You are on page 1of 5

पाठः १

न्यायमते पदार्थपरिचयः
अभ्यासः
I. एकवाक्येन उत्तरत ।
१. सप्तपदार्थाः के ?
उ. द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः ।
२. कति द्रव्याणि ?
उ. नव द्रव्याणि । तानि च पृथिवीजलतेजोवायु-आकाशकालदिक्-आत्ममनांसि ।
३. परसामान्यं किम् ?
उ. सत्ताजाति: परं सामान्यम् ।
४. द्रव्यत्वं कीदृशं सामान्यम् ?
उ. द्रव्यत्वं परापरसामान्यम् ।
५. उत्क्षेपणं नाम किम् ?
उ. उत्क्षेपणं नाम ऊर्ध्वसं योगानुकूला क्रिया ।
६. विशेषः अन्त्यः कथम् ?
उ. विशेष: व्यावर्तकानाम्(भेदसाधकानाम्) अन्ते विद्यते । ततः परं व्यावर्तकं
नास्ति । अतः विशेषः अन्त्यः इति उच्यते ।
७. गुणकर्मणोः द्रव्येण कः सम्बन्धः ?
उ. गुणकर्मणोः द्रव्येण समवायः सम्बन्धः ।
८. अभावः कति विधः ?
उ. अभावः द्विविधः ।
९. अन्योन्याभावो नाम किम् ?
उ. अन्योन्याभावो नाम भेदः ।
१०. पृथिव्याः स्पर्शः कीदृशः ?
उ. पृथिव्याः स्पर्शः अनुष्णाशीतः ।
११. कति विधः रसः पृथिव्यां विद्यते ?
उ. मधुरादिषड्विधः रसः पृथिव्यां विद्यते ।
१२. पार्थिवम् इन्द्रियं किम् ?
उ. पार्थिवम् इन्द्रियं गन्धग्राहकं घ्राणेन्द्रियम् ।
१३. अयोनिजं शरीरं कति विधम् ?
अयोनिजं शरीरं स्वेदजम् उद्भिज्जं चेति द्विविधम् ।
१४. जलस्य रसः कः ?
उ. जलस्य रसः मधुरः ।
१५. जलीयम् इन्द्रियं किम् ?
उ. जलीयम् इन्द्रियं रसनेन्द्रियम् ।
१६. तेजसः रूपं किम् ?
उ. तेजसः रूपं भास्वरशुक्लम् ।
१७. सुवर्णे कीदृशं द्रवत्वं विद्यते ?
उ. सुवर्णे नैमित्तिकं द्रवत्वं विद्यते ।
१८. वायुः केन लिङ्गे न अनुमीयते ?
उ. वायुः स्पर्शरूपलिङ्गे न अनुमीयते ।
१९. वायोः इन्द्रिये कः विशेषः ?
उ. वायोः इन्द्रियं सर्वत्र देहे व्याप्तम् इति विशेषः ।
२०. आकाशस्य विशेषगुणः कः ?
उ. आकाशस्य विशेषगुणः शब्दः ।
२१. कालः कथं भिद्यते ?
उ. कालः सूर्यक्रियादि-उपाधिभेदेन भिद्यते ।
२२. कालः केषाम् आधारः ?
उ. कालः सर्वाधारः ।
२३. दिक्कृतं परत्वापरत्वं कीदृशम् ?
उ. दू रस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतम् अपरत्वम् ।
२४. आत्मा कथम् अध्यक्षः ?
उ. आत्मा ज्ञानादिविशेषगुणःै सहैव अध्यक्षः (प्रत्यक्षः ) ।
२५. परदेहे आत्मा केन हेतन
ु ा अनुमीयते ?
उ. परदेहे आत्मा तद्देहगतक्रियया अनुमीयते ।
II. रिक्तस्थानं पूरयत ।
१. गुणः चतुर्विंशति सख्याकः ।
२. जातिव्यक्त्योः समवायः सम्बन्धः ।
३. सत्ता परं सामान्यम् ।
४. भविष्यति इति प्रतीतिविषयः प्रागभावः ।
५. पृथिव्यां सप्त विधरूपं विद्यते ।
६. जलस्यैव विशेषगुणः स्नेहः ।
७. पार्थिवः स्पर्शः पाकजः , वायवीयस्तु अपाकजः ।
८. ज्येष्ठत्वं कालकृतं परत्वम् ।
९. प्राच्यादिव्यवहारः उपाधिनिमित्तः भवति ।
१०. शरीरस्य चैतन्ये मृतशरीरे व्यभिचारः ।
११. मनसः ज्ञानाश्रयत्वे ज्ञानादीनाम् अनुभवः न स्यात् । (प्रत्यक्षं न स्यात्)
१२. आत्मा मन-इन्द्रियेण गृह्यते ।
१३. रथगत्या सारथिः अनुमीयते ।
१४. ज्ञानादीनां अयौगपद्यात् मनः अणु ।
१५. ज्ञानजनने इन्द्रियाणां मनसः सं योगः अपेक्षितः ।
III. प्रमेयदोष परिहरतः ।
१. भ्रमणं रे चनं चेति कर्मणः पृथक् प्रभेदाः ।
भ्रमणं रे चनं चेति गमनस्य पृथक् प्रभेदाः । ( गमने एव अन्तर्भवन्ति ।)
२. सत्ता सर्वेषु पदार्थेषु विद्यते ।
उ. सत्ता त्रिषु पदार्थेषु विद्यते । (द्रव्यगुणकर्मसु ।)
३. पृथक् सिद्धयोः सम्बन्धः समवायः ।
अयुत-सिद्धयोः सम्बन्धः समवायः ।
४. सादिः अनन्तः प्रागभावः ।
उ. सादिः अनन्तः प्रध्वं साभावः । अनादिः सान्त: प्रागभावः ।
५. पृथिव्यां सांसिद्धिकं द्रवत्वम् अस्ति ।
उ. जले सांसिद्धिकं द्रवत्वम् अस्ति ।
६. पाकजानुष्णाशीतस्पर्शः पृथिव्यां वायौ च अस्ति ।
उ. पाकजानुष्णाशीतस्पर्शः पृथिव्याम् एव अस्ति ।
७. मृगाणां शरीरम् अण्डजम् ।
मृगाणां शरीरम् जरायुजम् ।
८. स्नेहः मनुष्यगतः विशेषगुणः ।
उ. स्नेहः जलगतः विशेषगुणः ।
९. सुवर्णं पार्थिवः विषयः ।
उ. सुवर्णं तेजोविषयः ।
१०. कालः क्षणलवादिभेदेन अनेकविधः ।
उ. कालः क्षणादिभेदवानपि अखण्डः । (एक: )
११. कनिष्ठत्वं दिकृतं परत्वम् ।
उ. कनिष्ठत्वं कालकृतम् अपरत्वम् ।
१२. आत्मा अहमित्येव गृह्यते ।
उ. आत्मा अहमित्येव न गृह्यते । ‘अहं जानामि’ इत्येवं ज्ञानादिसहिततया गृह्यते ।
१३. आत्मा साक्षिणा ग्राह्यः ।
उ. आत्मा मनसा ग्राह्य: ।
१४. परदेहे आत्मा चक्षष
ु ा गृह्यते ।
उ. परदेहे आत्मा तद्देहगतक्रियया गृह्यते ।
१५. मनः युगपत् सर्वैः इन्द्रियैः सम्बध्यते ।
उ. मनः एकदा एकेन इन्द्रियेण सह सम्बध्यते ।

इति शम्

You might also like