You are on page 1of 4

१.४.

५९ उपसर्गाः क्रियायोगे
पदच्छेदः
उपसर्गाः ( प्रथमा-बहुवचनम् ) , क्रियायोगे ( सप्तमी-एकवचनम् )
अनुवृत्तिः
प्रादयः १.४.५८
अधिकारः
आकडारात् एका संज्ञा १.४.१ , प्राग्रीवरान्निपाताः
रा
न्नि पाताः
श्व१.४.५६
अनुवृत्तिसहितं सूत्रम् निपाताः प्रादयः क्रियायाेगे उपसर्गाः
सूत्रप्रकारः
संज्ञासूत्रम् ( निपातसंज्ञा ) , संज्ञासूत्रम् ( उपसर्गसंज्ञा )
प्रादिगणे निर्दिष्टाः शब्दाः क्रियायाः योगे उपसर्गसंज्ञकाः अपि भवन्ति ।
प्रादयः १.४.५८ इति सूत्रे निर्दिष्टे प्रादिगणे विद्यमानाः (निपातसंज्ञकाः) शब्दाः यदा
धातोः योगे प्रयुज्यन्ते, तदा तेषाम् उपसर्गः इति अपि संज्ञा भवति । ते प्राग्धातोः
१.४.८० इति सूत्रेण एते सर्वेऽपि उपसर्गाः धातोः पूर्वम् एव उपयुज्यन्ते । सर्वेषाम्
उपसर्गाणाम् एकैकेन उदाहरणेन सह आवली एतादृ श—

प्र (प्रणमति), परा (पराजयते), अप (अपकृत्य), सम् (संयोगः), अनु (अनुवादः), अव


(अवगम्य), निस् (निस्सरति), निर् (निर्गच्छति) दुस् (दुस्सहते), दुर् (दुर्गः) वि (विजयः), आङ्
(आगच्छति), नि (नियमः), अधि (अधिकारः), अपि (अप्यूहति) अति (अतिचरति) सु (सुभाषते)
उत् (उत्पतति) अभि (अभिनन्दति) प्रति (प्रतिवदति) परि (परिहरति) उप (उपसरति)

सूचना - उपसर्गार्थचन्द्रिका इत्याख्ये ग्रन्थे सर्वेषाम् अपि धातूनाम् योगे प्रयोगे


दृश्यमानाः सर्वे उपसर्गाः सोदाहरणम् सङ्कलिताः सन्ति । जिज्ञासुभिः सः ग्रन्थः अवयंश्यं
द्रष्टव्यः ।

उपसर्गसम्बन्धिनः ज्ञातव्याः अं श

उपसर्गाणां सम्बन्धिनः केचन वि ष्टाः ष्टाःअं शअधः सङ्कलिताः सन्ति —


शि
१. कुत्रचित् द्वौ अथवा त्रयः अपि उपसर्गाः धातुभ्यः प्रयुक्ताः दृश्यन्ते ।
यथा, वि + आ + करोति → व्याकरोति, सम् + उद् + आ + हरति → समुदाहरति ।
२. उपसर्गस्य योजनेन धातोः पदे परिवर्तनम् सम्भवति ।‌
यथा, जि (अभिभवे, भ्वादिः, १.१०९६) इति धातुः परस्मैपदस्य प्रत्ययान् स्वीकरोति । परन्तु
वि-उपसर्गस्य उपस्थितौ, परा-उपसर्गस्य उपस्थितौ च विपराभ्यां जेः १.३.१९ इत्यनेन
अस्मात् केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते । एवमेव, रमुँ (क्रीडायाम्,
भ्वादिः, १.९८९) अयं धातुः मूलरूपेण आत्मनेपदी स्वीक्रियते, परन्तु व्याङ्परिभ्यो रमः
१.३.८३ इति सूत्रेण वि + रम्, आ + रम्, परि + रम्, एतेभ्यः केवलम् परस्मैपदस्यैव
प्रत्ययाः विधीयन्ते ।
३. उपसर्गस्य योजनेन अकर्मकः धातुः कुत्रचित् सकर्मकः भवति ।‌
यथा, स्था (गतिनिवृत्तौ, भ्वादिः, १.१०७७) इति धातुः मूलरूपेण अकर्मकः अस्ति । परन्तु उप-
उपसर्गस्य उपस्थितौ अयं धातुः सकर्मकत्वं प्राप्नोति, अतएव च विष्णुः वैकुण्ठम्
अधितिष्ठति इति प्रयोगः सङ्गच्छते ।
४. उपसर्गस्य योजनेन सकर्मकः धातुः कुत्रचित् अकर्मकः भवति ।‌
यथा, गमॢँ (गतौ, भ्वादिः, १.१०३७) इति धातुः मूलरूपेण सकर्मकः अस्ति, अतएव रामः वनं
गच्छति एतादृ शप्रयोगाः साधुत्वं प्राप्नुवन्ति । परन्तु सम्-उपसर्गस्य उपस्थितौ अयं
धातुः अकर्मकत्वं प्राप्नोति । यथा - नद्यः सङ्गच्छन्ते (एकत्र मिलन्ति) इति
अकर्मकप्रयोगः सिद्ध्यति ।
५. उपसर्गाः गतिसंज्ञकाः, निपातसंज्ञकाः, अव्ययसंज्ञकाः, प्रातिपदिकसंज्ञकाः,
पदसंज्ञकाः च सन्ति ।
सर्वेषाम् उपसर्गाणाम् गतिच श्च१.४.६० इति सूत्रेण गतिसंज्ञा भवति । एवमेव, सर्वे
रान्नि
उपसर्गाः प्राग्रीवरान्निपाताःपा
ताःश्व१.४.५६ अस्मिन् अधिकारे पाठिताः सन्ति अतः
निपातसंज्ञकाः सन्ति, अतच श्चस्वरादिनिपातमव्ययम् १.१.३७ इत्यनेन अव्ययसंज्ञकानि
अपि सन्ति । अपि च, उपसर्गाणाम् वि ष्टाः ष्
टाःशि
अर्थाः विद्यन्ते, अतःअर्थवदधातुरप्रत्ययः
प्रातिपदिकम् १.२.४५ इत्यनेन एतेषाम् प्रातिपदिकसंज्ञा अपि विधीयते ।
प्रातिपदिकसंज्ञायाम् सिद्धायाम्, वाक्ये प्रयोगात् पूर्वम् एतेभ्यः स्वादिप्रत्ययाः
विधीयन्ते, तेषाम् च अव्ययादाप्सुपः २.४.८२ इत्यनेन लोपः अपि भवति । लोपे कृते
अपि प्रत्ययलोपे प्रत्ययलक्षणम् १.१.६२ इत्यनेन एतेषाम् पदसंज्ञा सिद्ध्यति ।
इत्युक्ते, प्रणमति, पराजयते इत्यादिषु शब्देषु विद्यमानः उपसर्गः भिन्नम् पदम् अस्ति,
तत्र विद्यमानः तिङन्तशब्दः च अपरं पदम् अस्ति ।
६. उपसर्ग-तिङन्तयोमर्ध्ये समासः न विद्यते, परन्तु सन्धिः अवयंश्यं भवति ।
प्रणमति, पराजयते इत्यादिषु शब्देषु उपसर्गः इति भिन्नम् पदम् अस्ति, तिङन्तशब्दः च
अपरं भिन्नम् पदम् अस्ति । एते द्वे पदे केवलम् युगपत् स्थापिते स्तः । एतयोर्मध्ये
कोऽपि समासः न विद्यते । परन्तु उपसर्ग-धात्वोः मध्ये संहिता अवयं यं यं विद्यते अतः
एतयोमर्ध्ये सन्धिः अपि नित्यः एव अस्ति । अतएव परि + ईक्षते इत्यत्र सवर्णदीर्घं
कृत्वा परीक्षते इत्येव प्रयोगः करणीयः । एवमेव, द्वयोः उपसर्गयोः मध्ये अपि सन्धिः
नित्यं भवति, अतः प्रति + आ + गच्छति इत्यत्र यणादे% शकृत्वा प्रत्यागच्छति इत्येव
प्रयोगः करणीयः ।
७. उपसर्ग-कृदन्तयोमर्ध्ये उपपदसमासः गतिसमासः वा विद्यते, अतच श्चसन्धिः अपि
अवयंश्यं भवति ।
यदि कृदन्तरूपेण सह उपसर्गस्य प्रयोगः क्रियते, तर्हि उपसर्ग-कृदन्तयोर्मध्ये कचन नश्च
समासः अवयंश्यं भवति । तत्र, उपसर्गस्य उपस्थितौ एव कृत्प्रत्ययस्य विधानम् कृतं अस्ति
चेत् उपपदसमासः अस्ति इति उच्यते; अन्यासु अवस्थासु गतिसमासः अस्ति इति उच्यते ।
यथा, प्रे दाज्ञः ३.२.६ इति सूत्रेण प्र-उपसर्गस्य उपस्थितौ दा-धातोः क-प्रत्ययः विधीयते,
अतः अनेन सूत्रेण सिद्धे सर्वप्रदः इति शब्दे प्र-उपसर्गस्य दः-इत्यनेन सह
उपपदसमासः भवति । परन्तु आगतः-इत्यत्र क्त-प्रत्ययविधानम् आ-उपसर्गं विना अपि
सम्भवति, अतः अत्र आ-उपसर्गेण सह गत-इति कृदन्तस्य गतिसमासः अस्ति इति उच्यते
। एतयोः द्वयोः अपि समासयोः सन्धिः अवयंश्यं भवति । यथा — प्र + ईक्षणीय‌→ प्रेक्षणीय,
नि + अद् + ण → न्याद ।
८. उपसर्गस्य उपस्थितौ क्त्वा-प्रत्ययस्य नित्यम् ल्यप्-आदे शभवति ।
समस्तपदस्य उत्तरपदरूपेण यत्र क्त्वा-प्रत्ययः विधीयते, तत्र समासेऽनञ्पूर्वे क्त्वो
ल्यप् ७.१.३७ इत्यनेन तस्य ल्यबादे शभवति । उपसर्गाणां कृदन्तैः सह नित्यम्
उपपदसमासः गतिसमासः वा जायते, अतः तेषाम् उपस्थितौ क्त्वा-प्रत्ययस्य अपि ल्यप्-
आदे शभवति । यथा - आ + गम् + क्त्वा → आ + गम् + ल्यप् → आगत्य ।
९. अडागमः / आडागमः उपसर्ग-धात्वोः मध्ये विधीयते ।
लुङ्लङ्लृङ्क्ष्वडुदात्तः ६.४.७१ इत्यनेन विहितस्य अडागमस्य, तथा च आडजादीनाम्
६.४.७२ इत्यनेन विहितस्य आडागमस्य अङ्गम् केवलम् धातुः अस्ति, न हि उपसर्गः ।
अतःआद्यन्तौ टकितौ १.१.४६ इत्यनेन एतौ आगमौ धातोः प्रारम्भे विधीयन्ते, न हि
उपसर्गस्य प्रारम्भे । अतएव अडागमः / आडागमः नित्यम् उपसर्ग-धात्वोः मध्ये
विद्यते । यथा, अनु + अवदत् → अन्ववदत्, परि + आट् + ईक्षत् → परि + क्षत् →
पर्यैक्षत् ।
१०. उपसर्गस्थस्य रेफस्य अय्-धातोः योगे लकारादे शभवति ।
अयँ (गतौ, भ्वादिः, १.५४६) धातोः विहिते उपसर्गे विद्यमानस्य रेफस्य उपसर्गस्यायतौ
८.२.१९ इति सूत्रेण लकारादे शभवति । यथा — प्र + अयते → प्लायते, परा + अयते →
पलायते, निर् + अयते → निलयते, दुर् + अयते‌→ दुलयते ।
११. दुस् तथा दुर् - एतयोः उपसर्गयोः मध्ये सूक्ष्मः भेदः विद्यते ।
दुस् तथा दुर् — एतयोः उपसर्गयोः प्रयोगेण प्रायेण समानानि एव रूपाणि भवन्ति, यतः दुस्-
उपसर्गस्य सकारस्य प्रक्रियायाम् नित्यम् ससजुषो रुः ८.२.६६ इति रुत्वम् एव भवति ।
ष्
टस्
परन्तु एकस्मिन् वि ष्टस्थले थलेशिएतयोः रूपयोः मध्ये भेदः विद्यते । अयँ (गतौ, भ्वादिः,
१.५४६) धातोः यदा दुर्-उपसर्गः विधीयते, तदा अस्य रेफस्य उपसर्गस्यायतौ ८.२.१९ इति
सूत्रेण लकारादे शभवति , येन दुलयते इति रूपं सिद्ध्यति । परन्तु अस्मात् धातोः यदा दुस्-
उपसर्गः विधीयते, तदा ससजुषो रुः ८.२.६६ इत्यनेन प्राप्तं रुत्वं उपसर्गस्यायतौ ८.२.१९
इत्यस्य कृते असिद्धम् अस्ति, अतः अस्य रेफस्य लत्वं नैव प्रवर्तते; अतच श्चदुरयते
इत्येव रूपं सम्भवति ।
१२. निस् तथा निर् - एतयोः उपसर्गयोः मध्ये सूक्ष्मः भेदः विद्यते ।
निस् तथा निर् — एतयोः उपसर्गयोः प्रयोगेण प्रायेण समानानि एव रूपाणि भवन्ति, यतः
निस्-उपसर्गस्य सकारस्य प्रक्रियायाम् नित्यम् ससजुषो रुः ८.२.६६ इति रुत्वम् एव भवति ।
ष्
टस्
परन्तु एकस्मिन् वि ष्टस्थलेथलेशि एतयोः रूपयोः मध्ये भेदः विद्यते । अयँ (गतौ, भ्वादिः,
१.५४६) धातोः यदा निर्-उपसर्गः विधीयते, तदा अस्य रेफस्य उपसर्गस्यायतौ ८.२.१९ इति
सूत्रेण लकारादे शभवति , येन निलयते इति रूपं सिद्ध्यति । परन्तु अस्मात् धातोः यदा
निस्-उपसर्गः विधीयते, तदा ससजुषो रुः ८.२.६६ इत्यनेन प्राप्तं रुत्वं उपसर्गस्यायतौ
८.२.१९ इत्यस्य कृते असिद्धम् अस्ति, अतः अस्य रेफस्य लत्वं नैव प्रवर्तते; अतच श्च
निरयते इत्येव रूपं सम्भवति ।
१३. अव तथा अपि - एतयोः उपसर्गयोः अकारस्य कुत्रचित् लोपः भवति ।
केषुचन प्रयोगेषु अव-उपसर्गस्य, अपि-उपसर्गस्य अकारस्य लोपः कृतः दृश्यते । तदर्थम्
वस्तुतः तु अष्टाध्याय्यां किमपि सूत्रं नैव विद्यते, परन्तु वष्टि
भागुरिरल्लोपमवाप्योरुपसर्गयोः इति वचनम् अनुसृत्य, भागुरिः इति नाम्नः कस्यचन
वैयाकरणस्य मतम् अनुसृत्य अस्य लोपस्य साधुत्वम् विधीयते ।यथा, कुमारसम्भवस्य
आदिमे श्लोके — पूर्वपरौ तोयनिधी वगाह्य — इत्यत्र वगाह्य इत्यस्मिन् शब्दे मूलरूपेण अव
इति उपसर्गः विद्यते, तस्य अकारस्य लोपं कृत्वा अवगाह्य इत्यस्य स्थाने वगाह्य इति
अकारलोपघटितं रूपं प्रयुक्तम् अस्ति । एवमेव, द्वारं पिदधाति (closes the door) इत्यत्र
अपिदधाति इति मूलः शब्दः, तत्र विद्यमानस्य अकारस्य लोपं कृत्वा पिदधाति इति
अकारलोपघटितः शब्दः सिद्ध्यति । एतादृ शप्रयोगाः वैकल्पिकाः एव, अतः अवगाह्य,
अपिदधाति एतादृ नाम् ना
म्शा
शब्दानाम् अपि साधुत्वम् अवयंश्यं
वर्तते ।
१४. 'उद्' इति उपसर्गे मूलरूपेण दकारः विद्यते, न हि तकारः ।
उद् इति उपसर्गः औपदे कस्वरूपे दकारघटितः पाठ्यते । अतएव उदः स्थास्तम्भोः पूर्वस्य
८.४.६१ इत्यत्र उदः इति दकारघटितम् पञ्चम्यन्तरूपम् प्रयुक्तम् अस्ति ।
१५. 'अपि' इति उपसर्गः प्रायेण वेदेषु एव दृश्यते ।
लौकिकसंस्कृते अपि उपसर्गस्य केवलम् द्वित्राणि उदाहरणानि सन्ति । यथा, हितोपदे श
अप्यूहन्ति मनो धीराः इति कचन नश्चप्रयोगः दृश्यते । एवमेव कवचं पिनह्य इति
(अकारलोपघटितः) कचन नश्चप्रयोगः भट्टिकाव्ये दृश्यते । अन्ये सर्वेऽपि प्रयोगाः
वैदिकाः एव सन्ति ।
वार्त्तिकानि

१. श्रच्छब्दस्य उपसङ्ख्यानम्
श्रत्(promise, assurance इत्यर्थः) इति शब्दः यद्यपि प्रादिगणे नास्ति, तथापि अयम्
क्रियायोगे उपसर्गरूपेण स्वीकर्तव्यः — इति अस्य वार्त्तिकस्य अर्थः । यथा, श्रत् + धा
इत्यत्र श्रत्-शब्दस्य उपसर्गसंज्ञां गृहीत्वा आतचोपसर्गेपसर्गेश्चो
३.३.१०६ इति सूत्रेण धा-धातोः
अङ्-प्रत्ययः विधीयते, येन श्रद्धा इति शब्दः सिद्ध्यति ।
२. दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः
षत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति —
इति अस्य वार्त्तिकस्य अर्थः । द्वे उदाहरणे एतादृ श—

i. दुस् / दुर् + भू इत्यस्य लोट्लकारस्य उत्तमपुरुषैकवचनम् दुर्भवानि इति भवति । अत्र यदि दुस् /
दुर् इत्येतयोः सर्गसंज्ञा अभविष्यत्, तर्हि आनि लोट् ८.४.१६ इत्यनेन प्रत्ययनकारस्य
णत्वम् भविष्यत् । परन्तु प्रकृतवार्त्तिकेन णत्वे कर्तव्ये दुस् / दुर् इत्येतयोः
उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र णत्वं न भवति ।
ii) दुस् / दुर् + स्था इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् दुःस्थास्यति इति भवति । अत्र
यदि दुस् / दुर् इत्येतयोः उपसर्गसंज्ञा अभविष्यत्, तर्हि उपसर्गात् सुनोतिसुवति... ८.३.६५
इत्यनेन स्था-इत्यस्य सकारस्य षत्वम् अभविष्यत् । परन्तु प्रकृतवार्त्तिकेन षत्वे
कर्तव्ये दुस् / दुर् इत्येतयोः उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न
भवति ।
३. अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वाच्यम्
अन्तर्-शब्दस्य अङ्-विधिकर्तव्ये, कि-विधिकर्तव्ये, णत्वे च कर्तव्ये उपसर्गसंज्ञा भवति
— इति अस्य वार्त्तिकस्य अर्थः । यथा —

i. धा-धातोः अन्तर्-शब्दस्य उपस्थितौ आतचोपसर्गे


पसर्गेश्चो
३.३.१०६ इत्यनेन अङ्-प्रत्ययः
भवितुम् अर्हति, यतः अङ्-विधौ कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतएव
अन्तर् + धा + अङ् + टाप् → अन्तर्धा इति शब्दः सिद्ध्यति ।
ii. धा-धातोः अन्तर्-शब्दस्य उपस्थितौ उपसर्गे घोः किः ३.३.९२ इत्यनेन कि-प्रत्ययः
भवितुम् अर्हति, यतः कि-विधौ कर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अतएव
अन्तर् + धा + कि → अन्तर्धि इति शब्दः सिद्ध्यति ।
iii. भू-धातोः अन्तर्-शब्दस्य उपस्थितौ लोट्लकारस्य उत्तरमपुरुषस्यैकवचने कर्तव्ये
आनि लोट् ८.४.१६ इत्यनेन णत्वम् सम्भवति, यतः णत्वे कर्तव्ये अन्तर्-शब्दस्य
उपसर्गसंज्ञा भवति । अतः अत्र अन्तर्भवाणि इति णकारघटितम् रूपम् सिद्ध्यति ।
The words प्र etc. get the designation of उपसर्ग or prepositions, when in composition with a verb.
As प्र + नयति = प्रणयति. Here the dental न is changed into cerebral ण, because of the प्र getting
the designation of upasarga (See sutra ८.४.१४). Similarly परिणयति, प्रणायकः, परिणायकः.

Why do we say when in composition with a verb? When in composition with a noun they are not
called upasargas. As प्रगतो नायकोऽस्माद् दे त् = प्रनायकोदे शa country destitute of a leader.
Here न is not changed into ण. Thus while प्रणायकः means 'a leader' the term प्रनायकः means
destitute of a leader; though both have the same radical elements :-- pra in one is an upasarga, in
the other a Nipata pure and simple.

Vart:- The word मरुत् should be included in the list of upasargas. As मरुद्भिर्दत्तः = मरुत्तः given by
Marut. मरुत् + दा + क्त = मरुत् + त् + त ७.४.४७. Here Marut being treated as an upasarga, though it
does not end with a vowel, the दा is replaced by त by rule ७.४.४७ which declares 'त the substitute
of दा which is called ghu when it is preceded by an upasarga that ends in a vowel, and is followed by
an affix beginning with त which has an indicatory k.'

It might be objected, that as मरुत् does not end with a vowel, sutra ७.४.४७ does not apply. To this
we say that otherwise the giving the designation of upasarga to मरुत् is superfluous; and in order
that this should not be so, the fact of its not ending with a vowel is overlooked.

Vart:- The particle श्रत् should be included in the list of upasargas. Thus श्रत् + धा + अङ् = श्रद्धा ३.३.१०६.
Here because श्रत् is treated as an upasarga, that sutra ३.३.१०६ is made applicable.

You might also like