You are on page 1of 2

पारिभाषिकपदानि कक्ष्या - ५

घटत्वावच्छिन्नः - घटत्वविशिष्टः।
घटरहितम्- घटशून्यम्।
शाब्दबोधे भासते चेत्स्ः- शाब्दबोधे विषयः भवति।
मृन्मयः - मृन्निर्मितः।
अनुपपत्या प्राप्तः अर्थः - यद्विना यदनुपपन्नं तत्तेनाक्षिप्यते इति न्यायेन भासमानः अर्थः ।
अग्निहोत्रं जुहुयात्स्वर्गकामः - सर्वेपिहोमाः विधातुं नैव शक्यते इति होमविशेषः अनुपपत्या
गृह्यते।
पदार्थः - पदात्ज्ञायमानः अर्थः।
पदैकवाक्यता - पदानां एकार्थबोधकत्वम्।(शाब्दबोधात्पूर्वम्)
वाक्यैकवाक्यता - एके न वाक्येन अवगतस्य अन्येन वाक्येन अवगतस्य अर्थस्य यत्र अन्वयः तत्र
।(शाब्दबोधानन्तरम्)
प्रतीतिः - ज्ञानम्(प्रतीत्यनुरोधेनैव )
पौर्णमासी - पूर्णिमा
आग्नेययागः - अग्निदेवताकः यागः
अष्टाकपालः - अष्टसु कपालेषु संस्कृ तः पुरोडाषः।
पुरोडाषः - होद्रव्यविशेषः (उप्मावत्भवति) ।
साध्यम्- हेतुना उपस्थाप्यमानः अर्थः।
हेतुः - साध्यस्य उपस्थापकः।
प्राप्तः -ज्ञातः।
अयम्- पुरोवर्तिपुरुषः।
जुहुयात्- होमं कु र्यात्।

You might also like