You are on page 1of 1

शोधकार्याय सङ्गणकयन्त्रस्य प्रयोजनानि आलोच्यन्ताम्

इह जगतीतले सङ्गकणयन्त्रस्य आविष्कृ तिरेका महती कीर्तिः प्रायुक्तिकी। प्रत्यहं तस्य यन्त्रस्य महदुपयोगः अस्माकं जीवने
प्रतिभाति। क्रमेण एतत्तनोति प्रभावं सर्वत्र। पाठक्षेत्रेऽपि अस्य प्रभावो वर्धमानो दृश्यते। अधुना नूतनानां ज्ञानानाम् आहरणाय,
प्रचाराय, प्रसाराय च अस्य प्रयोजनं सदैव अनुभूयते। विद्यामूलं हि जीवनम्। उच्यत एवम् -
“कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः।
काणेन चक्षुषा किं वा चक्षुःपीडैव के वलम्”॥ इति।
विद्या सदैव अभ्यसितव्या। अभ्यासस्तु बहुस्तरात्मको भवति। तत्र शोधः अन्यतमताकं भजते। अस्त्येका व्याहृतिरीदृशी-
“यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा स विजानाति विज्ञानञ्चास्य रोचते”॥ इति।
विज्ञानं नाम विशेषज्ञानम्। तत्तु शोधापेक्षं भवति। तथाच - “Research develops and evaluates
concepts, practices and theories.”इति। अधः शोधकार्याय सङ्गणकयन्त्रेण कियन्ति प्रयोजनानि साध्यन्ते
इति निर्दिश्यते ।
 शोधप्रबन्धानां टङ्कणम्।
 शोधसामग्रिणां संकलम्। (Youtube, Facebook, Google Search, Wikipidia,
Websites, E-journals, E-Koshas चेत्यादितः)
 शोधशीर्षकचयने पौरस्त्यानां शोधकार्याणाम् अन्वेषणम्।
 तथ्यानां संरक्षणादिकं कार्यम्। अधुना आन्तजार्लिकी संरक्षणशाला (Cloud Stroages) वर्तते। यया यत्र
कु त्रापि स्थित्वा वयं तथ्यानि व्यवहर्तुं क्षमा भवामः।
 शोधविषयान् प्रचारयितुं PPT इत्यस्य प्रयोगो बहुधा भवति।
 शोधसम्बन्धिनां तथ्यानां सम्यग् विश्लेषणम्।
 सन्दर्भग्रन्थ-सङ्केताक्षर-अनुक्रमणिकादीनां प्रस्तुतिः।
 शोधप्रबन्धस्य मुखपुटनिर्माणम्।
 सामान्यीकरणम्।
 लिप्यन्तरीकरणम्।
 सम्पादितानां शोधविषयकाणाम् अन्वेषणम्।
 दोषाणां सुचारु निवारणम्।
 समयस्य सदुपयोगः।
 तथ्यानां प्रतिलिपिग्रहणम् (Documents Scanning)
Google meet इत्यादिद्वारिकाः बह्व्यः सङ्गोष्ठ्यः अनुष्ठीयन्ते। यत्र विविधानि शास्त्राणि पुरस्कृ त्य आलोचनं भवति।
शोधपण्डिताः तन्निशम्य स्वशास्त्रसम्बन्धि ज्ञानम् आहर्तुं शक्नुवन्ति। अपि च दूरस्थितैः तैः शास्त्रनिष्णातैः साकं सम्पर्कं
स्थापयितुं शक्नुवन्तीति शिवम् ।

You might also like