You are on page 1of 7

अव्ययीभावसमासः

अव्ययीभावसमासप्रकरणम्
अव्ययीभावः- पूर्वपदप्रधानः अव्ययीभावः। यत्र समस्तपदेन पूर्वपदस्य अर्थः विशेषेण उच्यते तत्र
अव्ययीभावसमासः इत्यर्थः
1. सूत्रम्- अव्ययंविभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भाव-
पश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु
वृत्तिः- विभक्त्यादिषु वर्तमानम् अव्ययम् सुबन्तेन सह नित्यं समस्यते सः अव्ययीभावः।
अर्थः- विभक्त्यादिषु= विभक्तिः, समीपम्, समृद्धिः, व्यृद्धिः, अर्थाभावः, अत्ययः, असम्प्रति,
शब्दप्रादुर्भावः, पश्चात्, यथा,आनुपूर्व्यम्, यौगपद्यम्, सादृश्यम्, सम्पत्तिः, साकल्यम्, अन्तवचनम्
इत्यर्थः। एवं च एतेषु अर्थेषु विद्यमानम् अव्ययम् सुबन्तेन (नामपदेन) सह नित्यं यत्र
समस्यते=समासं प्राप्नोति, तत्र अव्ययीभावसमासः भवति इत्यर्थः।
नाम विग्रहः समासः
१. विभक्त्यर्थकः गृहे इति अधिगृहम् 7 Vibhaktis are there in
Samskrutam.
२. समीपार्थकः कु म्भस्य समीपम् उपकु म्भम् Near
३. समृध्यर्थकः मद्राणां समृद्धिः सुमद्रम् Prosperity
४. व्यृध्यर्थकः यवनानां व्यृद्धिः दुर्यवनम् Distruction
५. अभावार्थकः मक्षिकाणाम् अभावः निर्मक्षिकम् Absence.
६. अत्ययार्थकः हिमस्य अत्ययः अतिहिमम् Ruin
७. असम्प्रत्यर्थकः नायम् अस्य कम्बलस्य भोगकालः इति अतिकम्बलम् Not now
८. शब्दप्रादुर्भावार्थकः हरिशब्दस्य प्रकाशः इति इतिहति Appearance of word
९. पश्चादर्थकः रथस्य पश्चात् इति अनुरथम् After words
१०. यथाऽर्थकः रूपस्य योग्यम् वीप्सायाम्। अर्थम् अर्थं प्रति अनुरूपम् Serialy
पदार्थानतिवृत्तौ- शक्तिमनतिक्रम्य यथाशक्ति। प्रत्यर्थम्
११. आनुपूर्व्यर्थकः ज्येष्ठस्य आनुपूर्व्यॆण इति अनुज्येष्ठम् Serialy
१२. यौगपद्यार्थकः चक्रे ण युगपदिति सचक्रम् Simultaneously
१३. सादृश्यार्थकः सदृशः सख्या ससखि Similar
१४. सम्पदर्थकः क्षत्राणां सम्पत्तिः सक्षत्रम् Wealth
१५. साकल्यार्थकः तृणमप्यपरित्यज्य अत्ति इति सतृणमत्ति Entirety
१६. अन्तवचनार्थकः अग्निपर्यन्तमधीते इति साग्नि अधीते Upto
२. सूत्रम्- प्रथमानिर्दिष्टं समास उपसर्जनम्।
सूत्रस्य पदविभागः- प्रथमा निर्दिष्टं समासः उपसर्जनम्
वृत्तिः- समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात्।
उदाहरणम्- अधि हरि, अधिशिवः
३. सूत्रम्- उपसर्जनं पूर्वम्
सूत्रस्य पदविभागः- उपसर्जनं पूर्वम्
वृत्तिः- समासे उपसर्जनं प्राक् प्रयोज्यम्
उदाहरणम्- अधि हरि, अधिशीवः
४. सूत्रम्- नाव्ययीभावादतोंत्वपञ्चम्याः
सूत्रस्य पदविभागः- न अव्ययीभावात् अतोन्त्वपञ्चम्याः
वृत्तिः- अदन्तात् अव्ययीभावात् सुपः न लुक् । तस्य पञ्चमीं विना अमादेशश्च स्यात्।
उदाहरणम्- गाः पाति इति गोपाः, तस्मिन् इत्यधिगोपम्।
५. सूत्रम्- तृतीया सप्तम्योर्बहुलम्
सूत्रस्य पदविभागः- तृतीया सप्तम्योः बहुलम्
वृत्तिः- अदन्तात् अव्ययीभावात्तृतीयासप्तम्योः बहुलं भावः स्यात्।
उदाहरणम्- अपदिशम्, सुमद्रम्, दुर्यवनम्, निर्मक्षम्, अतिहिमम्, अतिनिद्रम्, इतिहरि, अनुविष्णुः।
६. सूत्रम्- अव्ययीभावे चाकाले
सूत्रस्य पदविभागः- अव्ययीभावे च अकाले
वृत्तिः- सहस्य सः स्यादव्ययीभावः न तु काले।
उदाहरणम्- सहरिः, सचक्रम्, अनुज्यॆष्ठम्, ससखि, सक्षत्रम्,

You might also like