You are on page 1of 2

पत्रप्रस्तोता

(PAGEMAKER)
पूर्वामुखम्
आधुनिके विश्वे गरिष्ठकीर्तिव्यपदेश्यस्य सङ्गणकयन्त्रस्य बहुधा उपयोगः प्रचलितः। तत्र पत्रनिर्मितिरन्यतमताकं भजते। शैल्पिकधिया
पत्राणि निर्मातुं बहवः तन्त्रांशा उद्भाविता विद्वद्भिः। प्रतिभा भवति नवोन्मेषशालिनी प्रज्ञा। तस्या उपयोगेन विद्या फलवती भवति। अधुना सङ्गणकयन्त्रं
तत्र चोपयुज्यमानान् तन्त्रांशान् समाश्रित्य नूतना उन्मेषा जनान् विस्मापयति। यद्यपि उच्यते – “विद्यातुराणां न सुखं न निद्रा” इति तथापि विदुषां
सौविध्यं सुखञ्च सुष्ठु साधयितुम् एता आविष्कृ तयो बहुधा उपयुक्ता भवन्ति इति वक्तु मुचितम्। एतेषां नवीनानां विषयाणाम् उपयोगस्तु गवेषणायां
नूतनान् विषयान् उन्मोचयति। कालिदासीये शाकु न्तले प्रथिताम् – “आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्” इत्येषां वाणीं मनसि
निधाय एवं व्याहर्तुं शक्यते यत्, सत्यमेते नवीनोद्भाविता विषयाः सर्वेषां सुधियां चेतांसि सन्तोषयन्तीति। दशोनपादोनद्विसहस्रतमेशवीयाब्दे
(१९८५) इत्यस्य आविष्कारः सम्पन्नः। परन्तु आधुनिकशैल्या परिवर्तनं साधयित्वा PageMaker7.0 इत्यस्य प्रकाशः
एकोत्तरद्विसहस्रतमेशवीयाब्दे (२००१) जातः।

उपयोगः
PageMaker इत्यस्य उपयोगः प्रायो भवति किञ्चिद् रूपयितुम्। अपि च, अस्य व्यवहारो भवति किञ्चित् प्रस्तोतुं, यत्र चित्राणां वर्णानाञ्च मिथः
प्रयोगोऽपेक्ष्यते। PageMaker इति तन्त्रांशे बहूनि नूतनानि साधनानि युज्यन्ते। एतेषां साधनानां सन्निवेशस्तु तन्त्रांशमिमं व्यवहर्तुं बहु सौविध्यं
समुत्पादयति। अधुना नवीनतया प्रकाशितेऽस्मिन् तन्त्रांशे कतिचन अंशाः सन्निविष्टाः इति विषयोऽधस्ताद् उल्लिख्यते।
 व्यवहर्तुः स्थानीयसञ्चिका (Native Illustrator File) इत्यस्य संयोगेन अस्य सामर्थ्यं वर्धितम्।
 Eps शोधनम् (EPS Filter) इत्येतद् आधुनिकीकृ त्य व्यवहाराय सौविध्यं साधितम्।
 उपयोक्तृ माध्यमः (User Interface) इत्यस्य सुष्ठु सन्निवेशः कृ तः।
 तथ्यानाम् एकत्रीकरणाय (Data merging) सम्यग् व्यवस्था गृहीता।
 बहिस्ताद् PDF गृहीत्वा तत्र उपयोक्तुं यथार्हं व्यवस्थापनं कृ तञ्चेति।
कस्यचन आविष्कृ तस्य विषयस्य सार्थक्यं तदैव सम्पद्यते, यदा तस्य उपयोगो यथार्थं भवति। तन्त्रांशं सम्यग् उपयोक्तुं विशेषः पन्था वर्तते, यस्य
अवबोधस्तु व्यवहर्तुः सौविध्यं समुत्पादयति। अधुना तस्य उपयोगस्य विविधा उपाया व्याख्यायन्ते।

कार्यारम्भः (Starting PageMaker)


 आदौ आरम्भककु ड्मस्य (Start Button) नोदनं कर्तव्यम्।
 अनन्तरं Programs इत्येतद् विषयीकर्तव्यम्।
 तत्र उपन्यस्तेषु विषयेषु Adobe इति स्वीकर्तव्यम्।
 तस्यां सूच्यां (Adobe menu) पुनः PageMaker7.0 इत्येतत् स्वीक्रियते चेत् Display मध्ये PageMaker
दृष्टिगोचरताकं प्राप्नोति।

तत्र बह्व्यः सूच्यः (Menu) सन्ति। तत्र तत्र पुनो बहूनि साधनानि अपि सन्ति। अधुनातने PageMaker मध्ये कतिचन सूच्यो वर्तन्ते, यासां
नामान्यधस्तात् क्रियते।
 सञ्चिकासूची (File Menu)
 सम्पादनसूची (Edit Menu)
 विन्याससूची (Layout Menu)
 टङ्कनसूची (Type Menu)
 उपादानसूची (Element Menu)
 उपयोगसूची (Utilities Menu)
 दर्शनसूची (View Menu)
 गवाक्षसूची (Windows Menu) चेति

साधनानि (Tools)
PageMaker इत्यस्य साधनपेटिकायां (Tool Box) चतुर्दश साधारणसाधनानि (General Tools) सन्ति। येषां नामोल्लेखनपुरःसरं
समासेन व्याख्या प्रदीयते अधः।
 सूचकसाधनम् (Pointer Tools) - अस्य उपयोगः चित्राणि स्वीकर्तुं (Pick), रचयितुं (Drag), व्यवहर्तुञ्च क्रियते।
 लेखनसाधनम् (Text Tool) - अस्य प्रयोगः पाठ्यपेटिकां निर्मातुं (Text Box), पाठ्यचयनाय (Selecting Text),
पाठ्यखण्डं (Text Frame) निवेष्टु ञ्च भूयो भवति।
 घूर्णनम् (Rotate Tools) - वर्णानां चित्राणाञ्च घूर्णनाय एतद् व्यवह्रियते।
 वक्ररेखानिर्माणसाधनम् (Oblique Line Tools) - वक्रभावेन रेखां निर्मातुम् अस्य उपयोगः क्रियते।
 सज्जीकरणम् (Crop Tools) - अनेन साधनेन प्रयोजनानुसारं चित्रादीनाम् आकारो नियन्त्र्यते।
 पेटिकाकरणम् (Box Tool) - अनेन साधनेन पेटिका निर्मीयते ।
 चतुष्कोणोपेता पेटिका (Rectangle Box) - अस्य साधनस्य उपयोगः चतुष्कोणोपेतां पेटिकां निर्मातुं भवति यत्र टङ्कनादिकं
विधीयते।
एतद्व्यतिरिच्य अन्यानि साधनानि बहूनि सन्ति । तेषां नाम्ना निर्देशोऽधस्तात् क्रियते । यथा-
 वक्रतासाधकम् (Circle Tool)
 बहुभुजाकृ तिपेटिकानिमार्तृ (Polygon Tools)
 हस्तसाधनम् (Hand Tool)
 सर्पकसाधनम् (Zoom Tool) चेत्यादि।

You might also like