You are on page 1of 32

अव्ययीभावसमासः+उपसर्गः+

व्याकरणविशेषः
समासप्रकरणम्
समस्तपदं यत्र भवति तत्र समासः अस्ति इति वक्तुं शक्यते। अस्य समस्तस्य पदस्य अर्थज्ञानार्थम्
पदस्य विभागः करणीयः। विभागस्य अपरं नाम वर्तते विग्रहः इति। तर्हि विग्रहः क्रियते चेत्
समस्तस्य (समासस्य) पदस्य अर्थः अवगन्तुं शक्यते। अतः अस्मिन् प्रकरणे समस्तं पदं विभक्तं
पदं=समासः एवं विग्रहः इति अंशद्वयं प्रमुखां भवति। अतः कोऽयं समासः? विग्रहः नाम कः?
इत्येतत् इदानीं पश्यामः।
१.१. समासः
समसनं समासः- अनेकस्य पदस्य एकपदी भवनं समासः इत्यर्थः।
यथा- सीतायाः पतिः= सीतापतिः
२. समासः सुबन्तानां(नामपदानाम्) भवति, न तु तिङन्तानाम्(क्रियापदानाम्)। समासः युगपत्
द्वयोः द्वयोः सुबन्तयोः भवति। द्वन्द्वसमासे तु युगपत् बहूनामपि समासः भवति।
यथा- १. राजपुरुषस्य आगमनम्- अत्र एवं विग्रहः भवति। राज्ञः पुरुषः= राजपुरुषः, राजपुरुषस्य
आगमनम् राजपुरुषागमनम् इति। अत्र राजपदम् एवं पुरुषपदम् उभयमपि सुबन्तं पदम्। अतः अत्र
समासः जातः
२. हरिहरगुरवः- हरिश्च हरश्च गुरुश्च= हरिहरगुरवः। राजपुरुषः इत्यस्मिन् उदाहरणे राजपदम् एवं
पुरुषपदम् उभयमपि सुबन्तमेव अस्ति। अत्र उदाहरणे हरि+हरः+गुरुः इति त्रीणी पदानि सन्ति।
इमानि त्रीणि अपि पदानि सुबन्तान्येव। अतः अत्र समासः भवति।
३. परस्परान्वितयोः सुबन्तयोः समासः भवति्।
परस्परं सुबन्तं यत्र अन्वितं भवति तत्र एव समासः भवति।
यथा- राज्ञः पुत्रः= राजपुत्रः । अत्र राजपुत्रः इति पदद्वयमपि सुबन्तं पदं वर्तते। अत्र द्वयोः
परस्परान्वयः अस्ति । यत्र परस्परान्वयो नास्ति तत्र न समासः । यथा- भवति दर्शनं राज्ञः पुत्रः
चोरस्य धावति । अत्र राज्ञः दर्शने अन्वयः । पुत्रस्य चोरे अन्वयः । अतः अत्र राजशब्दस्य
पुत्रशब्दस्य च परस्परान्वयः नास्ति इत्यतः अत्र समासः न भवति।
४. समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदम्, उत्तरत्र श्रूयमाणं पदम् उत्तरपदम् इति च व्यवह्रियते।
यथा- चोरात् भयम्= चोरभयम्। अत्र चोरात् इति पूर्वपदं, भयम् इति उत्तरपदम्। समसानन्तरं
पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण एव स्थितं भवति। ततः समस्तात् पदात् विभक्तिः योजनीयः।
विग्रहः- वृत्यर्थावबोधकं वाक्यं विग्रहः। वृत्तिः समासादिः। एवं च सामासस्य अर्थबोधकं यत् वाक्यं
भवति तत् विग्रहवाक्यम् इति कथ्यते।
यथा- वृक्षमूकम् इति समस्तं पदम्। वृक्षस्य मूलम् इति विग्रहः। अत्र वृक्षस्य मूलम् इति विग्रहवाक्यं
वृक्षमूलम् इति समासस्य अर्थं बोधयति। अतः वृक्षस्य मूलम् इति विग्रह वाक्यं भवति।
विग्रहः द्विधा-
स्वपदविग्रहः
अस्वपदविग्रहः
स्वपदविग्रहः- समासस्य अर्थः समासघटकैः पदैः यदि वर्ण्यते तर्हि स्वपदविग्रहः भवति।
यथा- ग्रामगतः इति समासपदम्। अत्र ग्रामं गतः इति स्वपदविग्रहः भवति। कथमिति चेत्, अत्र
विग्रहवाक्यस्य अर्थस्य निरूपणार्थं समासे विद्यमानं पदमेव उपयुक्तम्। अतः अयं
स्वपदविग्रहः इति कथ्यते।
अस्वपदविग्रहः- समासस्य अर्थः यदि समासघटकपदानि विहाय पदान्तरैः वर्ण्यते तर्हि तत्र
अस्वपदविग्रहः भवति। तथा च समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः इति कथ्यते।(अत्र एकं
पदं समासघटकमेव प्रायो भवति।) अस्वपदविग्रहः नित्यसमासे क्रियते।
१.३ समासभेदाः
समासः द्विधा-
१. के वलसमासः।
२. विशेषसमासः इति।
के वलसमासः-
तत्पुरुषादिसंज्ञाविनिर्मुक्तः समाससंज्ञामात्रयुक्तः के वलसमासः।
यथा- पूर्वं भूतः= भूतपूर्वः
वाक्ये अनेकानि पदानि भवन्ति। तेषां पदानां संक्षेपकरणम् समासः इत्यर्थः। कु त्रचित् समासे पदद्वयं
संयुक्तं भवति। कु त्रचित् अनेकानि पदानि भवन्ति। एतादृशस्थले अर्थावगमनार्थं विग्रहः
करणीयः। पूर्वत्र विद्यमानं पदं पूर्वपम् एवम् उत्तरत्र विद्यमानं पदम् उत्तरपदमिति च उच्यते।
विशेषसमासः चतुर्धा-
१. अव्ययीभावः- पूर्वपदप्रधानः अव्ययीभावः। यत्र समस्तपदेन पूर्वपदस्य अर्थः विशेषेण उच्यते तत्र
अव्ययीभावसमासः इत्यर्थः
२. तत्पुरुषः- उत्तरपदप्रधानः तत्पुरुषः।
३. द्वन्द्वः- उभयपदप्रधानः द्वन्द्वः।
४. बहुव्रीहिः- अन्यपदप्रधानः बहुव्रीहिः।
 अव्ययीभावः- अयं समासः प्रायः त्रयस्त्रिंशद्धा प्रसिद्धाः।
 तत्पुरुषः चतुर्धा-
 सामान्यः (सप्तधा)
 कर्मधारयः (नवधा)
 द्विगुः (त्रिधा)
 नञ्प्रभृतयः (५)
 द्वन्द्वः द्विधा-
 इतरेतरः
 समाहारः
 बहुव्रीहिः द्विधा-
 सामान्यः (६)
 विशेषः (९)
अव्ययीभावसमासप्रकरणम्
अव्ययीभावः- पूर्वपदप्रधानः अव्ययीभावः। यत्र समस्तपदेन पूर्वपदस्य अर्थः विशेषेण उच्यते तत्र
अव्ययीभावसमासः इत्यर्थः
1. सूत्रम्- अव्ययंविभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भाव-
पश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु
वृत्तिः- विभक्त्यादिषु वर्तमानम् अव्ययम् सुबन्तेन सह नित्यं समस्यते सः अव्ययीभावः।
अर्थः- विभक्त्यादिषु= विभक्तिः, समीपम्, समृद्धिः, व्यृद्धिः, अर्थाभावः, अत्ययः, असम्प्रति,
शब्दप्रादुर्भावः, पश्चात्, यथा,आनुपूर्व्यम्, यौगपद्यम्, सादृश्यम्, सम्पत्तिः, साकल्यम्, अन्तवचनम्
इत्यर्थः। एवं च एतेषु अर्थेषु विद्यमानम् अव्ययम् सुबन्तेन (नामपदेन) सह नित्यं यत्र
समस्यते=समासं प्राप्नोति, तत्र अव्ययीभावसमासः भवति इत्यर्थः।
नाम विग्रहः समासः
१. विभक्त्यर्थकः गृहे इति अधिगृहम् 7 Vibhaktis are there in
Samskrutam.
२. समीपार्थकः कु म्भस्य समीपम् उपकु म्भम् Near
३. समृध्यर्थकः मद्राणां समृद्धिः सुमद्रम् Prosperity
४. व्यृध्यर्थकः यवनानां व्यृद्धिः दुर्यवनम् Distruction
५. अभावार्थकः मक्षिकाणाम् अभावः निर्मक्षिकम् Absence.
६. अत्ययार्थकः हिमस्य अत्ययः अतिहिमम् Ruin
७. असम्प्रत्यर्थकः नायम् अस्य कम्बलस्य भोगकालः इति अतिकम्बलम् Not now
८. शब्दप्रादुर्भावार्थकः हरिशब्दस्य प्रकाशः इति इतिहति Appearance of word
९. पश्चादर्थकः रथस्य पश्चात् इति अनुरथम् After words
१०. यथाऽर्थकः रूपस्य योग्यम् वीप्सायाम्। अर्थम् अर्थं प्रति अनुरूपम् Serialy
पदार्थानतिवृत्तौ- शक्तिमनतिक्रम्य यथाशक्ति। प्रत्यर्थम्
११. आनुपूर्व्यर्थकः ज्येष्ठस्य आनुपूर्व्यॆण इति अनुज्येष्ठम् Serialy
१२. यौगपद्यार्थकः चक्रे ण युगपदिति सचक्रम् Simultaneously
१३. सादृश्यार्थकः सदृशः सख्या ससखि Similar
१४. सम्पदर्थकः क्षत्राणां सम्पत्तिः सक्षत्रम् Wealth
१५. साकल्यार्थकः तृणमप्यपरित्यज्य अत्ति इति सतृणमत्ति Entirety
१६. अन्तवचनार्थकः अग्निपर्यन्तमधीते इति साग्नि अधीते Upto
२. सूत्रम्- प्रथमानिर्दिष्टं समास उपसर्जनम्।
सूत्रस्य पदविभागः- प्रथमा निर्दिष्टं समासः उपसर्जनम्
वृत्तिः- समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात्।
उदाहरणम्- अधि हरि, अधिशिवः
३. सूत्रम्- उपसर्जनं पूर्वम्
सूत्रस्य पदविभागः- उपसर्जनं पूर्वम्
वृत्तिः- समासे उपसर्जनं प्राक् प्रयोज्यम्
उदाहरणम्- अधि हरि, अधिशीवः
४. सूत्रम्- नाव्ययीभावादतोंत्वपञ्चम्याः
सूत्रस्य पदविभागः- न अव्ययीभावात् अतोन्त्वपञ्चम्याः
वृत्तिः- अदन्तात् अव्ययीभावात् सुपः न लुक् । तस्य पञ्चमीं विना अमादेशश्च स्यात्।
उदाहरणम्- गाः पाति इति गोपाः, तस्मिन् इत्यधिगोपम्।
५. सूत्रम्- तृतीया सप्तम्योर्बहुलम्
सूत्रस्य पदविभागः- तृतीया सप्तम्योः बहुलम्
वृत्तिः- अदन्तात् अव्ययीभावात्तृतीयासप्तम्योः बहुलं भावः स्यात्।
उदाहरणम्- अपदिशम्, सुमद्रम्, दुर्यवनम्, निर्मक्षम्, अतिहिमम्, अतिनिद्रम्, इतिहरि, अनुविष्णुः।
६. सूत्रम्- अव्ययीभावे चाकाले
सूत्रस्य पदविभागः- अव्ययीभावे च अकाले
वृत्तिः- सहस्य सः स्यादव्ययीभावः न तु काले।
उदाहरणम्- सहरिः, सचक्रम्, अनुज्यॆष्ठम्, ससखि, सक्षत्रम्,
उपसर्गः
उपसर्गः नाम कः?
श्लोकः-
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
प्रहाराहारसंहारविहारपरिहारवत्॥
अर्थः- उपसर्गस्य कोऽपि अर्थः नास्ति। किन्तु अयं यदा धातुना अथवा पदेन सह सम्बन्धं प्राप्नोति,
तदा धातोः अथवा पदस्य अर्थः अन्यः एव भवति। आहत्य व्याकरणशास्त्रे 22 उपसर्गाः सन्ति।
उदाहरणम्- प्रहारः, आहारः, संहारः, विहारः, परिहारः। अत्र उदाहरणेषु सर्वत्राऽपि उपसर्गः
परिवर्तितः अस्ति। किन्तु हर इति सर्वत्र एकः एव धातुः अस्ति। अतः उपसर्गपरिवर्तनात् एकस्यैव
धातोः अर्थपरिवर्तनम् भवति।
English Meaning- There is no meaning for उपसर्गः. But when it
gets relation with some धातु or पद then धातुः or पदम् get changes in
the meaning and it gives colourful meaning. Which is related
with some activity They are called as उपसर्गः. 22 Upasargaas are
there. प्रहारः, आहारः, संहारः, विहारः, परिहारः are the examples, which has
given in Sloka. In all words धातुः is the same. But change of
meaning by change of उपसर्गः.
उपसर्गाः-
प्र, परा, अप, सम्, अव, नि, नि, दुस्, दुर्, वि, आङ् , नि, अपि, अधि, अति, सु, उत्, अधि,
प्रति, परि, उप एते प्रादयः।
उपसर्गः धातुः धातोरर्थः+ उपसर्ग+धातुरू English
पम् Meaning
English Meaning
1. प्र हृञ् हरणे अन्यस्मात् स्वीकरणम् Snatch प्रहारः Beat
2. आङ् हृञ् हरणे अन्यस्मात् स्वीकरणम् आहारः Food
Snatch
3. सम् हृञ् हरणे अन्यस्मात् स्वीकरणम् संहारः Kill
Snatch
4. वि हृञ् हरणे अन्यस्मात् स्वीकरणम् विहारः Monastery
Snatch
5. परि हृञ् हरणे अन्यस्मात् स्वीकरणम् परिहारः Solution
Snatch
उपसर्गः धातुः English meaning Verb उपसर्ग+धातुरूपम्/ Changed वाक्ये समन्य्वयः
meaning
पदरूपम्
1. प्र वदव्यक्तायां To talk/ To speak प्रवचनम Discource अहं प्रवचनम्
वाचि करोमि।

2. परा जिजये Win पराजयः Defeat रामेण रावणः


पराजितः।

3. अप सृगतौ To move अपसरणम् Descend अहं अपसरामि।


4. सम् डु क्रिं ङ्करणे To do, To act, To make संस्कृ तम् Sanskrit संस्कृ तं सम्यगस्ति।

5. अनु डु क्रिं ङ्करणे To do, To act, To make अनुकरोतु Follow भवान् मां अनुकरोतु।
6. अव गमलृगतौ To Go अवगमनम् Understand अहं पाठं
अवगच्छामि
7. निस् स्पृह To desire निस्पृहः Without any कृ ष्णः निस्पृहः
ईप्सायाम् expectation अस्ति।
8. निर् गमल् गतौ To Go निर्गमनम् With out भवने निर्मक्षिकाः
housefly सन्ति।

9. दुस् चिकित्सा Curable दुष्चिकित्स्यम् Difficult to सः रोगः


cure दुष्चिकित्स्यः
अस्ति।
1 दुर् बलः Strength दुर्बलः Scanty/Weak सः मनसा दुर्बलः
0. अस्ति।
11 वि ज्ञा Knowledge विज्ञानम् Science मया विज्ञानं न
. ज्ञायते।

1 आङ् गमल् गतौ To go आगच्छतु Come अत्र आगच्छतु।


2.
1 नि जलम् Water निर्जलः Without कू पः निर्जलः अस्ति।
3. water
1 अपि हितम् Good अपिहितः Covered सः कू पः जलेन
4. अपिहितः।
1 अधि ष्टागतिनिवृ To stay, To stand अधिष्ठानम् Base अध्ययनस्य
5. त्तौ अधिष्ठानं गुरुकु लम्।
1 अति
6.
1 सु बुध् To Know, To understand सुबोधः Understood विषयः सुबोधः
7. well जातः।
1 उत् ष्टागतिनिवृ To stay, To stand उत्तिष्ठ Getup उत्तिष्ठत जाग्रत।
8 त्तौ
1 अभि वृद्ध् Increases अभिवर्धनम् Prospers वर्धताम् अभिवर्धताम्
9.
2 प्रति पूरणम् Fills प्रतिपूरयति Compensates सः घटं प्रति जलं
0. पूरयति।
2 परि त्यज To abandon, To leave, To परित्यज Leave चिन्तां परित्यज।
1. renounce
2 उप गमल् गतौ To go उपगच्छति Goes to near रामः उपनगरं
2. गच्छति।
श्लोकस्य विवरणम्
चण्डं शोकातुरं भीरुं कृ तघ्नं वैद्यमानिनम्।
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसंग्रहः॥
पदविभागः- चण्डम्, शोकातुरम्, भीरुम्, कृ तघ्नम्, वैद्यमानिनम्, तन्त्रस्य, अस्य, परम्, च अतः
वक्ष्यते, अध्यायसंग्रहः।
अन्वयस्य लक्षणम्-
विशेषणं प्रस्कृ त्य विशेष्यं तदनन्तरम्।
कर्तृकर्मक्रियायुक्तम् एतदन्वयलक्षणम्॥
अन्वयः- चण्डम्, शोकातुरम्, भीरुम्, कृ तघ्नम्, वैद्यमानिनम्, त्यजेत्। अतः, परं, च, अस्य,
तन्त्रस्य, अध्यायसंग्रहः, वक्ष्यते।
व्याकरणविशेषः-
समासः-
शोके न आतुरः= शोकातुरः। तृतीयातत्पुरुषः।
वैद्यमानि- वैद्यं मन्यते इति वैद्यमानि तम् वैद्यमानिनम्।
अध्यायसंग्रहः- अध्यायानां संग्रहः
धातुरूपम्= वक्ष्यते= ब्रूव्यक्तायां वाचि इति धातोः लृट् लकारे प्रथमापुरुषस्य एकवचनं रूपम्।
त्यजेत्= त्यज् हानौ धातोः विधिलिङ् लकारे प्रथमापुरुषस्य एकवचनं रूपम्।
अव्ययपदम्- अतः, च।

You might also like