युक्तिं विना स्वतः ॥
यत्रार्थः स्वसामर्थ्यात् व्यञ्जनाव्यापारे ण ‘अयमर्थः’ अर्थान्तस्य
व्यञ्जकः’ इत्येवं ज्नापकशब्दाभावेन अर्थान्तरस्य व्यनक्ति तत्र
अर्थशक्तिमूलध्वनिः संभवति ।
एवं वादिनी देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥
अत्र लीलाकमलपत्रगणेन अधोमुखत्वेन च अर्थेन
लज्जाख्यव्यभिचारिभावः व्यञ्जनाव्यापारे ण प्रकाशितः वाच्यार्थात
प्राधान्यम् अनुभवति । एवमत्र अयमर्थः द्योत्यते इति
व्यङ्ग्यसद्भावप्रकाशक- -स्शब्दोऽपि नास्ति ।
अतः अर्थशक्तिमूलध्वनेरुदाहरणमिदम् ।

12
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

नन्वत्र: -
रसभावत्दाभासतत्प्रशान्यादिरक्र्मः - इत्युक्तदिषा
लज्जाख्य्व्यभिचारिभावस्य ध्वननात् असम्लक्ष्यक्रमध्वनिः तत्कथं
अर्थशक्तिमूलध्वनिः अत्र संभवति? इति चेदुच्यते - यद्यपि
रसभावादिरर्थः सर्वदा व्यङ्ग्य एव न, कदाचित् वाच्यः तथापि न सः
सर्वोऽपि अलक्ष्यत्वादसन्लक्ष्यक्रमध्वनिः ।
यथा कुमारसम्भवे मधुप्रसङ्गे -
निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीववपुर्गुणेन ।
अनुप्रयाता वनदेवताभिः अदृश्यत स्थावरराजकन्या ॥
इति आलंबनविभावस्य देव्याः उद्दीपनविभावस्य तत्सौन्दर्यस्य
वसन्तादेश्चा वर्णनम् । तदनु - प्रतिग्रहितुं प्रणयि प्रियत्वात्
त्रिलोक्चानस्तामुपचाक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुव्यमोघं
स मधत्तबाणम् इत्यनेन अम्मोहनं इत्यादिना विभावस्य उपयोगः
कथितः । ततः
हरस्तु किञ्चित्परिवृत्तधैइर्यः चान्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥
इत्यादिना भावस्य देव्युमुखत्वं तदधरवीक्षणं इत्याद्यनुभावाः
औत्सुक्क्यादयः व्यभिचारिभावाश्चा सम्पूर्णतया परिपोषिताः । तेन
विभावानुभावव्यभिचारिचर्वणेन समनन्तरमेव स्थायी-रतिः प्रकाशते ।
ततश्च सहृदयचेतसि रसप्रतीतिः व्यवधानं विना झटिति भवतीत्यतः

13
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

एतादृशस्थलेषु असंलक्ष्यक्रम एव। परन्तु अत्र ‘एवं वादिनी’ इत्यादौ


शतपत्रपत्रगणनं अधोमुखत्वञ्च न केवलं लज्जयैव संभवति अपि तु
, अन्येनापि हेतुना सम्भवेत् इत्यतः झटिति न लज्जाप्रतीतिः, किन्तु
भगवत्याः तत्पूर्वाचरितस्य तपश्चर्यादेः वृत्तानानुस्मरणानन्तरमेव
तत्प्रतिपत्तिः इत्यतः संलक्षया तु असंलक्ष्यक्रमत्वम् ।
‘उक्तिं विना’ इत्यस्यायमर्थः यत् शब्दशक्त्या अर्थशक्त्या
उभयशक्त्या वा प्रकाशितोऽपि व्यङ्ग्योऽर्थः शब्दान्तरे ण सूचितश्चेत्
तदा ध्वनित्वं न । यथा -
दृष्ट्या केशव गोपरागहृदया किञ्चिन्न दृष्टं मया
तेनैव स्खलितास्मि नाथ पातितां किं नाम नालंबसे ।
एकसत्वं विषमेषु खिन्नमनसां सर्वाबलनां गतिः
गोप्यैवं गदितः सलेशमवतात गोष्ठे हरिः वश्चिरम् ॥
इत्यत्र सलेशं इति शब्देन व्यङ्ग्योऽर्थः ।
यथा वा -
अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्तणीरत्र ततः
निश्शेषागारकर्मश्तमशिथिलतनुः कुम्भदासी तथात्र ।
अस्मिन् पापहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं तरुण्या कथितमवसरव्याहृतव्याजपूर्वम् ॥
इति श्लोके ‘अवसख्याहृतिव्याजपूर्वं’ इति ‘व्याज’ शब्देन प्रकटितः ।
एवं विधेषु न ध्वनिः ।

14
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

अस्मिन् द्वानौ व्यञ्जकस्यार्थः तस्य द्वैविध्यम् -


प्रौढोक्तिमात्रनिष्पन्नत्वेन, स्वतस्संभवित्वेन च । प्रौढोक्तिमात्रनिष्पन्नः
द्विविधः । कविप्रौढोक्तिमात्र सिद्धः , कविनिबद्धवक्तृप्रौढोक्तिशिद्धिः इति
।आहत्य त्रयः प्रकाराः । तदुक्तम् -
प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विधौ ज्ञेयः वस्तुनोऽन्यस्य दीपकः ॥ इति

अर्थसामर्थ्यात क्वचित् वस्तु प्रतीयते क्वचित् अलङ्कारश्च व्यङ्ग्यः


भवति । अलङ्कारश्च क्वचित् वस्तुमात्रेण व्यज्यन्ते क्वचित्
अलङ्कारे ण । अर्वत्र व्यन्यस्य यत्र प्राधान्यं तत्रैव ध्वनिरवगन्तव्यः ।
पूर्वोक्तप्रकारे ण इमे भेदाः संभवन्ति वस्तुना वस्तुध्वनिः ,
अलङ्कारे ण वस्तुध्वनिः , वस्तुना अलङ्कारध्वनिः ,
अलङ्कारे णालङ्कारध्वनिश्चेति एवं स्वतस्सिद्ध -
कविप्रौढोक्तिसिद्ध-कविनिबद्ध- वक्तृप्रौढोक्तिसिद्धानां प्रत्येकं
चातुविध्येन द्वादशभेदाः संभवन्ति इति सारः
************

15
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

३ प्रतीयमानस्यार्थस्य वाच्यात् विविक्तत्वं प्रदर्श्यत ।

सहृदयश्लाध्योऽर्थस्तावत् द्विविधः वाच्यः प्रतीयमानश्चेति । तत्र वाच्यः


उप्मादिरर्थः । वाच्यसामर्थ्यादाक्षिप्तः , तत्तोपि रमणीयतरः कदाचित्
तदङ्गभूतो वा अर्थः प्रतीयमानः इत्युच्यते । यथा शिरः करचरणादिभ्यः
शौर्यधैर्यादिगुणेभ्यः हारकेयूराद्यलङ्कारे भ्यश्च अन्य एव आत्मा भासते ,
यथा वा ललजासु निखिलावयवव्यतिरे कि लावण्यं सहृदयलोचनानां
अमृतं प्रकाशते , तद्वत् काव्यशरीरभूतशब्दार्थेभ्यः माधुर्यादिगुणेभ्यः ,
उपमोत्प्रेक्षादि आलङ्कारे भ्यः च भिन्नमेव सहृदयहृदयाह्लादकरं सुप्रसिद्धं
वक्तु प्रतीयमानं चकास्ति । तदुक्तं ध्वनिकृता -
प्रतीयमानं पुनरन्यदेव वस्त्वसि वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥
‘प्रसिद्धावयवातिरिक्तं’ इत्यनेन तदेचा सारभूतं इत्युक्तं भवति ।
‘महाकवीनां वाणीषु’ इत्यनेन लक्षणमेव एतावत्पर्यन्तं स्फुटतया न
कृतम् । लक्ष्ये पुनः परीक्ष्यमाणे महाकविवचस्सु भासते एव ।
अत्यन्त असतः वस्तुनः भानमेव अनुपपन्नम् । परन्तु इदं भाति ,
तत्रापि विशेषेण भाति इत्यनेन व्यङ्ग्यस्य अस्तित्वम् उक्तम् । किञ्च
प्रतीयमानार्थप्रणयनेनैव महाकवित्वपदवी लभ्येत , न तु
केवलशब्दार्थगुम्फनेन इत्यर्थः । स च प्रतीयमानः अनेकप्रकारोऽपि
मुख्यतया वस्त्वलन्काररसभेदेन त्रिधा विभक्तः । त्रिष्वपि प्रभेदेषु

16
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

वाच्याद्विवित एव । प्रथमस्तावत वस्तुरूपः वाच्याद्विभिन्न एव । स च


कदाचित् प्रतिषेधरूपाद्वाच्यात् विधिरूपः कुत्रचित् अनुभयरूपश्च
प्रतीयते । यथा -
भ्रम धार्मिक ! विस्रब्धः स शुनकोऽदया मारितस्तेन ।
गोदावरीनदीकूललतागहनवासिना दृप्तसिम्हेन ॥

स्वरमणसमागमस्थानं विविधलताकुसुमभूषितं समागमसमये रति


उद्दीपकं किञ्चिदुद्यानं रक्षन्त्याः कस्याश्चित् स्वैरिण्याः तत्रागण्याः
तत्रागत्य सुरभीणि सुरम्याणि च पुष्पाण्याहरन्तं धार्मिकं प्रति इयमुक्तिः
अयमर्थः - हे धार्मिक! ते भीतिहेतुः यः श्वासः अद्य
गोदावरीनदीकच्छलतागहने वसता प्रमत्तसिम्हेन व्यापादितः । अतः
स्वच्छन्दं भ्रम ! इति । अनेन वाच्यार्थेन ‘यः सिम्हः पूर्वं
गॊदावरीतीर लतागहणे वसन्नासीत् सोऽयम् अत्रैव सञ्चरति’ इति ।
अत्र भरणं नैवोचितं इति भ्रमणनिषेधः व्यज्यते । अत्र भ्रमणविधिरूपः
वाच्यार्थः , तन्निषेधरूपश्च प्रतीयमानोऽरथः । विधिनिषेधयोः विरुद्धयोः
वाच्यत्वं न कदापि संभवति । अतः वाच्यार्थसामर्थ्यावगतः व्यङ्ग्य एव
निषेधरूपोऽर्थः ॥

*****************

17
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

५ ध्वनिकारिकां सदलप्रयोजनं निरूपयत ।

यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।


व्यङ्ग्यः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥
इतीयं कारिका ध्वनिनिरूपणप्रसङ्गे श्रीमदानन्दवर्धनाचार्यैः अभिहिता
। ‘यस्मिन्नस्ति न वस्तु किञ्चन मनः प्रःलादि सालङ्कृती’ इत्यादिना
द्वन्यभावपक्षं प्रतिपाद्य तत् खण्डनाय उद्यतः ‘वाच्यव्यतिरिक्त व्यङ्ग्यं
चकास्ति एव इति प्रतिपादितवान् । वाच्यात विविक्ततया प्रतीयमानं
चाकास्त्येव । तच्च सहृदयानां बुद्धौ अवभासते , यथा युवतीषु
लावण्यं , ततत अवयव संस्थाव्यतिरित्क्तं भासते तथा ।

तदुक्तम् -
प्रतीयमानं पुनरन्यदेव वस्त्चस्ति वणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्त विभाति लावन्यमिवान्गनासु ॥

इन्चा ‘महाकवीनां वाणीषु’ इत्यनेन


वाल्मीकिव्यासकालिदासादीनां कृतीषु इयं वाक् तेषां प्रतिभां
अभिव्यनक्ति । किञ्च ‘काव्यं तत् ध्वनिना समन्वितम्’ इति वदत्भिः
किं ध्वनेः स्वरूपं इति पुष्टे ‘न वयं जानीमः’ इत्युच्यते । एवञ्च ध्वनेः

18
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

नास्ति किञ्चित् लक्षणं इति यैरुच्यते , तेषामत्र समाधानम् - यत्रार्थः


शब्दो वा इत्यादि ध्वनिकारिका ।
अयमर्थः - यस्मिन्काव्ये शब्दः अर्थो वा उपसर्जनीकृतस्वार्थौ -
गुणीकृतशब्दार्थौ तमर्थं अतिरमनीयं स्वादु व्यङ्ग्यं
वस्त्वलङ्काररसात्मकं व्यङ्क्तः , व्यन्जनया बोधयतः सः काव्यविशेषः
ध्वनिरिति सूरिभिः कथितः ।
अत्र वैयाकरणाः सूरयः । “प्रथमे हि विद्वांसो वैयाकरणाः” । तैश्च
प्रथमं ध्वनिव्यवहारः कृतः । तदुक्तं भगवता भर्तृहरिणा -
यः संयोगवियोगाभ्यां करणैरुपजन्युते ।
सः स्फोटशब्दजाः शब्दाः ध्वनयोन्यैरुदाहृताः ॥
अत्र अन्य भुद्धि निर्ग्राःय स्फोताभिव्यन्जक ये श्रूयमाणाः वर्णाः
ध्वनिशब्देन उक्ताः घण्टा निनादवत् । मतानुसारिभिः आलङ्कारिकैः
अनुरणनरूपः शब्दात् जायमानः व्यङ्ग्यः अर्थः ध्वनिः इति व्यवहृतः ।
अतः अस्य प्रामाण्यम् ।
किञ्च ‘व्यङ्क्तः’ इति द्विवचानेन यत्र शब्दः एव व्यञ्जकः तत्र
अर्थस्यापि सहकारिता । एवं अर्थशक्तिमूलध्वन्यादौ यद्यपि अर्थस्य
व्यञ्जकत्वं तथा शब्दस्यापि सहकारित्वम् । अतः उभयोरपि ध्वननं
व्यापारः न केवलमेकस्य । शब्दशक्तिमूलध्वनिः , अर्थशक्तिमूलध्वनिः
इति व्यवहारः तु ‘प्राधान्येन व्यपदेशा भवन्ति’ इति न्यायेन , न तु
प्रत्येकमेकैकस्य । अतः एव ‘व्यङ्क्तः’ इति द्विवचनम् ।

19
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

एवञ्च वाच्यवाचकचारुत्वहेतुभ्यः अनुप्रासादिभ्यः


उपमाद्यलङ्कारॆभ्यः विविक्तः एवायं ध्वनिः । किञ्च गुणालङ्कारादिभ्यः
व्यतिरिक्तस्य पर्णस्य काव्यत्वमेव न सम्भवतीति यदुक्तं, तदपि
प्रत्युक्तमेव , यतः अयं प्रतीयमानः अर्थः एव वस्तुतः काव्यजीवभूतः ।
एतत् ध्वनिव्यतिरिक्तञ्च गुणीभूतव्यङ्ग्यम् , चित्रम् इति च आहूयते

‘उपसर्जनीकृतस्वार्थौ’ इत्यस्य अयं अर्थः स्वश्च अर्थश्च तौ स्वार्थु
तौ गुणीकृतौ याभ्यां अर्थात् , अर्थः गुणीकृतात्माः, शब्दश्च
गुणीकृताभिधेयः अर्थान्तरं द्योतयतः इत्यर्थः । तेन
केवलशब्दविच्छित्तिविशेषेषु अनुप्रासादिषु अर्थविच्छित्तिविशेषेषु
उपमादिषु वा न अस्य अन्तर्भाव च ते च केवलं अङ्गभूता एव ,
ध्वनिस्तु अङ्गीभूत एव । ते च वाच्यव्वाचाकाश्रयाः ध्वनिस्तु
व्यङ्ग्यव्यञ्जकाश्रयः । किञ्च व्यङ्ग्यद्योतनमात्रेणैव काव्यं ध्वनिः
इति न व्यःरियते । एवमुक्ते सति गुणीभूतव्यङ्ग्ये दीपकाद्यलङ्कारे षु च
अतिव्याप्तिः स्यात् । तद्वारणाय उपसर्जनीकृतस्वार्थौ इत्युक्तम् । तेन
व्यङ्ग्यस्य प्राधान्ये ध्वनिः तद्गुणीभावे च गुणीभूतव्यङ्ग्यं चित्रं वा ,
अतः न अतिव्याप्तिः ।
एवञ्च यत्रापि समासोक्तिपर्यायोक्तादिषु वा व्यङ्ग्यस्य
वच्यादधिकः न चमत्कारः तत्र न ध्वनिः। तदुक्तं ध्वनिकृता -
व्यङ्ग्यव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः ।

20
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

वाच्यवाचकचारुत्वहेत्वन्तः पतिताः कृतः ॥

व्यङ्ग्यस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा ।


न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥
तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥

‘ग्रामतरुणं तरुण्याः’ इत्यादिषु वञ्जुललतागृहे दत्तसन्केता


नागता इति व्यङ्ग्यं ‘नीतरां मलिना मुखच्छाया’ इति मुखमालिन्य
रूपवाच्यार्थस्य गुणीभूतः । न ध्वनिः । ध्वनेः उदाहरणम् - ‘ स्थिताः
क्षणं पक्ष्मसु ताडिताधराः ..’ इति ।

*************************

21
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

6. ध्वन्यभाववादिनां विकल्पान् सङ्गृह्णीत ।

काव्यस्य हि शब्दार्थौ शरीरम् । तयोः चारुताहेतवः गुणाः


अलङ्काराश्च । तत्र चारुत्वं तावत् काव्यस्य द्विधा भवति
स्वरूपमात्रनिष्ठं सङ्घटाश्रितश्चेति । शब्दानां चारुत्वं
शब्दालङ्कारे भ्यः अनुप्रासादिभ्यः माधुर्यादिभ्यः शब्दगुणेभ्यश्च भवति ।
अर्थानां पुनः चारुत्वं उपमाद्यर्थालङ्कारे भ्यः मधुर्यादि अर्थगुणेभ्यश्च ।
अलङ्काराः शब्दार्थाश्रिताः , एवं गुणाः सङ्घटनाश्रितः । सङ्घटबा
नाम रीति । तदुक्तं वामनाचार्यैः - विशिष्टा पदरचाना रीतिः विशेषो
गुणात्म इति । एते गुणालङ्कारा एव काव्यशीहेतवः । तद्व्यतिरिक्तः
ध्वनिर्नाम कश्चन न संभवति ।
अत्रायं आशङ्का गुणालङ्कारव्यतिरिक्तः चारुत्ताहेतुः न भवतीति
यदुक्तं तन्न युक्तम् । पुरुषा - नागरिकादिवृत्तीनां वैदर्भयादिरीतीनाञ्च
तत् व्यतिरिक्तत्वेऽपी चारुताहेतुत्वाङ्गीकारात् । तथाहि
सरुपव्यञ्जनन्यासं तिसृषुवेतासु वृत्तिषु ।
प्र्ठग्पृथगुपादानं उशन्ति कवयः सदा ॥
सषाभ्यां रे फसम्योगेः टवर्गेण च योजिता ।
ओउरुषा नाम वृत्तिः स्यात् ह्लःलःयाद्यैश्चा संयुता ॥
सरूपसंयोगितां मूर्ध्नि वर्गन्त्ययोगिभिः ।
अपर्शैर्युतान्चा मन्यन्ते उपनागरिकां बुधाः ॥

22
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

शेषैर्वर्णैर्यथायोगं कथितां कोमलाख्यया ।


ग्राम्यं वृत्ति ं प्रशसन्ति काव्येष्वाहतबुद्धयः ॥
इति भट्टोद्भटे न परुषा उपनागरिका ग्राम्या इति तिस्रः वृत्तयः अभिहिताः
। ‘वर्तन्ते अनुप्रासभेदाः आसु’ इति वृत्तयः । एवं वामनेनापि
दीप्तललितमध्य- वर्णनीयविषया - गौडी - वैदर्भी - पाञ्चाली इति
त्रिविधा रीतिरिति दर्शिता । तदुक्तम् -
रीतिरात्मा काव्यस्य सात्रेधा वैदर्भी गौडीया पाञ्चाली चेति ।
समग्रगुणा वैदर्भी, ओजः कानित्मती गौडीया, माधुर्यसौकुमार्योपपन्ना
पाञ्चाली इति । गुणालङ्कारव्यतिरिक्तवे चारुताहेतुत्वे चाङ्गीकृते
तद्वत् एव ध्वनीरापि तद्व्यतिरिक्तं चारुत्वञ्चाङ्गीकार्यम् ।
अत्र इदं समाधानं -
न तावद्वृत्तिरीतीनामङ्कारगुणव्यतिरिक्तत्वम् अनुप्रासानामेव
तत्तत्रसोपक्कारकत्वेन त्रिधा विभागार्थं तिस्रः अनुप्रासाधर्मः उक्ताः ।
दीपवर्णयोगे वर्णानां परुष्यात् परुषा इति मसृणवर्णयोगे उपनागरिका
- नागरिकया विदग्धया उपमिता इति , माधुर्यपारुष्यरहितवर्णयोगे
ग्राम्यवनितासादृश्यात् ग्राम्या इति तिरः वृत्तयः अपि अनुप्रासजाताय
एव । तेन एताः परुषानुप्रासः मलितानुप्रासः कोमलानुप्रासः इत्यपि
व्यवहर्तुं शक्यन्ते । जातिमतः नाऽन्या । जातौ वृत्तौ जातिमतः
अनुप्रासस्य वर्तमानात् न अनुप्रासादिभ्यो वृत्तेः अतिरिक्तत्वम् । अपि
तु तदन्तर्भाव एव । अपि च रीतीनामपि न गुणेभ्यः पर्थक्यम् ।

23
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

गुणसञ्जातो हि रीतिः । एवञ्च गुणाः अवयवाः । रीतिश्चावयवी ।


अतः न रीतिनामपि गुणालङ्कारव्यतिरिक्तम् । तस्मात्
एतत्द्वयातिरिक्तः नास्त्येव ध्वनिर्नाम कश्चित इति प्रथमः विकल्पः ।
अपरे पुनर्वदेयुः गुणालङ्कारसुन्दरशब्दार्थमयत्वं हि काव्यस्य लक्षणम्
। शब्दार्थौ तद्गतगुणालङ्काराश्च काव्यशब्दवाच्याः - इत्येव
काव्याभिजाः परम्परया व्यवहरन्ति । तत्मार्गव्यतिरिक्तस्य
चारुताहेतुत्वेऽपि नृत्त-गीत - वाद्यात्वत व्यवहारः स्यात् । न तु
काव्यत्वेन । न हि ध्वने काव्यत्वम् प्रसिद्धरस्ति । अतः ध्वनिः न
काव्यं भवितुमर्हति , शब्दार्थव्यतिरिक्तत्वात् नापि सः काव्यसम्बन्धी
गुणालङ्कारव्यतिरिक्तत्वात् । अपि, नृत्तगीतादिवत् अन्य एव कश्चित्
। ये केचन तत्वम् अनवलोकयन्तः यथा शृतमेवाङ्गीकुर्वाणाः तानेव
सहृदयान् परिकल्प्य ‘सहृदयप्रसिद्धः अयं ध्वनिः काव्यव्यपदेसभाक’
इति वक्तंु न युक्तम् । सकलसहृदय आदृतमेव हि लक्षणं भवति । नो
चेत् ‘खड्गलक्षणं ब्रवीमिति , कोमलतन्तुविरचितः आच्छादकः खड्गः’
इति ब्रुवाणस्य वचनं हास्यास्पदं यथा , तथैव ध्वनेः काव्यत्वे उक्तिरिति

परे तु काव्यस्य जीवितभूतत्वेन ध्वनिः न अङ्गीकर्तुं शक्यते , न
वां गुणालङ्कारव्यतिरिक्तत्वेन । यदि तस्य चारुताहेतुत्वं कथञ्चित्
उच्यते थापि चिरन्तन-आलन्कारिक - निरूपितेषु काव्यशोभाहेतुषु
गुणेष्वलङ्कारे षु वाऽन्तर्भावः भवेत् तस्य । न चायमपूर्व कश्चित्

24
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

चिरन्तनैः अलक्षितः चमत्कारकारीति तद्व्यतिरिक्त एव ध्वनिः इति


वाच्यम् । शब्दार्थवैचित्र्यकारिणः स्वस्वप्रतिभया आलङ्कारिकैः नवनवाः
अलङ्काराः , गुणा वा लक्ष्य-लक्षणभेदपुरस्सरं निरूपिताः निरूप्यन्ते
निरूपयिष्यन्ते च । न तावता वैचित्र्यहेतुः अयं ध्वनिरापि तेषु
अन्यतमः । कश्चन स्वप्रतिभानिर्वर्तितकाव्यवैचित्र्य प्रकारलेशं आश्रित्य
तस्यैव काव्यजीवितत्वं वक्तंु युक्तम् । न वाऽस्य ध्वनेः विचारः अहं
जीवितत्वप्रतिपादनयोग्यं गुणालङ्कारव्यतिरिक्तत्वसाधकं लक्षणं वा
इति वदेयुः ।
एवमेते अभाववादाः प्र्टगुक्ताः अपि परस्परस्संबन्धा एव । यतः
शोभाहेतुत्वे न । गुणालङ्कारे भ्यः व्यतिरिक्तः । तद्व्यतिरिक्तत्वे न
शोभाहेतुः , तच्छिभाहेतुत्वेऽपि नास्पदमिति ।

***********************

25

You might also like