You are on page 1of 2

राधिका।

आवासो विपिनायते प्रियसखी-मालापि जालायते


तापोऽपि श्वसितेन दाव-दहन-ज्वालकलापायते।
सापि त्वद्-विरहेण हन्त हरिणी-रूपायते हा कथम्
कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितम्॥

स्तन-विनिहितम् अपि हारम् उदारम्।


सा मनुते कृ श-तनुरतिभारम्।
राधिका कृ ष्ण राधिका। राधिका तव विरहे के शवा।१।

सरस-मशृणम् अपि मलयज-पङ्कम्।


पश्यति विषमिव वपुषि सशङ्कम्।
राधिका तव विरहे के शवा।२।

श्वसित-पवनम् अनुपम-परिणाहम्।
मदन-दहनम् इव वहति सदाहम्।
राधिका तव विरहे के शवा।३।

दिशि दिशि किरति सजल-कण-जालम्।


नयन-नलिनम् इव विगलित-नालम्।
राधिका तव विरहे के शवा।४।

नयन-विषयम् अपि किसलय-तल्पम्।


कलयति विहित-हुताश-विकल्पम्।
राधिका तव विरहे के शवा।५।

त्यजति न पाणि-तलेन कपोलम्।


बाल-शशिनम् इव सायम् अलोलम्।
राधिका तव विरहे के शवा।६।

हरिरिति हरिरिति जपति सकामम्।


विरह-विहित-मरणेन निकामम्।
राधिका तव विरहे के शवा।७।

श्री-जयदेव-भणितम् इति गीतम्।


सुखयतु के शव-पदम् उपनीतम्।
राधिका तव विरहे के शवा।८।

धीर समीरे

रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम्।


न कु रु नितम्बिनि गमन-विलम्बनम् अनुसर तं हृदयेशम्॥१॥

धीर-समीरे यमुना-तीरे वसति वने वनमाली।


गोपी-पीन-पयोधर-मर्दन-चञ्चल-करयुग-शाली॥    ध्रुवपदम्॥

नाम समेतं कृ त-सङ्केतं वादयते मृदुवेणुम्।


बहु मनुते ननु ते तनु-सङ्गत-पवन-चलितम् अपि रेणुम्॥२॥

पतति पतत्रे विचलति पत्रे शङ्कित-भवद् उपयानम्।


रचयति शयनं सचकित-नयनं पश्यति तव पन्थानम्॥३॥   

मुखरम् अधीरं त्यज मञ्जीरं रिपुम् इव के लिसु लोलम्।


चल सखि कु ञ्जं सतिमिर-पुञ्जं शीलय नील-निचोलम्॥४॥

उरसि मुरारेरुपहित-हारे घन इव तरल-बलाके ।


तइद् इव पिते रति-विपरिते रजसि सुकृ त-विपके ॥५॥

विगलित-वसनं परिहृत-रसनं घथय जघनम् अपि धानम्।


किसलय-शयने पङ्कज-नयने निधिम् इव हर्श-निदानम्॥६॥

हरिरभिमानी रजनिरिदनीम् इयम् अपि यति विरामम्।


कु रु मम वचनं सत्वर-रचनं पूरय मधुरिपु-कामम्॥७॥

श्रीजयदेवे कृ तहरिसेवे भणति परम-रमणीयम्।


प्रमुदित-हृदयं हरिम् अतिसदयं नमत सुकृ त-कमनीयम्॥८॥

You might also like